________________
5
10
15
20
25
30
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ प्रथमं पर्व
तवौजसा तेजसा च तेषु राजेन्द्र ! राजसु । मृगेषु शरभस्येव, प्रतिमल्लो न कोऽप्यभूत् ॥ ४४३ ॥ अपूर्यत रणश्रद्धा, तैर्नूनं भवतो नहि । हैयङ्गेवीनश्रद्धेव, वारिकुम्भैर्विलोडितैः ॥ ४४४ ॥ द्वितीयेनाऽऽत्मनो भ्रात्रा, सहाऽऽरेभे त्वया ततः । युद्धमेतत् स्वहस्तेन, स्वहस्तस्येव ताडनम् ॥ ४४५ ॥ दोःकण्डूरेव ते राजंस्तद्रणे कारणं ध्रुवम् । गण्डकण्डूरिवेभस्य, महातरुनिघर्षणे ॥ ४४६ ॥ भुजक्रीडाऽपि युवयोर्जगतां प्रलयाय हि । वनभङ्गाय सम्फेटो, मत्तयोर्हि वनेभयोः ॥ ४४७ ॥ विश्वं संहर्तुमारब्धं, क्रीडामात्रकृते कुतः १ । क्षणिकप्रीतये मांसादिना खगकुलं यथा ॥ ४४८ ॥ जगत्रातुः कृपाम्भोधे ऋषभादाप्तजन्मनः । अग्निवृष्टिः सुधास्तेरिवेदं किं तवोचितम् ॥ ४४९ ॥ तद् घोरात् सङ्गरादस्मात्, सङ्गेभ्य इव संयमी । विरम क्षोणिरमण !, निजं व्रज निकेतनम् ॥ ४५० ॥ त्वय्यायाते समायातो, याते यास्यत्यसावपि । तवानुजो बाहुबलिः, कार्य हि खलु कारणात् ||४५१ ॥ शुभं भवतु वां विश्वर्क्षयांहःपरिहारतः । उभयेभ्योऽपि सैन्येभ्यश्चाऽस्तु क्षेमं रणोज्झनात् ॥ ४५२ ॥ त्वत्सैन्यभारसम्भूतभूमिभङ्गविरामतः । भूगर्भवासिनः सन्तु भवनेन्द्रादयः सुखम् ॥ ४५३ ॥ भूमिः शैलाः समुद्राच, प्रजाः सत्त्वानि सर्वतः । क्षोभं त्यजन्तु त्वत्सैन्यविमर्दविरहादिह ॥ ४५४ ॥ युष्मत्समरसम्भाविविश्वसंहारशङ्कया । विना भूताः सुखं तिष्ठन्त्वपि सर्वे दिवौकसः । ४५५ ।।
इत्युदित्वा कार्यवाद, विरतेषु सुपर्वसु । बभाषे भरताधीशो, गिरा स्तनितंधीरया ॥ ४५६ ॥ इमां विश्वहितां वाचं, के ब्रूयुर्भवतो विना ? । जनो हुँदास्ते प्रायेण, परकौतुकमीक्षितुम् ॥ ४५७ ॥ किन्त्वत्र समरोत्थानकारणं वतुतोऽन्यथा । युक्त्याऽन्यथा तु युष्माभिरूहितं हितकाङ्क्षिभिः ॥ ४५८ ॥ कार्यमूलमविज्ञाय, स्वयमभ्यै किश्चन । शासितुः शासनं मोघं भवेत् सुरगुरोरपि ॥ ४५९ ॥ दोष्मोनस्मीति सहसा, सङ्ग्रामेच्छुर्न खल्वहम् । सति भूयसि किं तैले, शैलाभ्यङ्गो विधीयते १ ॥ ४६० ॥ षट्खण्डभरतक्षेत्रे, नृपतीन् जयतो मम । प्रतिमल्लो यथा नाऽऽसीत्, तथाऽद्याऽपि न विद्यते ॥४६१॥ प्रतिमल्लो द्विषन्नेव, जयाजयनिबन्धनम् । बाहुबलिस्त्वहमेव, जातभेदो विधेर्वशात् ॥ ४६२ ॥ निर्वादभीरुर्लज्जावान्, विवेकी विनयी सुधीः । पुरा तातमिवाऽमंस्त, मां हि बाहुबलिः खलु ॥ ४६३ ॥ षष्टिं वर्षसहस्राणि कृत्वा दिग्जयमागतः । तं वीक्षेऽन्यादृशमिव, भूयान् कालोऽत्र कारणम् ॥ ४६४ ॥ ततोऽभिषेकवर्षेषु, द्वादशस्वपि मां न हि । आगाद् बाहुबलिस्तत्र, प्रमादस्तर्कितो मया ॥ ४६५ ॥ आह्वानाय मया दूते, प्रहितेऽप्येष नैति यत् । तर्क्यते मन्त्रिणां मन्त्रदोषस्तत्राऽपि कारणम् ॥ ४६६ ॥ अहमप्याह्वयाम्येनं, न लोभान्न च कोपतः । किन्त्वन्तर्न विशेच्चक्रमेकस्मिन्नप्यनार्तेते ॥ ४६७ ॥ न चक्ररलं नगरीं, प्रविशत्येष मां न च । परस्परस्पर्द्धयेवेत्यनयोः सङ्कटेऽपतम् ॥ ४६८ ॥ स एकवारमायातु, मम भ्राता मनस्व्यपि । अन्योर्वीमपि गृह्णातु, मत्तः पूजामिवाऽतिथिः || ४६९ ॥ विना चक्रप्रवेशं मे, नाऽन्यत् सङ्ग्रामकारणम् । नतेनाऽप्यनतेनाऽपि न मे मानोऽनुजन्मना ॥ ४७० ॥
अथोचिरे सुरा राजन्!, महत् सङ्ग्रामकारणम् । अल्पेन कारणेनेदृकू, प्रवृत्तिर्न भवादृशाम् ॥। ४७१ ॥ उपेत्य बाहुबलिनं, बोधयामोऽधुना वयम् । युगक्षय इवाऽऽगच्छन्, रक्षणीयो जनक्षयः ॥ ४७२ ॥ भवानिव युधः सोऽपि, यद्युचैः कारणान्तरम् । वदेत् तथाऽपि युद्धेन, योद्धव्यमधमेन न ॥ ४७३ ॥ दृष्टि-वाग्बाहु - दण्डाद्यैर्युद्धैर्योद्धव्यमुत्तमैः । वधो निरपराधानां गजादीनां यथा न हि ॥ ४७४ ॥ तथेति प्रतिपेदाने, चक्रवर्त्तिनि नाकिनः । द्वितीयस्मिन् 'बैले बाहुबलिराजानमभ्ययुः ॥ ४७५ ।।
१२२
१ प्रतिस्पर्धी । २ नवनीतश्रद्धा | ३ युद्धम् । ४ मांसभक्षिणा । ५ चन्द्रात् । ६ विश्वक्षयपापपरिहारतः । ७ रणत्यागात् । ८ देवेषु । ९ मेघगर्जनगभीरया । १० उदासीनो भवति । ११ वित । १२ बलवान् अस्मि । १३ पर्वतमर्दनम् । १४ अनन्रीभूते । १५ सैन्ये ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org