Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 147
________________ १२६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [प्रथमं पर्व मात्रिका मण्डलावन्यामिव तत्र रणावनौ । उन्मेषवन्त्यनिमिषाः, कुसुमानि विचिक्षिपुः ॥ ५७५ ।। ___ कुञ्जरादवतीर्याऽथ, तावुभौ राजकुञ्जरौ । कुञ्जराविव गर्जन्ती, प्रविष्टौ समरावनिम् ॥ ५७६ ॥ उभावपि महौजस्कौ, सर्पन्तौ लीलयाऽपि हि । पदे पदेऽरोपयता, कूर्मेन्द्र प्राणसंशये ।। ५७७ ॥ दृष्टियुद्धेन योद्धव्यं, प्रतिज्ञायेति तस्थतुः । सम्मुखावनिमेषाक्षौ, शक्रेशानाविवाऽपरौ ॥ ५७८ ॥ सम्मुखौ मुखमन्योऽन्यस्यैक्षेतामरुणेक्षणौ । उभयत्र स्थितार्केन्दुसायाह्नगगनश्रियौ ॥ ५७९ ॥ उभौ मिथो निध्यायन्ती, ध्यायन्ताविव योगिनौ । चिरकालं वितस्थाते, तौ निश्चलविलोचनौ ॥५८०॥ दिवाकरकराक्रान्तनीलोत्पलवदीक्षणे । ज्येष्ठस्य ऋषभस्वामिनन्दनस्य न्यमीलताम् ॥ ५८१ ॥ कीर्तेर्महत्या भरतपट्खण्डजयजन्मनः । वारीवाऽस्रजलव्याजाददातां चक्रिणोऽक्षिणी ॥ ५८२ ॥ ___ तदा शिरांसि धुन्वानाः, प्रत्यूपे पादपा इव । विदधुर्बाहुबलिनि, पुष्पवृष्टिं दिवौकसः ॥ ५८३ ॥ विजये बाहुबलिनो, वीरैः सोमप्रभादिभिः । हर्षकोलाहलचक्रे, सूर्यस्येवोदये खगैः ॥ ५८४ ॥ जयसूर्याण्यवाद्यन्त, राज्ञो बाहुबलेबलैः । तत्कालं कीर्तिन-क्या, नृत्तारम्भ इवोद्यते ॥ ५८५ ॥ अभूवन भरतस्यापि, सैन्या मन्दायितौजसः । मूर्छिता इव संसुप्ता, इव रोगातुरा इव ॥ ५८६ ॥ ते विषादप्रमोदाभ्यामयुज्येतामुमे बले । अन्धकारप्रकाशाभ्यां, मेरुपाचोविवाधिकम् ॥ ५८७ ॥ विजितं काकतालीयन्यायेनेति स मा वदः । वाग्युद्धेनाऽपि युध्यस्खेत्यवोचच्चक्रिणं नृपः ॥ ५८८ ॥ 15 फणीव चरणस्पृष्टः, सामर्षश्चक्रवर्त्यपि । जितकासिन् ! भवत्वेवमित्यभाषत भूपतिम् ॥ ५८९ ॥ ईशानोक्षेत्र निनदं, शक्रेभ इव बृंहितम् । स्तनितं वारिद इवोच्चैः क्ष्वेडा भरतोऽकरोत् ॥ ५९० ॥ रणेक्षकाणां देवानां, विमानान् पातयन्निव । नभस्तो ग्रहनक्षत्रतारकाः संसयन्निव ॥ ५९१ ॥ कुलाचलानामत्युच्चैः, शृङ्गाणि चलयन्निव । समन्ताजलराशीनां, जलान्युच्छालयन्निव ॥ ५९२ ॥ व्यानशे प्रसरंस्तस्य, क्ष्वेडानादः स रोदेसी । महाविन्त्याः परितः, पूरवारीव रोधंसी ॥ ५९३ ॥ [त्रिभिर्विशेषकम् ] रश्मि नाजीगणन् रंथ्या, गुर्वाज्ञामिव दुर्धियः। संणीन् नाऽमानयन् नागाः, पिशुना इव सद्गिरम् ॥५९४॥ अश्वा नाऽज्ञासिपुर्वल्गा, कटुत्वं श्लेष्मला इव । मैया नाऽगणयन् नासारखं लजां विटी इव ॥ ५९५ ॥ न वेसराः कशाघातं, भूताविष्टा इवाऽविदन् । त्रस्यन्तस्तेन नादेन, न केऽपि स्थैर्यमादधुः ॥ ५९६ ॥ अथाऽऽपतत्पक्षिराजपक्षनिर्घोषबुद्धितः । पातालतोऽपि पातालं, विविक्षुभिरिवोरगैः ॥ ५९७ ॥ अन्तःप्रविष्टमन्थाद्रिमन्थनध्वानशङ्कया । मध्येजलधि यादोभित्रस्यद्भिः सर्वतोऽपि च ॥ ५९८ ॥ भूयो जम्मारिनिर्मुक्तदम्भोलिध्वनितभ्रमात् । क्षयं खस्याऽऽशङ्कमानैः, कम्पमानैः कुलाचलैः ॥ ५९९ ॥ कल्पान्तपुष्करावर्तमुक्तविद्युद्धनिभ्रमात् । लुठद्भिरवनीपीठे, मध्यलोकनिवासिभिः॥ ६०० ॥ अकाण्डागतदैत्यावस्कन्दकोलाहलभ्रमात् । आकुलैश्चाऽमरकुलैः, श्रूयमाणोऽतिदुःश्रवः ॥ ६०१॥ लोकनालिस्पर्द्धयेव, वर्धमानोऽधरोत्तरम् । विदधे बाहुबलिना, सिंहनादोऽतिभैरवः ॥ ६०२॥ [षद्धिः कुलकम् ] भूयो व्यंधत्त भरतः, सिंहनादं महाबलः । वैमानिकानां वनितास्त्रासयन्तं मृगीरिव ॥ ६०३ ॥ एवं क्रमेण चक्राते, चक्रिभूपौ महाध्वनिम् । जगतो मध्यमस्याऽस्य, क्रीडया भीषकाविव ॥ ६०४ ॥ हस्तो मतङ्गजस्येव, शरीरं दृक्श्रुतेरिव । अहीर्यंततमां शब्दः, क्रमेण भरतेशितुः॥ ६०५॥ विकसितानि । २ देवाः। ३ ईशानेन्द्रस्य वृषभ इव । ५ ऐरावत इव । ५ धावाभूमी। ६ महानयाः। तटे। महान् । ९ रथयोजिताश्वाः । १. शान्। ११शेष्मरोगिणः । १२ उट्राः । १३ जाराः। १४ गरुडः। १५ इन्द्रः। स ।१७ सतिशबेन हीनोऽभवत् । 80 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254