________________
पञ्चमः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् ।
१२५ तत्कालं भरतेशोऽपि, क्षत्रव्रतमहाधनः । स्वामपासारयत् सेना, वेलामिव महार्णवः ॥ ५४२ ॥ चक्रिणा सैनिकाः खेऽपसार्यमाणा महौजसा । एवमालोचयामासुर्वृन्दीभूय पदे पदे ॥ ५४३ ॥ खामिना कस्य मत्रेण, मत्रिव्याजेन वैरिणः । द्विबाहुमात्रकेणेव, द्वन्द्वयुद्धममन्यत ? ॥ ५४४ ॥ स्वामिना यो हि सङ्घामो, यद् भोजनमुदचिता । पर्याप्तमेव तदहो, किं कृत्यं नस्ततः परम् १ ॥५४५॥ षदखण्ड भरतक्षेत्रभूभुजां रणकर्मसु । कोऽपि नः किमपक्रान्तो, यनिषिध्यामहे रणात् १ ॥५४६॥ । युक्तं भृत्येषु नष्टेषु, विजितेषु हतेषु वा । युद्धं भर्तुर्नाऽन्यथा तु, विचित्रा हि रणे गतिः ॥ ५४७ ॥ *स्वामिनः संशयं युद्धे, जातु शङ्कामहे न हि । विनैकं बाहुबलिनं, प्रतिपक्षो भवेद् यदि ॥ ५४८ ॥ उदग्रबाहुना बाहुबलिना सममाहवे । विजये संशयः पाकशासनस्याऽपि केऽपरे ? ॥ ५४९ ।। महाकल्लोलिनीपूरस्येव दुस्सहरंहसः । तस्य प्रथमतोऽप्याजौ, स्थातुं भर्तुर्न युज्यते ॥ ५५० ॥ अस्माभिर्योधिते पूर्व, भर्तुस्तत्रोचितो रणः । पूर्वमश्वदमैर्दान्ते, वाजिनीवाधिरोहणम् ॥ ५५१॥ 10
अन्योऽन्यं सैनिकानेवं, गृणतः प्रेक्ष्य चक्रभृत् । भावज्ञ इङ्गिताकारैः, समाहूयेत्यभाषत ॥ ५५२ ॥ तमोनिर्दलने भानोर्यद्वदग्रेसराः कराः। द्विषदायोधने तद्वद् , यूयमग्रेसरा मम ॥ ५५३ ॥ युष्मासु सत्सु योधिषु, न मां कोऽप्याययौ रिपुः । परिखायामगाधायामिव वप्रतटं द्विपः ॥ ५५४ ॥ अदृष्टपूर्विणो युद्धं, ततो मे यूयमीदृशम् । आशङ्कध्वे मुधा भक्तिमुपदेऽपीक्षते भयम् ।। ५५५ ॥ सर्वे कुरुध्वं सम्भूय, दोर्बलालोकनं मम । शङ्का नश्यति वो येनाऽगदेनेव गदः क्षणात् ॥ ५५६ ॥ 15 इत्युदित्वा क्षणेनापि, चक्री खनकपूरुषः । अतिविस्तीर्णगम्भीरं, गर्तमेकमखानयत् ॥ ५५७ ॥ तीरे दक्षिणपाथोधेरिव सह्यमहीधरः । अवटस्य तटे तस्योपाविशद् भरतेश्वरः॥ ५५८ ॥ वामे स दोष्णिं निबिडाः, शृङ्खलाः प्रतिशृङ्खलाः । अबन्धयल्लम्बमाना, वटवृक्षे जटा इव ॥ ५५९ ॥ ताभिः सहस्रसङ्ख्याभिः, सहस्रांशुरिवाऽशुभिः । महागुरिव वल्लीभिश्वकासामास चक्रभृत् ॥ ५६० ॥ सोऽथ राज्ञ उवाचैवं, यूयं सबलवाहनाः । महाशकटवद् गांवो, मामाकर्षत निर्भयम् ॥ ५६१॥ 20 सर्वे सौंजसा कृष्ट्वा, मां गर्ने पातयन्त्विह । मद्दोबलपरीक्षार्थ, खाम्यवज्ञाछलं न कः॥ ५६२॥ दुःस्वमोऽप्ययमसाभिदृष्टस्तत् प्रतिहन्यताम् । स हि मोघीभवेदेव, चरितार्थीकृतः स्वयम् ॥ ५६३ ॥ भूयो भूयश्चक्रिणेवमादिष्टास्ते ससैनिकाः । कथञ्चित् प्रत्यपद्यन्त, स्वाम्याज्ञा हि बलीयसी ॥ ५६४॥ चकृषुः शङ्खलाजालं, सैन्याश्चक्रिभुजस्य ते । नेत्री तमहिं मन्थगिरेरिव सुरासुराः॥ ५६५॥ गाढलग्नाः प्रलम्बासु, चक्रिदो शृङ्खलासु ते । उत्तुङ्गशाखिशाखाग्रेष्विव शौखामृगा बभुः ॥ ५६६ ॥ 25 इभानिवाऽद्रिं भिन्दानान्, कर्षतः खं च सैनिकान् । कौतुकप्रेक्षणायोपेक्षाञ्चक्रे चक्रभृत् स्वयम् ॥५६७॥ हृद्यङ्गरागं चक्रेऽथ, चक्री तेनैव पाणिना । मालाबद्धघटीमालान्यायात् ते तु सहाऽपतन् ॥ ५६८ ॥ निरन्तरं लम्बमानैः, सैनिकैश्चक्रिणो भुजः । रराज खजूरतरुशाखा खजूंरकैरिव ॥ ५६९ ॥ हृष्यन्तः स्वामिनः स्थाना, सैन्यास्तद्वाहुशृङ्खलाः । प्राकृतामिव दुःशङ्कामुज्झाञ्चक्रुः क्षणादपि ॥ ५७०॥
चक्रभृत् कुञ्जरारूढस्तदेव समराजिरम् । जग्राह प्राक्तनं भूयोऽप्युद्राहमिव गायनः ॥ ५७१॥ 30 उभयोः सैन्ययोर्मध्ये, विपुलं विपुलातलम् । गङ्गायमुनयोरन्तर्वेदिदेश इवाऽऽबभौ ॥ ५७२ ॥ जगत्संहाररक्षातो, मुदिता मरुतस्ततः । आयुक्ता इव शनकैस्तत्रोामहरन रजः ॥ ५७३ ॥ गन्धाम्बुवृष्ट्या समवसरणोर्विमिवाऽभितः । तां मेदिनीमभ्यषिश्चञ्चुचितज्ञा दिवौकसः ॥ ५७४ ॥
१ तक्रेण । * अयं श्लोकः खं पुस्तके नोपलभ्यते ॥ २ शत्रुः। ३ इन्द्रस्य । ४ दुस्सहवेगस्य । ५ युद्धे । ६ एतदाख्यः पर्वतः। ७ गतस्य । ८ भुजे। ९ वृषभाः। १० मन्थनरज्जुभूतम् । ११ मन्दराचलस्य । १२ कपयः। १३ बलेन । १४ पृथ्वीतलम् । १५ देवाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org