________________
चतुर्थः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । महासाराण्युदाराणि, तत्र पत्रिणि मत्रिराट् । दीव्यमत्राक्षराणीवेत्यक्षराणि व्यलोकयत् ॥ १२९ ॥ राज्येन यदि वः कार्य, जीवितव्येन वा यदि । ततः सेवां कुरुध्वं नः, स्वसर्वखोपढौकनात् ॥ १३० ॥ इत्यादिशति वः साक्षात् , सुरासुरनरेशितुः । ऋषभस्वामिनः सूनुर्भरतश्चक्रवर्त्ययम् ॥ १३१ ॥ मत्री दृष्ट्वाऽक्षराण्येवं, विज्ञायाऽवधिना च तत् । दर्शयन् स्वामिनो बाणमुच्चकैरित्यवोचत ॥ १३२ ॥ भो भोः सर्वे राजलोका !, धिग् वो रभसंकारिणः । स्वामिनोऽर्थधियाऽनर्थदायिनो भक्तमानिनः॥१३३॥ 5 भरतो भरतक्षेत्रे, प्रथमश्चक्रवर्त्यभूत् । सूनुः प्रथमतीर्थेशऋषभस्वामिनो ह्ययम् ॥ १३४ ॥ स एष याचते दण्डं, दिधारयिषते च वः । पाकशासनवच्चण्डशासनः शासनं निजम् ॥ १३५ ॥ अपि शोष्येत पाथोधिर्मेरुरप्युद्रियेत च । कृतान्तोऽपि निहन्येतोत्क्षिप्येताऽपि वसुन्धरा ॥ १३६ ॥ दम्भोलिरपि दल्येत, विध्याप्येताऽपि वाडवः । कथञ्चन न जीयेत, चक्रवर्ती महीतले॥१३७॥ [युग्मम्] देवाऽयं वार्यतां लोकः, स्तोकधी/मतांवरः । प्रगुणीक्रियतां दण्डश्चक्रिणे प्रणतो भव ॥ १३८॥ 10
आकण्ये मत्रिवाचं तां, दृष्ट्वा तान्यक्षराणि च । गन्धेभगन्धमाघ्राय, करीव प्रशशाम सः॥१३९ ॥ उपायनमुपादाय, तं चेषु मागधाधिपः । उपेत्य भरताधीशं, नत्वा चैवं व्यजिज्ञपत् ॥ १४०॥ दिष्ट्या दृष्टिपथं प्राप्तोऽस्यधुना मम भूपते! । स्वामिन् ! कुमुदखण्डस्य, शशाङ्क इव पार्वणः ॥१४१॥ भगवानृषभस्वामी, प्रथमस्तीर्थकृद् यथा । प्रथमश्चक्रवर्ती त्वं, तथा विजयसे भुवि ॥ १४२ ॥ सुरेभस्य प्रतीभः को?, वायोः प्रतिबली च कः?। नमसः प्रतिमानं कः?, प्रतिमल्लश्च तेऽस्तु कः॥१४३।। 15 आकर्णाकृष्टकोदण्डानिर्यातं ते शिलीमुखम् । अलम्भविष्णुः कः सोलु, बिडौजस इवाऽशनिम् ? ॥१४४॥ प्रसादं कुर्वता त्वेष, प्रमत्तस्य मम त्वया । कर्त्तव्यज्ञापनायेषुः, प्रेषि वेत्रिपुमानिव ॥ १४५ ॥ अतः परमहं नाथ !, महीनाथशिरोमणे!। शिरोमणिमिवाऽऽज्ञां ते, धारयिष्यामि मूर्धनि ॥ १४६ ॥ स्वामिन् ! मागधतीर्थेऽस्मिन् , स्थास्याम्यारोपितस्त्वया। तवैव प्राग्जयस्तम्भ, इव निर्दम्भभक्तिभाक् ॥१४७॥ एते वयमिदं राज्यमेष सर्वः परिच्छदः । त्वदीयमेवाऽन्यदपि, शाधि नः पूर्वपत्तिवत् ॥ १४८॥ 20 इत्युक्त्वा सोऽर्पयामास, चक्रिणे पत्रिणं सुरः । तच्च मागधतीर्थाम्भः, किरीटं कुण्डले अपि ॥ १४९ ।। तच्च राजा प्रतीयेष, मागधाधिपति च तम् । सच्चकार महान्तो हि, सेवोपनतवत्सलाः ॥ १५० ॥ ___ अथो रथं वालयित्वा, पथा तेनैव पार्थिवः । स्कन्धावारं निजमगात् , सुत्रामेवाऽमरावतीम् ॥१५१॥ अवरुह्य रथादङ्ग, प्रक्षाल्य सपरिच्छदः । चकाराऽष्टमभक्तान्तपारणं भरतेश्वरः॥१५२ ॥ तदा मागधनाथस्य, महद्धर्या वसुधाधवः । चक्रस्येवोपनतस्य, विदधेऽष्टाहिकोत्सवम् ॥१५३॥ 25
आदित्यस्यन्दनस्रस्तमिव तेजोभिरुल्वणम् । अष्टाहिकोत्सवान्ते च, चक्ररत्नं चचाल खे ॥ १५४ ॥ दक्षिणस्यां वरदामतीर्थ प्रति ययौ ततः । चक्रं तच्चक्रवर्ती च, धातुं प्रादिरिवाऽन्वगात् ॥ १५५ ॥ प्रयाणैः प्रत्यहं गच्छन् , राजा योजनमात्रकैः । दक्षिणाब्धि क्रमात् प्राप, मानसं राजहंसवत् ॥१५६ ॥ एलालवङ्गलवलीकक्कोलबहले नृपः । सैन्यान्यावासयामास, दक्षिणाम्भोधिरोधसि ॥१५७ ॥ आवासान् सर्वसैन्यस्य, पौषधौकश्च वर्द्धकिः । पूर्ववद् रचयामास, शासनाचक्रवर्तिनः॥१५८॥ 30 वरदामामरं चित्ते, कृत्वाऽष्टमतपोऽकरोत् । नृपतिः पौषधागारे, पौषधं च समाददे ॥ १५९ ॥ पौषधान्ते बहिर्भूत्वा, नृपः पौषधवेश्मनः । उपाददे धनुः कालपृष्ठं प्रष्ठो धनुर्भृताम् ॥ १६० ॥ सर्वतः स्वर्णरचितं, खचितं रत्नकोटिभिः । आरुरोह रथं राजा, वासागारं जयश्रियः ॥ १६१ ॥ अधिष्ठितो नृदेवेनाऽत्युदाराकारधारिणा । प्रासाद इव देवेन, शुशुभे स महारथः ॥१६२॥ अनुकूलमरुल्लोलपताकामण्डिताम्बरः । स सन्दनवरोऽम्भोधौ, यानपात्रमिवाऽविशत् ॥ १६३ ॥ १ साहसकारिणः । २ धारयितुमिच्छति । ३इन्द्रवत् । ४ वडवामिः। ५ मल्पबुद्धिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org