________________
पञ्चमः सर्गः] त्रिपष्टिशलाकापुरुषचरितम् ।
११९ कालायसमयान् कोशानाशु हस्तिपकाः शितान् । यमस्येवाऽऽहृतान् दन्तान् , दन्तिदन्तेषु विन्यधुः॥३५१॥
वेसराः शकटाचाऽस्त्रपूर्णास्तूर्ण प्रयान्त्वनु । अन्यथा लघुहस्तानामस्त्रं पूरिष्यते कथम् १ ॥ ३५२ ॥ वर्मपूर्णाश्च यान्तृष्टा, वाण्यग्रे धृतानि यत् । त्रुटिष्यन्ति हि वीराणामत्रुटद्रणकर्मणाम् ।। ३५३ ॥ रथान्तराणि गच्छन्तु, सज्जानि रथिनामनु । भज्यन्ते हि स्थाः शस्त्राशनिपातान्नगा इव ॥ ३५४ ॥ श्रान्तेषु प्रथमाश्वेषु, युद्विघ्नो मारम भूदिति । सादिनां पृष्ठतो यान्तु, शतशोऽश्वान्तराण्यपि ॥ ३५५ ॥ 5 एकैकं बद्धमुकुटं, भूयांसोऽप्यनुयान्त्विभाः । न निर्वहति यत् तेषामिभेनैकेन सङ्गरः ॥ ३५६ ॥ गच्छन्तु महिषाचाऽनुसैनिकं वारिवाहिनः । रणायासनिदाघर्तुतप्तानां जङ्गमपाः ॥ ३५७ ॥ कोश इवौषधीशस्य, सारं हिमगिरेरिव । उत्पाट्यन्तां च गोणीभी, रोहणौषधयो नवाः ॥ ३५८ ।। रणे राजनियुक्तानामित्याज्ञापनजन्मभिः । कोलाहलैरतायिष्ट, रणतूर्यमहारवः ॥ ३५९ ॥
- [अष्टभिः कुलकम् ] 10 विश्वं शब्दमयमिव, तुमुलैर्विष्वगुत्थितैः । अयोमयमिव चाऽऽसीत् , सर्वतः प्रेङ्खदायुधैः ॥ ३६० ॥ सारयन्तश्चरित्राणि, पूर्वेषां दृष्टपूर्विवत् । शंसन्तो रणनिर्वाहफलं व्यासवदुच्चकैः ॥ ३६१ ॥ उद्दीपनाय वीराणां, कीर्तयन्तो मुहुर्मुहुः । उपस्थितान् प्रतिभटान् , सादरा नारदर्षिवत् ॥ ३६२ ॥ प्रतिनागं प्रतिरथं, प्रत्यश्वं पर्ववन्मुदा । वैतालिका रणोत्तालास्तत्र भ्रेमुरनाकुलम् ॥ ३६३ ॥
[त्रिभिर्विशेषकम् ] 15 अथ बाहुबलिः स्नात्वा, प्रययौ देवमर्चितुम् । देवागारे गरीयांसः, कार्य गुप्यन्ति न क्वचित् ॥३६४॥ ऋषभस्वामिनस्तत्र, प्रतिमां गन्धवारिभिः । भक्त्या सोऽनपयजन्माभिषेक इव वासवः ॥ ३६५ ॥ दिव्यया गन्धकाषाय्या, निष्कषायस्ततः स ताम् । ममार्ज परमश्राद्धः, श्रद्धयेव निजं मनः ॥ ३६६ ॥ प्रतिमायास्ततो यक्षकर्दमेन विलेपनम् । चक्रे दिव्यांशुकमयं, रचयन्निव चोलकम् ॥ ३६७ ॥ राजा जिनार्चामानर्च, विचित्रैः पुष्पदामभिः । सुरद्रुसुमनोदामसोदरैरिव सौरभात् ॥ ३६८ ॥ 20 सौवर्णे धूपदहने, दिव्यं धूपं ददाह च । तद्भूमै रचयन् पूजां, नीलोत्पलमयीमिव ॥ ३६९ ॥ ततः कृतोत्तरासङ्गो, मकरस्थ इवाऽयमा । प्रतापमिव जग्राहाऽऽरात्रिकं दीप्रदीपकम् ॥ ३७० ॥ तदाऽऽरात्रिकमुत्तार्य, प्रणम्य च कृताञ्जलिः । आदिनाथं बाहुबलिर्भक्तिमानेवमस्तवीत् ॥ ३७१ ॥ ___ अवज्ञायाऽज्ञतां स्वस्य, सर्वज्ञ! त्वां स्तवीम्यहम् । यन्मां मुखरयत्येषा, दुर्वारा भक्तिमानिता ॥३७२॥ जयन्त्यादिमतीर्थेश !, त्वत्पादनखदीप्तयः । वज्रपञ्जरतां यान्त्यो, भवारित्रस्तदेहिनाम् ॥ ३७३ ॥ 25 देव! त्वच्चरणाम्भोजमीक्षितुं राजहंसवत् । धन्याः प्रतिदिनं दूरादपि धावन्ति देहिनः ॥ ३७४ ॥ घोरसंसारदुःखात्तैः, शीतातैरिव भास्करः । शरणीक्रियसे देव, त्वमेवैको विवेकिभिः ॥ ३७५ ॥ ये त्वां पश्यन्ति भगवन् !, नेत्रैरनिमिषैर्मुदा । परलोकेऽप्यनिमिषीभावस्तेषां न दुर्लभः ॥३७६ ॥ देव! त्वद्देशनावाग्भिर्याति कर्ममलो नृणाम् । क्षीरेण क्षौमवस्त्राणामिव मालिन्यमाञ्जनम् ॥ ३७७॥ खामिन्नृषभनाथेति, जप्यमाना तवाभिधा । आलम्बते सर्वसिद्धिसमाकर्षणमत्रताम् ॥ ३७८ ॥ 30 न वज्रमपि भेदाय, न शूलमपि हि च्छिदे । तेषां शरीरिणां नाथ!, येऽधित्वद्भक्तिवर्मिताः ॥ ३७९ ॥
भगवन्तमिति स्तुत्वा, नत्वा च पुलकाश्चितः । निरगाद् देवतागारानरेश्वरशिरोमणिः ॥ ३८॥
१ कृष्णलोहमयान् । २ हस्तलाघववताम् । ३ अविच्छिन्नरणकर्मणाम् । ४ रणप्रयासग्रीष्म तप्तानाम् । ५ जङ्गमजलसत्राणि। ६ चन्द्रस्य । ७व्रणसंरोहणी। ८ लोहमय मिव । ९ महान्तः। १० सुगन्धिद्रव्यमिश्रितविलेपनविशेषेण । ११ कल्पवृक्षपुष्पमालासमानैरिव । १२ कृतः उत्तरासको येन सः, सूर्यपक्षे कृतः उत्तरदिशः सनो येन सः। १३ मकरराशिस्थितः। १४ सूर्यः। १५ संसाररिपुत्रस्तप्राणिनाम्। १६ देवत्वम्। १७ कजलसम्बन्धि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org