________________
१२४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व युद्धाभिषेधतैनं तद् , यद्यस्य हितकाशिणः । अयुध्यमानेनाऽन्येनाऽप्यहं युध्ये न जातुचित् ॥५०९॥ ___ ऊर्जितं तद् वचस्तस्य, पर्जन्यस्येव गर्जितम् । आकर्ण्य विस्मयोत्कर्णास्ते भूयोऽप्येवमभ्यधुः॥ ५१०॥ इतो जल्पन युधे हेतुं, चक्री चक्राप्रवेशनम् । न शक्योऽनुत्तरीकृत्य, निरोद्धं गुरुणाऽपि हि ॥५११ ॥ युध्यमानेन युध्येऽहमिति जल्पन् भवानपि । युद्धान्निरोद्धं नियतं, शक्रेणाऽपि न शक्यते ॥५१२ ॥ द्वयोरप्यषभखामिदृढसंसर्गशालिनोः । द्वयोरपि महाबुद्ध्योर्द्वयोरपि विवेकिनोः ॥ ५१३॥ द्वयोरपि जगत्रात्रोईयोरपि दयावतोः । भाग्यक्षयेण जगतां, युद्धोत्पात रपस्थितः ॥ ५१४ ॥ [युग्मम्] तथापि प्रार्थ्यसे वीर!, प्रार्थनाकल्पपादप! । उत्तमेनैव युद्धेन, युध्येथा माऽधमेन तु ॥५१५ ॥ अधमेन हि युद्धेन, युवयोरुग्रतेजसोः । भूयिष्ठलोकप्रलयादकाले प्रलयो भवेत् ॥ ५१६ ॥
दृष्टियुद्धादिभिर्युद्धैर्योद्धव्यं साधु तेषु हि । आत्मनो मानसिद्धिः स्याल्लोकानां प्रलयो न च ॥ ५१७ ॥ 10 आमेति तस्मिन् वदति, नातिदूरे दिवौकसः । तस्थुर्द्रष्टुं तयोर्युद्धं, नगर्या नागरा इव ॥ ५१८॥
___ अथाऽऽज्ञया बाहुबलेः, प्रतीहारो गजस्थितः । गर्जन् गज इवोर्जखि, जगादेति स्वसैनिकान् ॥५१९।।
भो भोः ! समस्तराजन्याश्चिरं चिन्तयतां हि वः । उपस्थितं स्वामिकार्यमभीष्टं पुत्रलाभवत् ॥ ५२० ॥ परं वः खल्पपुण्यत्वाद् , देवैर्देवोऽयमर्थितः । भरतेन सह द्वन्द्वयुद्धहेतोर्महाभुजः ॥ ५२१ ॥
खतोऽपि द्वन्द्वयुद्धेच्छुः, किं पुनः प्रार्थितः सुरैः । स्वामी स्वाराजतुल्यौजाः, समैरान वो निषेधति ।।५२२।। 15 हस्लिमल्ल इवैकाङ्गमल्लो युष्माभिरेष तत् । युध्यमानः प्रेक्षणीयस्तटस्थैरमरैरिव ॥ ५२३ ॥
वालयित्वा रथानश्वान् , कुञ्जरांश्च महौजसः । अपक्रामत तद् यूयं, वक्रीभूता इव ग्रहाः ॥ ५२४ ॥ खड्गान् क्षिपत कोशेषु, करण्डेष्विव पन्नगान् । कुन्तान् केतूनिवोदस्तान् , मोचकान्तर्विमुञ्चत ॥ ५२५ ॥ मुद्गरान् न्यञ्चतोदस्तान् , हस्तानिव महाद्विपाः । उत्तारयत कोदण्डान्मौवीं भालादिव ध्रुवम् ॥५२६॥
भूयोऽपि बाणधौ बाणं, निधत्ताऽर्थ निधानवत् । शल्यानि संवृणुत च, विद्युतो वारिदा इव ॥ ५२७॥ 20 प्रतीहारगिरा वज्रनिर्घोषेणेव घूर्णिताः । सैनिका बाहुबलिनश्चेतस्येवं व्यचिन्तयन् ॥ ५२८ ॥
अहो! रणाद् भाविनोऽपि, भीतैर्वाणिजकैरिव । भरतेश्वरसैन्येभ्यो, लब्धोत्कोचैरिवोच्चकैः ॥ ५२९ । प्राग्जन्मवैरिभिरिवाऽकस्सादसाकमागतैः । हा प्रभुं प्रार्थ्य विबुधै, रुद्धो युद्धोत्सवोऽधुना ॥५३०॥ [युग्मम् अग्रतो भाजनमिव, भोजनाय निषेदुषाम् । पर्यङ्कतः सूनुरिव, लालनायोपसर्पताम् ।। ५३१ ॥
आकर्षणीरज्जुरिव, कूपानिर्गच्छतामहो ! । अहारि दैवेनाऽसाकमागतोऽपि रणोत्सवः ॥५३२॥ [युग्मम्] 25 अन्यो भरततुल्यः कः, प्रतिपक्षो भविष्यति । स्वामिनो येन सङ्ग्रामे, भविष्यामोऽणा वयम् ॥५३३।
मुधोपादायि दायादैरिव स्तेयकरैरिव । सौवासिनेयैरिव चाऽस्माभिर्याहुबलेधनम् ॥ ५३४ ॥ *नूनं गतं मुधा बाहुदण्डवीर्यमिदं च नः । अरण्यभववृक्षाणामिव प्रसवसौरभम् ॥ ५३५ ॥ क्लीवैः स्त्रीणामिवाऽत्राणामसाभिः सङ्ग्रहो मुधा । व्यधायि शस्त्राभ्यासश्च, शास्त्राभ्यासः शुकैरिव ॥५३६।
इदं चाऽगृह्यताऽस्माभिः, पादातमपि निष्फलम् । कामशास्त्रपरिज्ञानमिव तापसदारकैः ॥ ५३७ ॥ 30 मुधैव कारिता माराभ्यासमेते मतङ्गजाः । वाजिनश्च श्रमजयमस्माभिहतबुद्धिभिः ॥ ५३८ ॥
मुधा गर्जितमस्माभिर्वारिदैरिव शारदैः । महिषीभिरिवाऽस्माभिर्विकटं च कटाक्षितम् ॥ ५३९ ॥ मुधा सन्नद्धमस्माभिः, सामग्रीदर्शकैरिव । तच्चाऽहङ्कारगर्भत्वमपूर्णे युद्धदोहदे ॥ ५४० ॥ एवं विचिन्तयन्तस्ते, विषादविषगर्भिताः । ससूत्काराः सफूत्कारा, इव सर्पा अपासृपन् ॥ ५४१ ॥
१ मेघस्य । २ इन्द्रतुल्यपराक्रमः। ३ युद्धात् । ४ हस्तिश्रेष्ठः। ५ वक्रगतियुक्ताः। ६ कोशान्तः । ७ नीचैः कुरुत ८ ललाटात्। ९ 'लांच' इति लोके । १० ऋणरहिताः। ११ चौरैः। १२ चिरपितृगृहवासिनीस्त्रीपुत्रैः । * मन्ये ग आ, सं २॥ १३ युद्धमनोरथे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.