Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 141
________________ १२० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत [प्रथमं पर्व जयाह वनसंभाहं, हेममाणिक्यमण्डितम् । विजयश्रीविवाहाय, स कक्षुकमिवोच्चकैः ॥ ३८१ ॥ शुशुभे वर्मणा तेन, भातुरेण नरेश्वरः । घनविद्रुमसंहत्याऽधिपतिर्यादसामिव ॥ ३८२ ॥ शिरस्त्राणं च शिरसि, न्यधत्त धरणीधवः । शैलशृङ्गनिविष्टाभ्रमण्डलश्रीविडम्बकम् ॥ ३८३ ।। पृष्ठेऽषधाच तूणीरौ, लोहनाराचपूरितौ । महाफणिगणाकीर्णपातालविवगेपमौ ।। ३८४ ॥ युगान्तसमयोदस्तयमदण्डसहोदरम् । कोदण्डं वामदोर्दण्डे, धारयामास भूपतिः ।। ३८५ ॥ आशास्यमानः स्वस्तीति, सौवस्तिकवरैः पुरः । जीव जीवेत्युच्यमानः, स्वगोत्रजरतीजनैः ॥ ३८६ ॥ नन्द नन्देत्युच्यमानो, जरदाप्तजनैः पुनः । चिरं जय जयेत्युच्चैर्गद्यमानश्च बन्दिभिः ॥ ३८७ ॥ मेरुशृङ्गमिव खारोट, महेभं स महाभुजः । आरुरोहाऽऽरोहकेण, दत्तहस्तावलम्बनः ॥ ३८८ ॥ [ त्रिभिर्विशेषकम् ] 10 इतस्तदानीमेव श्रीभरतेशोऽपि पुण्यधीः । जगाम देवतागारं, कोशागारं शुभश्रियः ॥ ३८९ ॥ प्रतिमामादिनाथस्य, नपयामास तत्र सः । दिग्जयानीतपद्मादितीर्थतोयैर्महामनाः ॥ ३९० ।। ममार्ज राजशार्दूलो, देवदूष्येण वाससा । प्रतिमां तामप्रतिमां, शिल्पिवर्यो मणीनिव ? ॥ ३९१ ॥ हिमाचलकुमारादिदत्तैोशीर्षचन्दनैः । विलिलेप प्रतिमां तां, स्वयशोभिरिवाऽवनीम् ॥ ३९२ ॥ पौर्विकस्वरैः पद्मासद्मपद्मसहोदरैः । रचयामास पूजां च, नयनस्तम्भनौषधीम् ॥ ३९३ ॥ 15 प्रतिमायाः पुरो धूपं, निर्ददाह महीपतिः । आलिखन्निव कस्तूरीपत्राली धूमवल्लिभिः ॥ ३९४ ॥ निःशेषकर्मसमिधामग्निकुण्डमिवोल्वणम् । आदत्ताऽऽरात्रिकं दीप्रदीपकं राजदीपकः ॥ ३९५ ॥ तदुत्तार्याऽऽदिनाथाय, नमस्कृत्य च भूपतिः । विरचय्याञ्जलिं मूर्भि, स्तोतुमित्युपचक्रमे ॥ ३९६ ॥ त्वां जडोऽपि जगन्नाथ!, युक्तमानी स्तवीम्यहम् । लल्ला अपि हि बालानां, युक्ता एव गिरो गुरौ ॥३९७॥ देव ! त्वामाश्रयन् जन्तुर्गुरुकर्माऽपि सिध्यति । अयोऽपि हेमीभवति, स्पर्शात् सिद्धरसस्य हि ॥ ३९८ ॥ 20 त्वां ध्यायन्तः स्तुवन्तश्च, पूजयन्तश्च देहिनः । धन्याः स्वामिन्नाददते, मनोवाग्वपुषां फलम् ॥ ३९९ ॥ पृथ्व्यां विहरतः स्वामिन्नपि ते पादरेणवः । महामतङ्गजायन्ते, पापद्न्मूलने नृणाम् ॥ ४००॥ नैसर्गिकेण मोहेन, जन्मान्धानां शरीरिणाम् । विवेकलोचनं नाथ !, त्वमेको दातुमीशिषे ॥४०१॥ सुचिरं चश्वरीकन्ति, ये भवत्पादपद्मयोः । तेषां न दूरे लोकाग्रं, मेर्वादि मनसामिव ॥ ४०२॥ देव ! त्वद्देशनावाग्भिर्गलन्त्याशु शरीरिणाम् । कर्मपाशा जम्बुफलानीव वारिदवारिभिः ॥ ४०३ ॥ 25 इंदं याचे जगन्नाथ !, त्वां प्रणम्य मुहुर्मुहुः । त्वयि भक्तिस्त्वत्प्रसादादक्षयाऽस्त्वन्धिवारिवत् ॥ ४०४ ॥ आदिनाथमिति स्तुत्वा, नमस्कृत्य च भक्तिमान् । निर्ययौ देवतागारान्नरदेवदिवाकरः ॥ ४०५॥ भूयो भूयोऽपि शिथिलीकृत्य माने विनिर्मितम् । अङ्गेन हर्षोच्छसितेनाऽऽददे कवचं नृपः॥४०६॥ रेजे तेनाऽङ्गलग्नेन, दिव्येन मणिवर्मणा । माणिक्यपूजया देवप्रतिमेव महीपतिः॥४०७॥ स्वर्णरत्नशिरस्त्राणं, मध्योच्चं छत्रवर्तुलम् । द्वैतीयीकमिवोष्णीषं, बभार भरतेश्वरः॥ ४०८ ॥ नागराजाविवाऽत्यन्ततीक्ष्णनाराचदन्तुरौ । पृष्ठे निषङ्गौ बिभराञ्चके विश्वम्भराधवः ॥ ४०९॥ उपाददे ततो वैरिवामं वामेन पाणिना । कालपृष्ठं महाचापं, वज्रीव ऋजुरोहितम् ॥ ४१० ॥ अन्यतेजस्विनां तेजो, असमानो ग्रहेन्द्रवत् । लीलास्थिरपदन्यासं, कामन् भद्रगजेन्द्रवत् ॥ ४११ ॥ तृणवद् गणयन्नग्रे, प्रतिवीरान् मृगेन्द्रवत् । दृष्ट्यापि दुर्विषहया, भीषणः पन्नगेन्द्रवत् ॥ ४१२ ॥ १ वज्रकवचम् । २ विपुल प्रवालसमूहेन । ३ यादसां अधिपतिः समुद्रः। ४ पुरोहितैः । ५ इन्द्रः। * शिवधि खंता ॥ ६ लक्ष्मीगृहपभसदृशैः। समग्रकर्मकायाम्। ८ स्खलिताः। ९ सुवर्णीभवति। १० भ्रमरायन्ते। । एकं खंता ॥ ११ शिरोवेष्टनम् । १२ पृथ्वीपतिः। १३ वैरिप्रतिकूलम् । 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254