Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 130
________________ पश्चमः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । 15 उत्ततार पुरस्तस्य, प्रलम्बः कृष्णपन्नगः । क्षिप्तागलेव देवेन, तद्याननिरुरुत्सया ॥ ३२ ॥ प्रतिकूलो ववौ वायुश्चक्षुषोः प्रक्षिपन रजः । पर्यस्यन्निव तं पश्चाद् , विचारकविपश्चितम् ॥ ३३ ॥ तस्य दक्षिणतो भूत्वा, विररास च रासभः । अभोजितप्रस्फुटितमृदङ्गविरसखरः ॥ ३४ ॥ सुवेगोऽगादनिमित्तान्येतानि प्रविदन्नपि । सद्धृत्याः स्वामिनः कापि, काण्डवत् प्रस्खलन्ति न ॥३५॥ ललझे स बहून् ग्रामनगराकरकटान् । तद्वासिभिदृश्यमानो, वात्यावर्त इव क्षणम् ॥ ३६॥ तरुखण्डसरःसिन्धुपुलिनप्रभृतिष्वपि । विशश्राम न स स्वामिकार्यतोत्र प्रवर्तितः ॥ ३७॥ किरातैः सज्जकोदण्डैः, शरव्यीकृतकुञ्जरैः । चमूरुचर्मसंव्यानैर्जातुधानेरिवाऽऽकुलाम् ॥ ३८॥ चमूरु-चित्रक-व्याघ्र-हरिभिः शरभैरपि । सगोत्रैरन्तकस्येव, क्रूरसत्त्वैर्निरन्तराम् ॥ ३९ ॥ युध्यमानाहि-नकुलवामलूरविभीषणाम् । भल्लूकीकेशधरणव्यग्रवालकिरातिकाम् ॥ ४० ॥ मिथो महिषसङ्ग्रामभज्यमानजरत्तरुम् । नाहलोत्थापितक्षौद्रमक्षिकाभिरसञ्चराम् ॥४१॥ अभ्रंलिहतरुस्तोमतिरोहितदिवाकराम् । रहोरतभुवं मृत्योरिवाऽऽप स महाटवीम् ॥४२॥ [पञ्चभिः कुलकम्] घोरां तामटवीं वेगात् , सुवेगो वेगवद्रथः । सलीलं लङ्घयामास, विपदं पुण्यवानिव ॥ ४३ ॥ मार्गान्ततरुविश्रान्तैरलङ्करणधारिभिः । संलक्ष्यमाणसौराज्य, सुस्थैः पान्थवधूजनैः ॥ ४४ ॥ गोकुले गोकुले वृक्षतलासीनैः प्रमोदिभिः । गीयमानर्षभस्वामिचरितं गोपदारकैः ॥ ४५ ॥ भद्रशालादिवाऽऽहृत्याऽऽरोपितैः फलमालिभिः । अलङ्कृताखिलग्राम, बहलैर्बहुभिर्दुमैः ॥ ४६॥ पत्तने पत्तने ग्रामे, ग्रामे वेश्मनि वेश्मनि । दानकदीक्षितैरिभ्यैः, शोध्यमानवनीपकम् ॥ ४७॥ आगतैर्भरतात् त्रस्तैरिवोदग्भरतार्द्धतः । प्रायेणाऽध्यासितग्राम, म्लेच्छैरक्षीणऋद्धिभिः॥४८॥ षड्भ्यो भरतखण्डेभ्यः, खण्डान्तरमिव स्थितम् । भरताज्ञानभिज्ञं स, बलीदेशमासदत् ॥ ४९ ॥ .. [सप्तभिः कुलकम् ] ऋते श्रीबाहुबलिनं, राजान्तरमजानतः । जनान् जानपदान मार्गेष्वनानि वार्तयन मुहुः ॥ ५० ॥ 20 वनेचरान् गिरिचरान् , दुर्मदान् श्वापदानपि । द्राक् खञ्जीभवतः पश्यन् , सुनन्दानन्दनाज्ञया ॥५१॥ प्रजानामनुरागोक्त्या, महतीभिश्च ऋद्धिभिः । अद्वैतमनुमिमानः, श्रीबाहुबलिनो नयम् ॥ ५२ ॥ भरतावरजोत्कर्षाकर्णनाद् विस्मृतं मुहुः । अनुस्मरन् वाचिकं स, प्राप तक्षशिलापुरीम् ॥ ५३॥ [चतुर्भिः कलापकम् ] किचिल्लोचनपातेन, पुरीपरिसरोषितैः । प्रेक्ष्यमाणः क्षणं लोकैरेकपान्थावलीढया ॥ ५४॥ लीलोद्यानेषु सम्भूय, खेलेन खुरलीजुषाम् । सुभटानां भुजास्फोटैखस्यद्रथतुरङ्गमः ॥ ५५ ॥ इतस्ततः पौरऋद्धिप्रेक्षणव्यग्रताजुषा । दक्षिणस्थेनाऽनिषिद्धोत्पथगामिस्खलद्रथः ॥ ५६ ।। एकत्रेवेभरत्नानि, समस्तद्वीपचक्रिणाम् । बद्धान वरगजान् पश्यन् , बहिरुद्यानशाखिषु ।। ५७ ।। प्रेक्षमाणो मन्दुरीश्च, बन्धुरास्तुरगोत्तमैः । ज्योतिष्काणां विमानानि, विहायेव समागतैः ॥ ५८ ॥ भरतावरजैश्वर्याश्चर्यालोकनजन्मना । शिरोऽत्येव शिरो धुन्वन् , प्रविवेश स तां पुरीम् ॥ ५९ ॥ 30 [ षड्भिः कुलकम् ] स्वच्छन्दवृत्तीनत्याढ्यानपिणेषु वणिग्जनान् । अहमिन्द्रानिव पश्यन् , राजद्वारं जगाम सः ॥ ६ ॥ कृष्णसर्पः। * ननिषिषित्सया खंता॥ २ विचारकचतुरम् । ३ गर्दभः। ४ बाणवत् । ५ चक्रवातः। ६ लक्ष्यीकृतकुअरः। चमूरच खंता, सं २, आ॥ ७ मृगविशेषः। चमूरैश्चित्रकैात्रैर्ह खंता, सं २, आ॥ ८ अष्टापदैः । ९ वल्मीकाः। १० घनैः। १५ याचकम् । १२ सुखिनः। १३ हिनप्राणिनः। १४ अनुमानं कुर्वन् । १५ नीतिम् । १६ सन्देशम्। १७ भराभ्यासजुषाम्। १८ साराथना। १९ मझाक्षाः३०हषु । 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254