________________
१२१
मनमः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । बन्दिकन्दारकैरुच्चैः, स्तूयमानो महेन्द्रवत् । नरेन्द्रो रणनिस्तन्द्रमारुरोह महागजम् ॥ ४१३ ॥
त्रिभिर्विशेषकम् ] मागधेभ्यः प्रयच्छन्ती, द्रविणं कल्पशाखिवत् । पश्यन्तावागतान् सैन्यान् , सहस्रेक्षणवन्निजान् ॥४१४॥ बिभ्राणौ बाणमेकं च, मृणालं राजहंसवत् । कुर्वाणौ रणवात्तां च, रतवात्ता विलासिवत ॥४१५॥ महोत्साहौ महौजस्को, नभोमध्यं दिनेशवत् । उभावप्यार्षभी स्वस्वसैन्यमध्यमथेयतुः ॥ ४१६ ॥ 5
[त्रिभिर्विशेषकम् ] भरतो बाहुबलिश्च, निजसैन्यान्तरस्थितः । बभार जम्बूद्वीपान्तर्वर्तिमेरुगिरिश्रियम् ॥ ४१७ ॥ तयोश्च सेनयोरन्तर्वर्तिनी भूरलक्ष्यत । विदेहक्षेत्रभूमीव, मध्ये निषधनीलयोः॥४१८॥ उभे अपि तयोः सेने, पतीभूयाऽभ्यसर्पताम् । कल्पान्तसमये पूर्वापरवारिनिधी इव ॥ ४१९॥ बहिर्विस्फुट्य गच्छन्तो, न्यवार्यन्त पदातयः । राजदौवारिकैर्वारिप्रवाहा इव सेतुभिः ॥ ४२०॥ 10 मिथः समपदन्यासं, चेलू राजाज्ञया भटाः । ते तालेनैकसङ्गीतवर्त्तिनो नर्तका इव ॥ ४२१॥ अलचितनिजस्थानं, चलद्भिः सर्वसैनिकैः । पताकिन्यौ तयोरेकतनू इव विरेजतुः ॥ ४२२ ॥ दारयन्तः शताङ्गानां, राङ्गैरायसाननैः । अयःकुद्दालकल्पैश्च, खनन्तो वाजिनां खुरैः ॥ ४२३ ॥ मिन्दाना वेसरखुरैरर्द्धचन्द्ररिवाऽऽयसैः । क्षुन्दन्तश्च पदातीनां, चरणैर्वज्रपाणिभिः ॥ ४२४ ॥ खण्डयन्तः क्षुरप्राभैर्महिषोक्षखुरैः खरैः । मुद्गराभैः करिपादैचूर्णयन्तश्च मेदिनीम् ॥ ४२५ ॥ 15 छादयन्तो रजोभिमन्धकारसहोदरैः । द्योतयन्तश्च शस्त्रोत्रैर्भानुमद्भानुबन्धुभिः ॥ ४२६ ॥ भूयसा निजभारेण, क्लिश्नन्तः कूर्मकर्परम् । दंष्ट्रां महावराहस्य, नामयन्तः समुन्नताम् ॥ ४२७ ॥ गाढं शिथिलयन्तश्च, फणाटोपं फणीशितुः । दिग्गजानपि खर्वाङ्गीकुर्वन्तो निखिलानपि ॥ ४२८ ॥ ब्रह्माण्डमाण्डं वेडाभिर्वादयन्त इवोच्चकैः । करास्फोटप्रणादैश्व, स्फोटयन्त इवोत्कटैः ॥ ४२९॥ उपलक्ष्योपलक्ष्योचैर्विश्रुतैः केतुलाञ्छनैः । नामग्राहं च वृण्वन्तः, प्रतिवीरान् महौजसः ॥ ४३०॥ 20 अन्योन्यमाह्वयमाना, मानशौण्डीर्यशालिनः । अग्रसैन्यैरग्रसैन्या, अमिलन सैन्ययोर्द्वयोः ॥ ४३१ ॥
. [नवभिः कुलकम् ] गजिनो गजिनां यावद्, यादांसि यादसामिव । सादिनां सादिनो यावद् , वीचिनामिव वीचयः ॥४३२॥ रथिनां रथिनो यावद् , वायूनामिव वायवः । पत्तीनां पत्तयो यावच्छृङ्गिणामिव शृङ्गिणः ॥ ४३३ ॥ प्रासं प्रासस्थाऽसिमसेर्मुद्गरं मुद्गरस्य च । दण्डं दण्डस्य चाऽमर्षान्मेलयन्तो डुढौकिरे ॥ ४३४ ॥ 25 तावनभसि सम्भ्रान्तास्त्रैलोक्योन्माथशङ्कया । उपर्युपरि गीर्वाणं, गीर्वाणाः समुपागमन् ॥ ४३५ ॥
[चतुर्भिः कलापकम् ] सङ्घर्षः कोऽयमार्षभ्योः , स्वकयोरिव हस्तयोः । इत्यामृशन्तस्ते प्रोचुरुभयोः सैनिकानिति ॥४३६॥ ऋषभखामिनोत्राऽऽज्ञा, योद्धव्यं केनचिन्न हि । युष्माकं स्वामिनी यावद्, बोधयामो मनखिनौ ॥४३७॥ आज्ञया त्रिजगद्भर्तुरुभयेऽपि हि सैनिकाः । तथैव तस्थुस्ते सर्वेऽप्यालेख्यलिखिता इव ॥ ४३८॥ 30 किममी बाहुबलिनः १, किं वा भरततः सुराः । एवं तु चिन्तयामासुः, सैनिकास्ते तथास्थिताः॥४३९॥ न व्यनश्यदहो! कार्य, भद्रं लोकाय सम्प्रति । इति ब्रुवाणा गीर्वाणाश्चक्रिणं ययुरादितः ॥ ४४० ॥ दत्त्वा जयजयेत्याशीर्वाद देवाः प्रियंवदाः । युक्तियुक्तेन वचसा, तं मत्रिण इवाऽवदन ॥ ४४१ ॥ साधु षदखण्डभरतक्षेत्रे भूपास्त्वया जिताः । नृदेव ! देवराजेन, पूर्वदेवी इवाऽभितः ॥ ४४२॥ १ पूर्वपश्चिमसमुद्रौ। २ राजद्वारपालैः । ३ रथानाम्। ४ चकैः। ५ महिषवृषखुरैः। ६ सूर्यकिरणसदृशैः। ७ कर्मष्ठम्। जीकुर्वन्तः। ९सिंहनादैः । १० चित्रलिखिता इव । ११ न विनष्टम् । १२ असुराः ।
त्रिषष्टि, १६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org