Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 150
________________ पञ्चमः सर्गः ] त्रिषष्टिशलाकापुरुषचरितम् । उन्मील्य नयने हस्तेनाऽऽददे बाहुबल्यपि । उद्दण्डमायसं दण्डं, सानामिक इव द्विपः ॥ ६७१ ॥ पाटयिष्यत्यसौ किं मां?, किं मामुत्पाटयिष्यति । इत्याशशङ्के स द्यावापृथिवीभ्यां यथाक्रमम् ॥६७२।। रेजे बाहुबलेर्मुष्टौ, लोहदण्डः स आयतः । पर्वतस्याऽग्रभागस्थवामलूर इवोरगः ॥ ६७३ ॥ दूरतोऽप्यन्तकाह्वानसंज्ञावस्त्रमिवाऽथ तम् । भृशमुद्भमयामास, दण्डं तक्षशिलापतिः॥ ६७४ ॥ निर्दयं हृदये तेन, चक्रिणं बहलीपतिः । ताडयामास लकुटेनेव *बीजस्य मूटकम् ॥ ६७५ ॥ तेन घातेन घटवद्, द्रढीयानपि खण्डशः । विशीर्यते स सहसा, सन्नाहश्चक्रवर्तिनः ॥ ६७६ ॥ निरभ्र इव मार्तण्डो, निर्धूम इव पावकः । शीर्णवर्मा चक्रवर्ती, दिद्युतेऽमर्षतोऽधिकम् ॥ ६७७ ॥ क्षणार्ध विह्वलीभूतो, नाऽचेतयत किञ्चन । भरतः सप्तममदावस्थाप्राप्त इव द्विपः ॥ ६७८ ॥ प्रियमित्रमिवाऽऽलम्ब्याऽविलम्वाद् बाहुपौरुषम् । चक्रभृद् दण्डमुद्यम्य, भूयो राज्ञेऽभ्यधावत ॥ ६७९॥ पीडयन्नधरं दन्तैर्भृकुटीमङ्गभीषणः । भरतोऽभ्रमयद् दण्डमौर्वावर्तविडम्बिनम् ॥ ६८० ॥ - 10 मूर्मि बाहुबलिं तेन, चक्रपाणिरताडयत् । तडिदण्डेन कल्पान्तजीमूत इव पर्वतम् ॥ ६८१ ॥ ममजाऽऽजानु घातेन, तेन बाहुबलिर्भुवि । लोहाधिकरणीमध्ये, वज्रोपेल इवाऽऽहतः ॥ ६८२॥ आस्फल्य बाहुबलिनि, वज्रसारे व्यशीर्यत । स्वेन तेनाऽऽगसा भीत, इव दण्डः स भारतः ॥ ६८३ ॥ आजानु मनो मेदिन्यामवगाढ इवाऽचलः । निष्क्रान्तशेषः शेषाहिरिव बाहुबलिर्बभौ ॥ ६८४ ॥ अधूनयत् स मूर्धानं, घातवेदनया तया । अन्तश्चमत्कृत इव, ज्यायसो भ्रातुरोजसा ॥ ६८५॥ 15 आत्माराम इव योगी, न किञ्चिदशणोत् क्षणम् । तदा बाहुबलिस्तेन, घातेन प्राप्तवेदनः ॥ ६८६ ॥ निर्ययौ मेदिनीमध्यात् , सुनन्दानन्दनस्ततः । आश्यानकूलिनीकूलपङ्कमध्यादिव द्विपः ॥ ६८७॥ लाक्षारसारुणैदृष्टिपातैरातर्जयन्निव । स्खौ दोर्दण्डौ च दण्डं चाऽपश्यत् सोऽमर्षणाग्रणीः ॥ ६८८ ॥ दुष्प्रेक्षं तक्षकमिवाऽभीक्ष्णं तक्षशिलापतिः । ततस्तं भ्रमयामास, दण्डमेकेन पाणिना ॥ ६८९ ॥ मुनन्दासूनुना दण्डो, भ्रम्यमाणोऽतिवेगतः । राधावेधपरिभ्राम्यञ्चक्रलक्ष्मीमुवाह सः ॥ ६९० ॥ 20 कल्पान्तसागरावर्तगर्तभ्रान्तादिमत्स्यवत् । स भ्राम्यन् प्रेक्ष्यमाणोऽपि, भ्रमि व्यधित चक्षुषाम् ॥ ६९१॥ उत्पतंस्तपेनं कांस्यपात्रवत् स्फोटयिष्यति । भारुण्डाण्डवक्षेशमण्डलं चूर्णयिष्यति ॥ ६९२ ॥ तारागणानामलकीफलवद् भ्रंशयिष्यति । वैमानिकविमानानि, नीडवत् पातयिष्यति ॥ ६९३ ॥ पैतन् पर्वतशृङ्गाणि, नौकुवद् दलयिष्यति । महातरुनिकुञ्जानि, निष्पेक्ष्यति तृणौघवत् ॥ ६९४ ॥ अपक्कमृत्तिकागोलवच भेत्स्यति मेदिनीम् । हस्तादमुष्य देवाच्चेद् , दण्ड एष पतिष्यति ॥ ६९५ ॥ 25 इत्याशङ्काकुलैः सैन्यैः, प्रेक्ष्यमाणोऽमरैरपि । भूपतिश्चक्रिणं तेन, दण्डेन शिरसि न्यहन् ॥ ६९६ ॥ [पञ्चभिः कुलकम् ] तेन दण्डाभिघातेन, चक्रवर्ती महीयसा । आकण्ठं प्रविवेशोयाँ, मुद्गराहतकीलवत् ॥ ६९७ ॥ यथाऽसत्स्वामिनो दत्तं, विवरं देहि नस्तथा । इतीव पेतुर्मेदिन्यां, विषण्णाश्चक्रिसेवकाः ॥ ६९८ ॥ राहुग्रस्त इवाऽऽदित्ये, भूमग्ने चक्रवर्तिनि । तुमुलोऽभूद् भुवि महान् , नृणां दिवि दिवौकसाम् ॥६९९।। 30 निमीलिताक्षः श्यामास्यः, पखण्डभरतेश्वरः । लजयेव महीमध्ये, क्षणमेकमवास्थित ॥ ७००॥ अथैकस्य क्षणस्याऽन्ते, तेजसा मोऽतिभासुरः । निर्ययाववनीमध्यान्निशान्त इव भास्करः ॥ ७०१॥ सोऽथैवं चिन्तयामास, युद्धेषु निखिलेष्वपि । जितोऽहममुना द्यूतेष्विवाऽन्धद्यूतकारकः ॥ ७०२॥ १ दण्डेन । * बीजान्नमूटकम् सं २, आ ॥ २ निर्नेघः । ३ वडवानलः । ४ कल्पान्तमेषः । ५ बज्रमणिः । ६ शेषनागः। गुष्कनदीतटपकमध्यात् । ८ नागविशेषम् । सूर्यम् । १० भारण्डपक्षिणः अण्डवत् ।"न्द्रमण्डलम् । १२ एतदास्यवृक्ष. फलवत् । १३ पक्षिगृहवत् । + अयं लोकः खं पुस्तके पतितः। १४ वस्मीकवत्।५कोकाहरूः। राज्यन्ते । त्रिषष्टि. १७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254