________________
१२०
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत
[प्रथमं पर्व जयाह वनसंभाहं, हेममाणिक्यमण्डितम् । विजयश्रीविवाहाय, स कक्षुकमिवोच्चकैः ॥ ३८१ ॥ शुशुभे वर्मणा तेन, भातुरेण नरेश्वरः । घनविद्रुमसंहत्याऽधिपतिर्यादसामिव ॥ ३८२ ॥ शिरस्त्राणं च शिरसि, न्यधत्त धरणीधवः । शैलशृङ्गनिविष्टाभ्रमण्डलश्रीविडम्बकम् ॥ ३८३ ।। पृष्ठेऽषधाच तूणीरौ, लोहनाराचपूरितौ । महाफणिगणाकीर्णपातालविवगेपमौ ।। ३८४ ॥ युगान्तसमयोदस्तयमदण्डसहोदरम् । कोदण्डं वामदोर्दण्डे, धारयामास भूपतिः ।। ३८५ ॥ आशास्यमानः स्वस्तीति, सौवस्तिकवरैः पुरः । जीव जीवेत्युच्यमानः, स्वगोत्रजरतीजनैः ॥ ३८६ ॥ नन्द नन्देत्युच्यमानो, जरदाप्तजनैः पुनः । चिरं जय जयेत्युच्चैर्गद्यमानश्च बन्दिभिः ॥ ३८७ ॥ मेरुशृङ्गमिव खारोट, महेभं स महाभुजः । आरुरोहाऽऽरोहकेण, दत्तहस्तावलम्बनः ॥ ३८८ ॥
[ त्रिभिर्विशेषकम् ] 10 इतस्तदानीमेव श्रीभरतेशोऽपि पुण्यधीः । जगाम देवतागारं, कोशागारं शुभश्रियः ॥ ३८९ ॥
प्रतिमामादिनाथस्य, नपयामास तत्र सः । दिग्जयानीतपद्मादितीर्थतोयैर्महामनाः ॥ ३९० ।। ममार्ज राजशार्दूलो, देवदूष्येण वाससा । प्रतिमां तामप्रतिमां, शिल्पिवर्यो मणीनिव ? ॥ ३९१ ॥ हिमाचलकुमारादिदत्तैोशीर्षचन्दनैः । विलिलेप प्रतिमां तां, स्वयशोभिरिवाऽवनीम् ॥ ३९२ ॥
पौर्विकस्वरैः पद्मासद्मपद्मसहोदरैः । रचयामास पूजां च, नयनस्तम्भनौषधीम् ॥ ३९३ ॥ 15
प्रतिमायाः पुरो धूपं, निर्ददाह महीपतिः । आलिखन्निव कस्तूरीपत्राली धूमवल्लिभिः ॥ ३९४ ॥ निःशेषकर्मसमिधामग्निकुण्डमिवोल्वणम् । आदत्ताऽऽरात्रिकं दीप्रदीपकं राजदीपकः ॥ ३९५ ॥ तदुत्तार्याऽऽदिनाथाय, नमस्कृत्य च भूपतिः । विरचय्याञ्जलिं मूर्भि, स्तोतुमित्युपचक्रमे ॥ ३९६ ॥
त्वां जडोऽपि जगन्नाथ!, युक्तमानी स्तवीम्यहम् । लल्ला अपि हि बालानां, युक्ता एव गिरो गुरौ ॥३९७॥
देव ! त्वामाश्रयन् जन्तुर्गुरुकर्माऽपि सिध्यति । अयोऽपि हेमीभवति, स्पर्शात् सिद्धरसस्य हि ॥ ३९८ ॥ 20 त्वां ध्यायन्तः स्तुवन्तश्च, पूजयन्तश्च देहिनः । धन्याः स्वामिन्नाददते, मनोवाग्वपुषां फलम् ॥ ३९९ ॥
पृथ्व्यां विहरतः स्वामिन्नपि ते पादरेणवः । महामतङ्गजायन्ते, पापद्न्मूलने नृणाम् ॥ ४००॥ नैसर्गिकेण मोहेन, जन्मान्धानां शरीरिणाम् । विवेकलोचनं नाथ !, त्वमेको दातुमीशिषे ॥४०१॥ सुचिरं चश्वरीकन्ति, ये भवत्पादपद्मयोः । तेषां न दूरे लोकाग्रं, मेर्वादि मनसामिव ॥ ४०२॥
देव ! त्वद्देशनावाग्भिर्गलन्त्याशु शरीरिणाम् । कर्मपाशा जम्बुफलानीव वारिदवारिभिः ॥ ४०३ ॥ 25 इंदं याचे जगन्नाथ !, त्वां प्रणम्य मुहुर्मुहुः । त्वयि भक्तिस्त्वत्प्रसादादक्षयाऽस्त्वन्धिवारिवत् ॥ ४०४ ॥
आदिनाथमिति स्तुत्वा, नमस्कृत्य च भक्तिमान् । निर्ययौ देवतागारान्नरदेवदिवाकरः ॥ ४०५॥ भूयो भूयोऽपि शिथिलीकृत्य माने विनिर्मितम् । अङ्गेन हर्षोच्छसितेनाऽऽददे कवचं नृपः॥४०६॥ रेजे तेनाऽङ्गलग्नेन, दिव्येन मणिवर्मणा । माणिक्यपूजया देवप्रतिमेव महीपतिः॥४०७॥ स्वर्णरत्नशिरस्त्राणं, मध्योच्चं छत्रवर्तुलम् । द्वैतीयीकमिवोष्णीषं, बभार भरतेश्वरः॥ ४०८ ॥ नागराजाविवाऽत्यन्ततीक्ष्णनाराचदन्तुरौ । पृष्ठे निषङ्गौ बिभराञ्चके विश्वम्भराधवः ॥ ४०९॥ उपाददे ततो वैरिवामं वामेन पाणिना । कालपृष्ठं महाचापं, वज्रीव ऋजुरोहितम् ॥ ४१० ॥ अन्यतेजस्विनां तेजो, असमानो ग्रहेन्द्रवत् । लीलास्थिरपदन्यासं, कामन् भद्रगजेन्द्रवत् ॥ ४११ ॥ तृणवद् गणयन्नग्रे, प्रतिवीरान् मृगेन्द्रवत् । दृष्ट्यापि दुर्विषहया, भीषणः पन्नगेन्द्रवत् ॥ ४१२ ॥
१ वज्रकवचम् । २ विपुल प्रवालसमूहेन । ३ यादसां अधिपतिः समुद्रः। ४ पुरोहितैः । ५ इन्द्रः। * शिवधि खंता ॥ ६ लक्ष्मीगृहपभसदृशैः। समग्रकर्मकायाम्। ८ स्खलिताः। ९ सुवर्णीभवति। १० भ्रमरायन्ते। । एकं खंता ॥ ११ शिरोवेष्टनम् । १२ पृथ्वीपतिः। १३ वैरिप्रतिकूलम् ।
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org