________________
११८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व विसृष्टास्ते नरेन्द्रेण, जयश्रीणामिव स्वयम् । वरणं प्रतिवीराणां, कुर्वाणाः स्वगृहं ययुः ॥ ३१९ ॥ द्वयोरपि तदाऽऽर्षभ्योः , प्रसादार्णमहार्णवम् । तितीर्षवो वीरवराः, ससज्जू रणकर्मणे ॥ ३२० ॥ कृपाणचापतूणीरगदाशत्त्यादिकान्यथ । आनचुर्देवतानीव, स्वानि खान्यायुधानि ते ॥ ३२१ ॥ शस्त्राग्रे वादयामासुस्तूयाण्युच्चैर्महाभटाः । तालं पूरयितुमिवोत्साहाच्चित्तस्य नृत्यतः ॥ ३२२ ॥ आत्मानं मार्जयन्ति स्म, चन्दनोद्वर्त्तनैनवैः । महाभटाः सुरभिभिः, स्वयशोभिरिवाऽमलैः ॥ ३२३ ॥ चक्रुर्भटा मार्गमदीर्ललाटेषु ललाटिकाः । आबद्धमेचकपटवीरपट्टविडम्बिनीः ॥ ३२४ ॥ शस्त्राणि जाग्रतां भाविशस्त्राशस्त्रिकथाकृताम् । सैन्यद्वयेऽपि वीराणां, निद्रा भीतेव नाऽऽययौ ॥ ३२५ ॥ सैन्यद्वितयवीराणां, प्रातयुद्धाभिकाशिणाम् । त्रियामा शतयामेव, कथञ्चिदपि सा ययौ ॥ ३२६ ॥
आर्षभ्योवीक्षितुमित्र, रणक्रीडाकुतूहलम् । अथाऽऽरुरोह चण्डांशुरुदयाचलचूलिकाम् ॥ ३२७ ॥ 10 मन्दरक्षुब्धसङ्घभ्यत्पयोधिपयसामिव । पुष्करावर्तमेघानामिव प्रलयजन्मनाम् ॥ ३२८ ॥
दम्भोलिताड्यमानानामिव सानुमतां महान् । प्रणादो रणतूर्याणां, सैन्ययोरुभयोरभूत् ॥३२९॥ [युग्मम्] उत्कर्णतालास्तत्कालं, वित्रेसुर्दिमतङ्गजाः । सभयभ्रान्तयादस्काथुक्षुभुश्च पयोधयः ॥ ३३० ॥ गुहासु विविशुः क्रूराण्यपि सत्वानि सर्वतः । रन्ध्रादपि हि रन्ध्रेषु, न्यलीयन्त महोरगाः ॥ ३३१॥
गण्डशैलीभवच्छृङ्गाः, शैलाश्च प्रचकम्पिरे । विभाय सङ्कुचत्पादकण्ठं कमठराडपि ॥ ३३२ ॥ 15 बाढमध्वंसतेव द्यौर्विदद्र इव मेदिनी । रणातोद्यप्रणादेन, तदा तेन प्रसर्पता ॥ ३३३ ॥
[चतुर्भिः कलापकम् ] राजदौवारिकेणेव, रणतूर्येण चालिताः । उभयोः सैन्ययोः सैन्याः, ससजुरथ संयते ॥ ३३४ ॥ रणोत्साहोच्छ्सद्देहात् , त्रुट्यन्तीवर्मजालिकाः । भूयो भूयो नवनवास्ताः केपि समचारयन् ॥ ३३५ ॥
आरोचकितयाऽश्वान् केऽप्यात्मना समनाहयन् । स्वतोऽपि ह्यधिको रक्षा, भटाः कुर्वन्ति वाहने ॥३३६॥ 20 सन्नाह्याऽऽरुह्य केऽप्यश्वान् , परीक्षितुमवाहयन् । दुःशिक्षितो जडश्चाऽश्वः, शत्रवत्येव सादिनि ॥ ३३७॥
सन्नाहग्राहणे केऽपि, हेषमाणांस्तुरङ्गमान् । आनचुर्देववद् युद्धे, हेषा हि जयसूचिनी ॥ ३३८॥ लब्धाश्वान केऽप्यसन्नाहान् , सन्नाहान् विजहुर्निजान् । शौण्डीरदोष्णां समरेष्विदं हि पुरुषव्रतम् ॥३३९॥ अस्खलन् सञ्चरे|रे, रणे मत्स्य इवाऽर्णवे । दर्शयेः कौशलमिति, शशासुः केपि सारथिम् ॥ ३४०॥
पथिका इव पाथेयैरस्त्रैः केऽपि निजान् रथान् । समन्तात् पूरयामासुः, पश्यन्तः समरं चिरम् ॥ ३४१॥ 25 दूरादात्मख्यापनाय, केपि वैतालिकानिव । उत्तम्भितखस्खचिह्नान , ध्वजस्तम्भान् दृढान् व्यधुः॥३४२॥
रथेष्वायोजयन् केऽपि, सुश्लिष्टयुगशालिषु । परसैन्यपयोराशिजलकान्तांस्तुरङ्गमान् ॥ ३४३ ॥ सारथिभ्यो ;ढीयांसि, तनुत्राणानि केऽप्यदुः । रथाः सरथ्या अपि हि, निष्फलाः सारथिं विना ॥३४४॥ उद्दामलोहवलयश्रेणिसम्पर्ककर्कशान् । आनचुर्दन्तिनां दन्तान् , केचिनिजभुजानिव ॥ ३४५ ॥ करिष्यारोपयन् शारीः, पताकामालभारिणीः । केचिद् वासगृहाणीव, समेष्यन्त्या जयश्रियः ॥ ३४६ ॥ सद्यःस्फुटद्गण्डगजमदैमूंगमदेरिव । जल्पन्तः शकुनमिति, तिलकान् केऽपि चक्रिरे ॥ ३४७ ॥ परेभमदगन्धाढ्यं, वायुमप्यसहिष्णवः । कैश्चिदप्यारुरुहिरे, मनोवद् दुर्धरा गजाः ॥ ३४८ ॥ सौवर्णान् ग्राहयामासुः, सर्वैः सर्वेऽपि सिन्धुरैः । समरोत्सवशृङ्गारचोलकानिव कङ्कटान् ॥ ३४९ ॥ उन्नालनीलनलिनीलीलया लोहमुद्गरान् । कुञ्जरैर्ग्राहयामासुः, कराग्रेषु निषादिनः ॥ ३५० ॥ १ ललाटालङ्कारान् । २ कृष्णवस्त्रं बोध्यम् । ३ शस्त्राशस्त्रियुद्धकथाः कुर्वाणानाम् । ४ भयं प्राप्तः । ५ युद्धाय । ६ कवचजालिकाः। ७ शत्रुव दाचरति । ८ अश्वशब्दः। ९ पराक्रमिभुजानाम् । १० चारणान् । ११ हलतमानि । १२ कवचानि । १३ अश्वसहिताः । १४/गजकवचान् । १५ कस्तूरीभिः ।
......
.
...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org