________________
चतुर्थः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । ततः समवसरणं, शरणं भवभीजुषाम् । तौ प्रापतुश्चतुर्दार, सक्षिप्तां जगतीमिव ॥ ७७३ ॥ भरतेश्वरसुन्दर्यावुत्तरद्वारवर्त्मना । अथो समवसरणं, विशतः स यथाविधि ॥ ७७४॥ ममं हर्षविनयाभ्यामुच्छ्रसत्सङ्कुचत्तनू । प्रदक्षिणीचक्रतुस्तावथ त्रिः परमेश्वरम् ॥ ७७५ ॥ पञ्चाङ्गस्पृष्टभूमिकौ, नेमतुश्च जगत्पतिम् । रत्नभूतलसङ्क्रान्तमपि द्रष्टुमिवोत्सुकौ ॥ ७७६ ॥ चक्रवर्ती ततो धर्मचक्रवर्तिनमादिमम् । स्तोतुं प्रचक्रमे चारुगिरा भक्तिपवित्रया ॥ ७७७ ॥
असद्भूतान् गुणान् जल्पन् , जनः स्तौतीतरं जनम् । गुणान् सतोऽपि ते वक्तुमक्षमोऽहं स्तुवे कथम् ॥ तथापि हि जगन्नाथ!, करिष्यामि तव स्तुतिम् । न ददाति दरिद्रः किं, श्रीमतामप्युपायनम् ॥ ७७९ ॥ युष्मत्पादैदृष्टमात्रैरन्यजन्मकृतान्यपि । गलन्त्येनौसि शेफालीपुष्पाणीन्दुकरैरिव ॥ ७८० ॥ दुश्चिकित्समहामोहसन्निपातवतामपि । स्वामिन् ! जयन्ति ते वाचोऽमृतौषधिरसोपमाः ॥ ७८१॥ चक्रवर्तिनि रके वा, कारणं प्रीतिसम्पदाम् । समास्त्वदृष्टयो नाथ !, वार्षिक्य इव वृष्टयः ॥ ७८२ ॥ 10 क्रूरकर्महिमग्रन्थिविद्रावणदिवाकरः । स्वामिन्नमादृशां पुण्यैरिमां विहरसे महीम् ॥ ७८३ ॥ शब्दानुशासनव्यापिसंज्ञासूत्रोपमा प्रभो ! । जन्मव्ययधौव्यमयी, जयति त्रिपदी तव ॥ ७८४ ॥ यस्त्वां स्तौतीह भगवंस्तस्याऽप्येषोऽन्तिमो भवः । शुश्रूषते ध्यायति वा, यः पुनस्तस्य का कथा ? १७८५॥ भगवन्तमिति स्तुत्वा, नत्वा च भरतेश्वरः । पूर्वोत्तरस्यां ककुभि, निषसाद यथोचितम् ।। ७८६ ॥
सुन्दर्यपि हि वन्दित्वा, स्वामिनं वृषभध्वजम् । कृताञ्जलिर्जगादेवं, गद्गदाक्षरया गिरा ॥७८७॥ 15 मनसा दृश्यमानोऽभूरियत्कालं जगत्पते ! । प्रत्यक्षं बहुभिः पुण्यैर्दिष्ट्या दृष्टोऽसि सम्प्रति ॥ ७८८॥ मृगतृष्णोपमसुखे, संसारमरुमण्डले । पुण्यैः प्राप्तोऽसि लोकेन, त्वं पीयूषमहादः ॥ ७८९ ॥ निर्ममोऽपि जगन्नाथ !, जगतोऽप्यसि वत्सलः । कथं विषमदुःखाब्धेस्तत्समुद्धरसेऽन्यथा ? ॥ ७९० ॥ कृतिनी स्वामिनी ब्राह्मी, भ्रोतृव्याः कृतिनो मम । भ्रातृव्यजाश्च कृतिनो, ये हि त्वत्पथमन्वगुः ॥७९१॥ भरतेशोपरोधेन, यन्मयाऽग्राहि न व्रतम् । भगवंस्तदियत्कालं, स्वयमेवासि वञ्चिता ॥ ७९२॥ 20 विश्वतारक ! मां दीनां, तात! तारय तारय । गृहोयोतकरो दीपः, किं नोयोतयते घटम् ? ॥७९३ ॥ प्रसीद देहि दीक्षां मे, विश्वत्राणैकदीक्षित! । संसाराम्भोधितरणयानपात्रनिभां विभो! ॥ ७९४ ॥
साधु साधु महासत्त्वे, बुवन्निति ददौ विभुः । तस्यै दीक्षां सामायिकसूत्रोच्चारणपूर्विकाम् ॥ ७९५ ॥ महाव्रतद्रुमारामसुधासारणिसन्निभाम् । अनुशिष्टिमयीं तस्यै, देशनां विदधे विभुः ॥ ७९६ ॥ मोक्षप्राप्तमिवाऽऽत्मानं, मन्यमाना महामनाः । अनुज्येष्ठं निषसाद, सा मध्येव्रतिनीगणम् ॥ ७९७ ॥ 25
देशनां स्वामिनः श्रुत्वा, पादपझे प्रणम्य च । ययावयोध्यां नगरी, मुदितो भरतेश्वरः ॥७९८॥ दिदृक्षोः खं जनं सर्व, पुनस्तस्याधिकारिभिः । आगताः समदर्यन्ताऽस्मार्यन्ताऽनागता अपि ॥७९९ ॥ भ्रातूननागतान् ज्ञात्वा, स्वाभिषेकोत्सवेऽपि तान् । तेषामेकैकशो दूतान् , प्राहिणोद् भरतेश्वरः ॥८००॥ राज्यानि चेत् समीहध्वे, सेवचं भरतं ततः । दूतैरित्युदिताः सर्वेऽप्यालोच्यैवाऽवदन्निदम् ॥ ८०१ ॥ विभज्य राज्यं दत्तं नस्तातेन भरतस्य च । संसेव्यमानो भरतोऽधिकं किं नः करिष्यति ॥८०२॥ 30 समापतन्तं किं काले, कालं प्रस्खलयिष्यति? । किं जराराक्षसी देहग्राहिणीं निग्रहीष्यति? ॥ ८०३ ॥ बाधाविधायिनः किं वा, व्याधिव्याधान् हनिष्यति । यथोत्तरं वर्द्धमानां, यद्वा तृष्णां दलिष्यति ? ८०४ ईदृक् सेवाफलं दातुं, न चेद् भरत ईश्वरः । मनुष्यभावे सामान्ये, तर्हि कः केन सेव्यताम् ॥८०५॥ प्राज्यराज्योऽप्यसन्तोषादस्मद्राज्यं जिघृक्षति । स्थाम्ना चेत् तद् वयमपि, तस्य तातस्य सूनवः ॥८०६ ॥ - संसारभयवताम् । २ हर्षेणोच्छुसन्स्यौ विनयेन सङ्कुचन्स्यो तनू कायौ ययोस्ती । * असद्धतगु° खंता ॥ ३ पापानि । ४ कृतार्था । ५ भ्रातृपुत्राः। ६ शिक्षामयीम् । ७ रोगरूपव्याधान् । ८ बलेन ।
त्रिषष्टि. १४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org