Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 135
________________ ११५ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [प्रथमं पर्व प्राणरपि प्रियं राज्ञोऽनुरागेण चिकीर्षताम् । जनानामेवमारम्भ, स ददर्श पथि वजन् ।।१८७ ॥ श्रुत्वा दृष्ट्वा च तल्लोके, “पर्वतीयनृपा अपि । प्रतिराजानमद्वैतभक्तिमानितयाऽमिलन् ॥ १८८ ॥ गावो गोपखरेणेव, निकुञ्जेभ्यः सहस्रशः । तेषां गोशृङ्गनादेन, किराताः प्रदधाविरे ॥ १८९ ॥ द्वीपिपुच्छत्वचा केचित् , केकिपिच्छैश्च केचन । लताभिः केपि वेगेन, वबन्धुः कुन्तलान् भटाः ॥१९०। 5 दन्दशंकत्वचा केऽपि, तारख्या केचन त्वचा । केचिद् गोधात्वचाऽबधन्, परिधानं मृगत्वचम् ॥१९१ । ग्रावहस्ता धनुर्हस्ताः, प्लवमानाः प्लवङ्गवत् । स्वपतीन् परिवत्रुस्ते, पतिभक्ताश्ववद् भृशम् ॥ १९२ ॥ अद्य दो बाहुबलिप्रसादावक्रयं चिरात् । भरताक्षौहिणीक्षोदादिति तेषां गिरोऽभवन् ॥ १९३ ॥ __ तैषामप्येवमारम्भ, ससंरम्भं निरूपयन् । मुवेगश्चिन्तयामास, मनसैवं विविक्तधीः ॥ १९४ ॥ पैतृकेणेव वैरेण, त्वरन्ते रणकर्मणे । अहो! अमी बाहुबलिगृह्या विषयवासिनः ॥ १९५ ॥ 10 *किराता अप्यमी हन्तोत्सहन्ते हन्तुमागतम् । अमद्धलं बाहुबलिबलाग्रे समरेच्छवः ॥ १९६ ॥ तं कञ्चन न पश्यामि, यः सज्जति युधे नहि । विद्यते स न कोऽपीह, रक्तो बाहुबलौ न यः ॥१९७।। शूराश्च स्वामिभक्ताश्च, बहल्यां हलिनोऽप्यहो! । तत् किं देशस्वभावोऽयमुत बाहुबलेर्गुणः? ॥१९८॥ भवन्तु वेतनक्रीताः, सामन्ताद्याः पदातयः । अहो ! अस्य गुणक्रीती, पत्तीभूताऽखिलाऽपि भूः ॥१९९॥ बह्वीमपि चक्रिच , मन्ये लध्वीं लघीयसः। श्रीबाहुबलिसैन्यस्य, तण्या वह्वेरिवाऽग्रतः ॥२०॥ 15 महावीरस्य किं चाऽस्य, न्यूनं बाहुबले पुरः ? । कलभं शरभस्येव, शङ्के चक्रिणमप्यहो! ॥२०१॥ ओजस्वी भुवि चक्र्येव, वज्येव दिवि विश्रुतः । तयोरन्तरवर्द्धवर्ती वा लघुरांर्षभिः ॥ २०२ ॥ अपि तच्चक्रिणश्चक्रमपि वज्रं च पत्रिणः। मन्ये विफलमेवाऽस्य, चपेटाघातमात्रतः॥२०३॥ ऋक्षः कर्णे तदात्तोऽयं, महाहिर्मुष्टिना धृतः । विरोधितो यदस्माभिरहो ! बाहुबलिर्बली ॥२०४ ॥ मृगमेकमिव द्वीपी, गृहीत्वा भूमिखण्डलम् । सन्तुष्टोऽयं मुधाऽसाभिस्तर्जयित्वा खलीकृतः ॥२०५॥ 20 अनेकनृपसेवाभिः, किमपूर्ण नृपस्य ? यत् । अयमारम्भि सेवायै, वाहनायेव केसरी ॥ २०६॥ धिग् मत्रिणः स्वामिहितमानिनोऽस्मानपीह धिक् । यैर्द्विषद्भिरिवोपेक्षाश्चके स्वाम्यत्र कर्मणि ॥२०७॥ गत्वैकेन सुवेगेन, विग्रहश्चालितः प्रभोः । भणिष्यतीति लोकस्तु, धिर दौत्यं गुणदूषणम् ॥ २०८ ॥ एवं विचिन्तयन् नित्यं, दिनैः कतिपयैरपि । सुवेगो नगरी प्राप, विनीतां नीतिकोविदः ॥ २०९ ॥ नीतः सभायां द्वास्थेन, प्रणामरचिताञ्जलिः । न्यषीदत् सोऽथ पप्रच्छ, सादरं चक्रवर्तिना ॥ २१० ॥ 25 किं नाम कुशलं बाहुबलेर्मदनुजन्मनः । यत् त्वं सुवेग! वेगेनाऽऽगतोऽसि क्षुभितोऽस्मि तत् ॥२११॥ अथवा तेन पर्यस्तस्ततस्त्वरितमागतः । वीरवृत्तिरियं युक्ता, मद्भातस्तस्य दोष्मतः ॥ २१२ ॥ सुवेगोपि जगादेवं, देव! देवोऽपि न क्षमः । तस्याऽकुशलमाधातुं, तवेवाऽनवमौजसः ॥ २१३ ॥ स उक्तः स्वामिसेवार्थ, पूर्व विनयपूर्वकम् । मया तवाऽनुजन्मेति, नितान्तहितकाशिणा ॥ २१४ ॥ मेषजेनेव तीव्रण, परिणामोपकारिणा । सोऽवाच्यवचनीयेन, वचसा तदनन्तरम् ।। २१५ ॥ 50 न साम्ना न खरेणाऽपि, देवसेवां स मन्यते । किं नाम भेषजं कुर्याद्, विकारे सान्निपातिके ? ॥२१६॥ मानसारस्तृणायैतत् , त्रैलोक्यमपि मन्यते । स सिंह इव जानीते, प्रतिमल्लं न कञ्चन ॥ २१७ ॥ असिन् सुषेणसेनान्यां, सैन्ये च तव वर्णिते । किमेतदिति दुर्गन्धादिवाऽभासीत् स नासिकाम् ॥२१८॥ प्रभोर्भरतपदखण्डविजये प्रस्तुते च सः । अनाकर्णितकं कुर्वन्, खंदोर्दण्डौ निरीक्षते ॥ २१९ ॥ ___ * भूभुजःपार्वता अपि खंता । पार्व. सं ॥ १ पर्वतसम्बन्धिनो नृपाः। २ लतागृहेभ्यः। ३ व्याघ्रपुच्छत्वचा। ४ मयूरपिच्छैः। ५ सर्पस्वचा। ६ तहसम्बन्धिन्या। * अयं श्लोक आ पुस्तके पतितः। + रे कच खं ॥ ७ कृषीवलाः । ८ तृणसमूहम् । ९ बाहुबलिः । १० बलवतः। ११ उत्तमपराक्रमस्य । १२ तीक्ष्णेन । १३ स्वभुजदण्डौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254