________________
१२६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व मात्रिका मण्डलावन्यामिव तत्र रणावनौ । उन्मेषवन्त्यनिमिषाः, कुसुमानि विचिक्षिपुः ॥ ५७५ ।। ___ कुञ्जरादवतीर्याऽथ, तावुभौ राजकुञ्जरौ । कुञ्जराविव गर्जन्ती, प्रविष्टौ समरावनिम् ॥ ५७६ ॥ उभावपि महौजस्कौ, सर्पन्तौ लीलयाऽपि हि । पदे पदेऽरोपयता, कूर्मेन्द्र प्राणसंशये ।। ५७७ ॥ दृष्टियुद्धेन योद्धव्यं, प्रतिज्ञायेति तस्थतुः । सम्मुखावनिमेषाक्षौ, शक्रेशानाविवाऽपरौ ॥ ५७८ ॥ सम्मुखौ मुखमन्योऽन्यस्यैक्षेतामरुणेक्षणौ । उभयत्र स्थितार्केन्दुसायाह्नगगनश्रियौ ॥ ५७९ ॥ उभौ मिथो निध्यायन्ती, ध्यायन्ताविव योगिनौ । चिरकालं वितस्थाते, तौ निश्चलविलोचनौ ॥५८०॥ दिवाकरकराक्रान्तनीलोत्पलवदीक्षणे । ज्येष्ठस्य ऋषभस्वामिनन्दनस्य न्यमीलताम् ॥ ५८१ ॥ कीर्तेर्महत्या भरतपट्खण्डजयजन्मनः । वारीवाऽस्रजलव्याजाददातां चक्रिणोऽक्षिणी ॥ ५८२ ॥ ___ तदा शिरांसि धुन्वानाः, प्रत्यूपे पादपा इव । विदधुर्बाहुबलिनि, पुष्पवृष्टिं दिवौकसः ॥ ५८३ ॥ विजये बाहुबलिनो, वीरैः सोमप्रभादिभिः । हर्षकोलाहलचक्रे, सूर्यस्येवोदये खगैः ॥ ५८४ ॥ जयसूर्याण्यवाद्यन्त, राज्ञो बाहुबलेबलैः । तत्कालं कीर्तिन-क्या, नृत्तारम्भ इवोद्यते ॥ ५८५ ॥ अभूवन भरतस्यापि, सैन्या मन्दायितौजसः । मूर्छिता इव संसुप्ता, इव रोगातुरा इव ॥ ५८६ ॥ ते विषादप्रमोदाभ्यामयुज्येतामुमे बले । अन्धकारप्रकाशाभ्यां, मेरुपाचोविवाधिकम् ॥ ५८७ ॥
विजितं काकतालीयन्यायेनेति स मा वदः । वाग्युद्धेनाऽपि युध्यस्खेत्यवोचच्चक्रिणं नृपः ॥ ५८८ ॥ 15 फणीव चरणस्पृष्टः, सामर्षश्चक्रवर्त्यपि । जितकासिन् ! भवत्वेवमित्यभाषत भूपतिम् ॥ ५८९ ॥
ईशानोक्षेत्र निनदं, शक्रेभ इव बृंहितम् । स्तनितं वारिद इवोच्चैः क्ष्वेडा भरतोऽकरोत् ॥ ५९० ॥ रणेक्षकाणां देवानां, विमानान् पातयन्निव । नभस्तो ग्रहनक्षत्रतारकाः संसयन्निव ॥ ५९१ ॥ कुलाचलानामत्युच्चैः, शृङ्गाणि चलयन्निव । समन्ताजलराशीनां, जलान्युच्छालयन्निव ॥ ५९२ ॥ व्यानशे प्रसरंस्तस्य, क्ष्वेडानादः स रोदेसी । महाविन्त्याः परितः, पूरवारीव रोधंसी ॥ ५९३ ॥
[त्रिभिर्विशेषकम् ] रश्मि नाजीगणन् रंथ्या, गुर्वाज्ञामिव दुर्धियः। संणीन् नाऽमानयन् नागाः, पिशुना इव सद्गिरम् ॥५९४॥ अश्वा नाऽज्ञासिपुर्वल्गा, कटुत्वं श्लेष्मला इव । मैया नाऽगणयन् नासारखं लजां विटी इव ॥ ५९५ ॥ न वेसराः कशाघातं, भूताविष्टा इवाऽविदन् । त्रस्यन्तस्तेन नादेन, न केऽपि स्थैर्यमादधुः ॥ ५९६ ॥
अथाऽऽपतत्पक्षिराजपक्षनिर्घोषबुद्धितः । पातालतोऽपि पातालं, विविक्षुभिरिवोरगैः ॥ ५९७ ॥ अन्तःप्रविष्टमन्थाद्रिमन्थनध्वानशङ्कया । मध्येजलधि यादोभित्रस्यद्भिः सर्वतोऽपि च ॥ ५९८ ॥ भूयो जम्मारिनिर्मुक्तदम्भोलिध्वनितभ्रमात् । क्षयं खस्याऽऽशङ्कमानैः, कम्पमानैः कुलाचलैः ॥ ५९९ ॥ कल्पान्तपुष्करावर्तमुक्तविद्युद्धनिभ्रमात् । लुठद्भिरवनीपीठे, मध्यलोकनिवासिभिः॥ ६०० ॥ अकाण्डागतदैत्यावस्कन्दकोलाहलभ्रमात् । आकुलैश्चाऽमरकुलैः, श्रूयमाणोऽतिदुःश्रवः ॥ ६०१॥ लोकनालिस्पर्द्धयेव, वर्धमानोऽधरोत्तरम् । विदधे बाहुबलिना, सिंहनादोऽतिभैरवः ॥ ६०२॥
[षद्धिः कुलकम् ] भूयो व्यंधत्त भरतः, सिंहनादं महाबलः । वैमानिकानां वनितास्त्रासयन्तं मृगीरिव ॥ ६०३ ॥ एवं क्रमेण चक्राते, चक्रिभूपौ महाध्वनिम् । जगतो मध्यमस्याऽस्य, क्रीडया भीषकाविव ॥ ६०४ ॥ हस्तो मतङ्गजस्येव, शरीरं दृक्श्रुतेरिव । अहीर्यंततमां शब्दः, क्रमेण भरतेशितुः॥ ६०५॥
विकसितानि । २ देवाः। ३ ईशानेन्द्रस्य वृषभ इव । ५ ऐरावत इव । ५ धावाभूमी। ६ महानयाः। तटे। महान् । ९ रथयोजिताश्वाः । १. शान्। ११शेष्मरोगिणः । १२ उट्राः । १३ जाराः। १४ गरुडः। १५ इन्द्रः। स ।१७ सतिशबेन हीनोऽभवत् ।
80
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org