Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
पञ्चमः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । सिंहनादो बाहुबलेववृषे त्वधिकाधिकम् । प्रवाहः सरित इव, सजनस्येव सौहृदम् ॥ ६०६ ॥ शास्त्रीयवाग्युद्धेऽप्येवं, वादिना प्रतिवाद्यसौ । वीरेण बाहुबलिना, विजिग्ये भरतेश्वरः ॥६०७॥
अथ तौ बाहुयुद्धार्थमुभावपि हि बान्धवौ । बबन्धतुः परिकरं, बद्धकक्षद्विपोपमौ ॥६०८॥ अथ बाहुबलेगर्जनुढेल इव वारिधिः । स्वर्णदण्डधरः साऽऽह, प्रतीहाराग्रणीरिति ॥ ६०९ ॥ वज्रकीलानिव शैलानवष्टभ्य विशेषतः । आस्थाय स्थाम चाऽशेषमपि पृथ्वि! स्थिरीभव ॥ ६१०॥ परितः पूरयित्वा च, कुम्भयित्वा च मारुतम् । हे नागराज! नगवद् , दृढीभूय धरां धर ॥ ६११॥ लुठित्वा वारिधेः पङ्के, विहायाऽग्रेतनं श्रमम् । पुनर्नवीभूय महाक्रोड ! क्रोडीकुंरु क्षितिम् ॥ ६१२॥ वज्रमानिन् ! निजाङ्गानि, सङ्कोच्य परितोऽपि हि । स्वपृष्ठं कर्मठप्रष्ठ!, द्रढयित्वा महीं वह ॥ ६१३ ॥ प्रमादतो मदतो वा, निद्रां मा धत्त पूर्ववत् । सर्वात्मना सावधाना, वसुधां धत्त दिग्गजाः! ॥ ६१४ ॥ वज्रसारो बाहुबलिर्वज्रसारेण चक्रिणा । यदसौ मल्लयुद्धेन, यो मुत्तिष्ठतेऽधुना ॥ ६१५॥ 10 . महामल्लौ तडिद्दण्डताडिताद्रिरवोपमम् । विदधानौ करास्फोटमाह्वासातां मिथोऽथ तौ ॥ ६१६ ॥ तौ सलीलपदन्यासं, चेलतुश्चलकुण्डलौ । सार्केन्दू धातकीखण्डात्, क्षुद्रमेरू इवाऽऽगतौ ॥ ६१७ ॥ तावन्योऽन्यं कराभ्यां चाऽऽस्फालयामासतुः करौ। नदन्तौ बलवदन्तौ, दन्ताभ्यां दन्तिनाविव ॥ ६१८॥ अयुज्येतां क्षणेनापि, व्ययुज्येतां क्षणेन च । तावासन्नमहावृक्षाविवोद्दण्डानिलेरितौ ॥ ६१९ ॥ उत्पेततुः क्षणेनापि, क्षणेनापि निपेततुः । वीरौ तौ दुर्दिनोन्मत्तमहाम्भोधितरङ्गवत् ॥ ६२० ॥ 15 अथ स्नेहादिवाऽमर्षाद् , धावित्वा तावुभावपि । अङ्गेनाऽङ्गं पीडयन्तौ, सखजाते महाभुजौ ।। ६२१ ॥ क्षणादधः क्षणादूर्ध्व, कदाचित् कश्चिदप्यभूत् । नियुद्धविज्ञानवशात् , प्राणी कर्मवशादिव ॥ ६२२॥ उपर्यसावधोऽसावित्यज्ञायेतां जनैर्न तौ । जलान्तर्मत्स्यवद् वेगान्मुहुर्विपरिवर्तिनौ ॥ ६२३ ॥ चक्रतुर्बन्धविज्ञानं, महाही इव तौ मिथः । निरासतुश्च सद्योऽपि, चपलौ प्लवंगाविव ॥ ६२४ ॥ मुहुर्महीलुठनतस्तावुभौ धूलिधूसरौ । बभासाते प्राप्तधूलीमदौ मदकलाविव ॥ ६२५ ॥ असहिष्णुस्तयोर्भारं, शैलयोरिव सर्पतोः । पादनिर्यातनिर्घोषादारंराटेव मेदिनी ॥ ६२६ ॥ अथ बाहुबलिः क्रुद्धः, करेणैकेन चक्रिणम् । शरभः कुञ्जरमिवोदग्रहीदुग्रविक्रमः ॥ ६२७॥ व्योमन्युल्लालयामास, स तं रूपमिव द्विपः । अहो ! निरवधिः सर्गो, बलिनो बलिनामपि ॥ ६२८॥ चापादिषुरिवोन्मुक्तः, पाषाण इव यत्रतः । तारोपथपथे दूरं, जगाम भरतेश्वरः ॥ ६२९ ॥ भरतेशादापततः, शक्रमुक्तात् पैवेरिव । पलायाश्चक्रिरे सर्वे, खेचराः समरेक्षिणः॥३०॥ 25 हाहारवो महान् जज्ञे, सेनयोरुभयोरपि । कस्य दुःखाकरो न स्यान्महतां ह्यापदागमः ॥ ६३१॥ घिर मे बलमिदं बाह्रोधिग् धिग् राभैसिकं च माम् । एतत् कर्मोपेक्षकांच, धिग् राज्यद्वयमत्रिणः॥६३२॥ किं वा विगर्हितैरेभिर्यावदद्यापि मेऽग्रजः । पतित्वा मेदिनीपृष्ठे, कणशो न विशीर्यते ॥ ६३३ ॥ तावत् पतन्तं गगनात् , प्रतीच्छामीति चिन्तयन् । तल्पकल्पौ भुजौ तस्याऽधो दधौ बाहुबल्यपि॥६३४॥
[त्रिभिर्विशेषकम् ] 30 ऊर्ध्वबाहुव्रतीवोर्ध्वबाहुर्बाहुबलिः क्षणम् । तस्थौ दिनकरालोकव्रतीव च तदोन्मुखः ॥ ६३५॥ पादाग्रप्राणतस्तिष्ठन्नुत्पित्सुरिव स क्षणात् । निपतन्तं प्रतीयेषाँऽग्रजं गेन्दुकलीलया ॥ ६३६ ॥ भरतोत्क्षेपणोद्भूतं, विषादं द्रागबाधत । चम्बोस्तद्रक्षणाद्धर्ष, उत्सर्गमपवादवत् ॥ ६३७ ॥
१ बलम् । २ स्तम्भयित्वा। ३ हे महावराह । ४ मध्येकुरु। ५ हे कूर्मश्रेष्ठ!। ६ आलिङ्गितवन्तौ । वानरौ । ८ हस्तिनौ । ९ आचुक्रोश । १० अष्टापदः । ११ पशुम् । १२ गगनमार्गे। १३ वज्रात्। १४ साहसिकम्। १५ शय्यातुल्यौ। १६ उत्पतितुमिच्छुः। १७ जग्राह । १८ कन्दुकलीलया।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254