________________
१०४ कलिकालसर्वज्ञश्रीक्षेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व यदि चौषधयो दिव्याः, प्राप्यन्ते नाऽस्मदोकसि । तदोषयीभी रहितो, हिमाद्रिरपि सम्प्रति ॥ ७४२ ॥ ये पश्यन्निमां क्षामां, दरिद्रतन यामिव । तदहो ! वैरिभिरिव, भवद्भिर्वश्चितोऽस्म्यहम् ॥ ७४३ ॥
प्रणम्य भरतं तेऽपि, प्रोचुरेवं नियोगिनः । सर्वमप्यस्ति देवस्य, देवेन्द्रस्येव सद्मनि ॥ ७४४ ॥ किन्तु देवो यदायगाद् , दिग्जयाय तदाद्यसौ । आचामाम्लानि कुरुते, प्राणत्राणाय केवलम् ॥७४५ ॥ तथा यदैव देवेन, प्रव्रजन्ती न्यषिध्यत । ततः प्रभृत्यसौ तस्थौ, भावतः संयंतेव हि ॥ ७४६ ॥ कैल्याणिनेयि ! कल्याणि !, प्रविजिषसीति सा । अनुयुक्ता महीनाथेनैवमेवेत्यवोचत ॥ ७४७॥
भरतोऽप्यभ्यधादेवं, प्रमादेनाऽऽर्जवेन वा । अहमस्या इयत्कालं, व्रतविघ्नकरोऽभवम् ॥ ७४८ ॥ अपत्यं तातपादानामनुरूपमसौ खलु । असक्तं विषयासक्ता, राज्यातृप्ताश्च के वयम् ? ॥ ७४९ ॥ आयुर्विनश्वरतरं, वार्द्धिवारितरङ्गवत् । जानन्तोऽपि न जानन्ति, जना विषयगृनवः ॥ ७५० ॥ गत्वरेणाऽऽयुषाऽनेन, मोक्षः साध्येत साधु तत् । मार्गावलोकनमित्र, विद्युता दृष्टनष्टया ।। ७५१ ॥ यकृच्छकृन्मूत्रमलखेदामयमयस्य यत् । प्रसाधनं वपुषस्तद्, गृहस्रोतोऽधिवासनम् ।। ७५२ ॥ आदत्से वपुषाऽनेन, साधु मोक्षफलं व्रतम् । क्षीराब्धितोऽपि रत्नानि, गृह्णन्ति निपुणाः खलु ॥७५३ ॥ अनुज्ञाता नरेन्द्रेण, मुदितेन व्रताय सा । तपःकृशाऽप्यकुशेव, प्रमदोच्छसिताऽभवत् ।। ७५४ ॥
अत्रान्तरे च भगवान , विहरन् वृषभध्वजः । अष्टापदगिरावागाजगदैहिबलाहकः ॥ ७५५ ॥ चक्रुश्च देवाः समवसरणं तत्र पर्वते । अपरं पर्वतमिव, रत्नकाञ्चनरूप्यजम् ॥ ७५६ ॥ कुर्वाणं देशनां तत्र, स्वामिनं गिरिपालकाः । एत्य विज्ञपयामासुर्भरतस्वामिने द्रुतम् ।। ७५७ ॥ __ षट्खण्ड भरतक्षेत्रविजयादधिकं ततः । तमुदन्तं समाकर्ण्य, मुमुदे मेदिनीपतिः ॥ ७५८ ॥
खामिनमागमयन्यो भृत्येभ्यः पारितोषिकम् । ददौ कोटीः सुवर्णस्य, सार्की द्वादश पार्थिवः ॥ ७५९ ॥ त्वन्मनोरथसंसिद्धिरित्र मूर्ती जगद्गुरुः । विहरनाजगामेह, सुन्दरीमित्युवाच च ।। ७६० ॥ अकारयनिष्क्रमणाभिषेकं भरतेश्वरः । तस्याः स्वान्तःपुरवधूर्जनैर्दासीजनैरिव ॥ ७६१ ॥
कृतस्नानाऽथ सा सद्यः, कृतपुण्यविलेपना । विलेपनान्तरमिव, पर्यधात् सदशांशुके ॥ ७६२ ॥ आमुमोच च सा रत्नालङ्कारानुत्तमानय । तस्याः शीलमलङ्कारोऽलङ्काराः प्रक्रियाकृते ॥ ७६३ ॥ तथास्थितायाः सुन्दर्याः, पुरतो रूपसम्पदा । स्त्रीरनं सा सुभद्राऽपि, चेटीवत् प्रत्यभासत ॥७६४ ॥ यो यद् ययाचे तत् तस्मै, वितताराऽविलम्बितम् । जङ्गमा कल्पवल्लीव, सुन्दरी शीलसुन्दरी ।। ७६५॥ कर्पूरधुलिधवलैर्वासोभिरुपशोभिता । कुमुदिनी मैरालीव, शिविकामारुरोह सा ।। ७६६ ॥ निषादिसादिपादातस्यन्दनच्छन्नभूमिना । अन्वयायि नरेन्द्रेण, मरुदेवीव सुन्दरी ॥ ७६७ ॥ वीज्यमाना चामराभ्यां, श्वेतच्छत्रेण शोभिता । वैतालिकैः स्तूयमाननिबिडव्रतसंश्रया ।। ७६८ ॥ भ्रातृजायाभिरुद्गीतप्रवज्योत्सवमङ्गला । उत्तार्यमाणलवणा, वरस्त्रीभिः पदे पदे ॥ ७६९ ॥ राजन्ती सह गच्छद्भिः, पूर्णपात्रैरनेकशः । स्वामिपादपवित्रं सा, प्रापदष्टापदाचलम् ॥ ७७० ॥
[त्रिभिर्विशेषकम् ] सच्चन्द्रमिव पूर्वादि, तमद्रिं स्वाम्यधिष्ठितम् । दृष्ट्वा भरतसुन्दरों, महान्तं हर्षमीयतुः ॥ ७७१ ॥ वर्गापवर्गयो राज्यं, सोपानमिव विस्तृतम् । तं विशालशिलं शैलं, समारुरुहतुश्च तौ ॥ ७७२ ॥
१ यतः प्रभृति। * आचाम्लानि कुरुते च प्रा खं ॥ + श्लोकोऽयं आपुस्तके नोपलभ्यते । २ दीक्षिता । ३ करूपाण्या: अपत्यं कल्याणिनेयी तत्सम्बुद्धी। ४ प्रव्रजितुमिच्छसि । ५ पृष्टा । ६ निरन्तरम् । ७ कुओ दक्षिण भागस्थो मांसपिण्डः । ८ विष्ठा । ९ मण्डनम् । १० जगन्मयूरमंघः। ११ वृत्तान्तम् । स्वाम्य गमयतां तेषां भृत्यानां पा सं २, आ॥ १२ आचारार्थम् । १३ दासीवत् । १४ हंसीव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org