________________
पत्रमः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् ।
१२३ अहो ! अधृष्यो मूल्ऽसौ, दृढावष्टम्भगर्भया । इत्यन्तर्विस्मयजुषस्ते तमेवं बभाषिरे ॥ ४७६ ॥ चिरं जय चिरं नन्द, वृषभस्वामिनन्दन ! । जगन्नेत्रचकोराणामानन्दैकनिशाकर ! ॥ ४७७ ॥ अम्भोधिरिव मर्यादां, नोल्लङ्घयसि जातुचित् । बिभेष्यवर्णवादाच्च, समरादिव कातरः ॥ ४७८ ॥ निजसम्पत्खनुत्सेकी, परसम्पत्स्वमत्सरी । विनेता दुर्विनीतानां, विनीतश्च गुरुष्वपि ॥ ४७९ ॥ विश्वाभयकृतो देवस्याऽनुरूपस्त्वमात्मजः । उच्छेदायाऽपरस्याऽपि, नाभ्ययुक्था मनागपि ॥ ४८०॥5 तत् किं ते भ्रातरि गुरावारम्भोऽयं भयङ्करः । त्वत्तः सम्भाव्यते नैष, पञ्चत्वममृतादिव ॥ ४८१ ॥ इयत्यपि गते कार्य, न विनष्टं मनागपि । तद्रणारम्भसंरम्भ, खलमैत्रीमिव त्यज ॥ ४८२॥ सम्परायरयाद् वीरान् , निवारय नरेश्वर ! । निजाज्ञया प्रसरतो, मत्रेणेव महोरगान् ॥ ४८३ ॥ भरते भ्रातरि गुरौ, गत्वा भव वशंवदः । एवं च श्लाघ्यसेऽत्यन्तं, शक्तो विनयभागिति ॥ ४८४ ॥ तदिदं भरतक्षेत्रं, षट्खण्डं भरतार्जितम् । मुख खोपार्जितमिव, युवयोर्हि किमन्तरम् १ ॥४८५॥ 10
इत्युदित्वा विरतेषु, तेषु वृष्ट्वा घनेष्विव । एवं बाहुबलिः साऽऽह, सित्वा गम्भीरया गिरा ॥४८६॥ आवयोर्विग्रहे हेतुमज्ञात्वा परमार्थतः । निजखच्छतया यूयमेवं वदथ हे सुराः! ॥ ४८७ ॥ तातभक्ताः सदा यूयमावां तातस्य चाऽऽत्मजौ । इति सम्बन्धतोऽप्युक्तं, युक्तं युष्माभिरीदृशम् ॥४८८॥ पुरा हि दीक्षासमये, तातोऽर्थिभ्यो हिरण्यवत् । विभज्य देशानसभ्यमदत्त भरताय च ॥ ४८९ ॥ वयं सर्वेऽपि तिष्ठामः, सन्तुष्टाः स्वस्वनीव्रता । धनमात्रकृते हन्त !, परद्रोहं करोति कः १॥ ४९० ॥ 15 असन्तुष्टस्तु भरतो, जग्रसे भरतोदधौ । मत्स्यानिव महामत्स्यो, राज्यान्यखिलभूभुजाम् ॥ ४९१ ॥ राज्यस्तैरप्यसन्तुष्ट, आधून इव भोजनैः । आचिच्छेद स राज्यानि, खेषामवरंजन्मनाम् ॥ ४९२ ॥ पितृदत्तानि राज्यानि, भ्रातॄणामाच्छिनत्ति यः । गुरुत्वमात्मनस्तेन, स्वयमेव निवारितम् ॥ ४९३ ॥ वयोमात्रेण न गुरु[गुरुवदाचरन् । गुरुत्वं दर्शितं तेन, धानिर्वासनादिदम् ॥ ४९४॥ भ्रान्तेनाध्यमियत्कालं, दृष्टो गुरुधिया मया । स्वर्णबुड्या पित्तलवन्मणिबुद्ध्या च काचवत ॥ ४९५॥ 20 पित्रा वंश्येन वाऽन्यस्याऽप्युर्वी दत्तां निरागसः । न हरेदल्पराज्योऽपि, किं पुनर्भरतेश्वरः ॥ ४९६॥ हृत्वाऽनुजाना राज्यानि, नूनमेष न लज्जितः । जितकासी राज्यकृते, मामप्याह्वयते यतः ॥ ४९७ ॥ जित्वाऽसौ भरतं सर्व, रयादास्फलितो मयि । ती|ऽम्भोधि पोत इव, दन्ते तटमहीभृतः॥ ४९८ ॥ ज्ञात्वा लुब्धममर्यादं, क्रव्यादमिव निघृणम् । अमुं ममाऽनुजन्मानोऽप्यभजन लज्जया नहि ॥ ४९९ ॥ तस्य केन गुणेनाऽहं, भवाम्यद्य वशंवदः । ब्रूत माध्यस्थ्यमास्थाय, सभासद इवाऽमराः ॥ ५००॥ 25 अथ स्वविक्रमेणाऽयं, मां करोति वशंवदम् । तत् करोत्वेष पन्था हि, क्षत्रियाणां वशंवदः ॥५०१॥ एवं स्थितेऽपि ह्यालोच्य, वलित्वा हन्त ! याति चेत् । एष क्षेमेण तद् यातु, लुब्धोऽहं न ह्यसाविव ॥५०२॥ तहत्तं भरतं सर्व, भुञ्जेऽहमिति किं भवेत् ? । केसरी केनचिद् दत्तं, किमश्नाति कदाचन ॥५०३ ॥ भरतं गृह्णतस्तस्य, वर्षषष्टिसहस्यगात् । इदं यद्यजिघृक्षिष्यमग्रहीष्यं तदाऽपि हि ॥ ५०४ ॥ कालेनैतावता तस्य, जातं भरतवैभवम् । तर्द्धनस्य धनमिव, कथं भ्राता हराम्यहम् ? ॥ ५०५॥ 30 करीब जातीकवलेनाऽमुना वैभवेन चेत् । अन्धम्भविष्णुर्भरतः, सुखं न स्थातुमीश्वरः ॥ ५०६ ॥ तदेतद् भरतक्षेत्रवैभवं भरतेशितुः । हृतमेव मया वित्थोपेक्षितं यनपेक्षया ॥ ५०७ ॥ मझमर्पयितुं कोशं, हस्त्यश्वादि यशोऽपि च । प्रति भिरिवाऽऽनीतोऽमात्यैः स्वसदृशैरसौ ॥ ५०८ ॥
धर्षितुमशक्यः। २ गर्वरहितः। ३ नाभियोगमकुरुथाः। ४ मरणम्। ५ युद्धवेगात्। ६ निजहृदयनैर्मल्येन । ..स्वस्वदेशेन । ८ भरतक्षेत्रसमुद्रे । ९ उदरपूरकः । १० लघुभ्रातृणाम् । ११ बन्धुनिष्कासनात् । १२ राक्षसम् । १३ निर्दयम् ।
रुपणस्य । १५ जानीय । १६ प्रतिनिधिभिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org