________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ प्रथमं पर्व रथाङ्गनाभिद्वयसं, गत्वा जलनिर्जलम् । रथस्तस्थौ रथाग्रस्थसारथिस्खलितैहयैः ॥ १६४ ॥ अन्तेवासिनमाचार्य, इव विश्वम्भरापतिः । आनतीकृत्य विदधेऽधिगुणं विशिखासनम् ॥ १६५ ॥ सङ्ग्रामनाटकारम्भनान्दीनिषिमुच्चकैः । आह्वानमत्रं कालस्य, ज्याटङ्कारं चकार सः ॥ १६६ ॥ आकृष्य बाणधेबोणं, न्यधाद् बाणासने नृपः। भालान्तरालरचिततिलकश्रीमलिम्लुचम् ॥ १६७॥ वक्रीकृतस्य धनुषो, मध्ये धर्धमदायिनम् । शिलीमुखं महीनाथः, कर्णजाहमुपानयत् ॥१६८ ॥ किं करोमीति विज्ञीप्सुमिव कर्णान्तमागतम् । विससर्ज शरं राजा, वरदामाधिपं प्रति ॥ १६९ ॥ शैलैः पतत्पविभ्रान्त्या, तायभ्रान्त्या च पन्नगैः । अब्धिना चाऽपरौर्वाग्निभ्रान्त्या सभयमीक्षितः ॥१७॥ गगनं द्योतयन्नुच्चैर्गत्वा द्वादशयोजनीम् । बाणः सोऽपतदुल्केव, वरदामेशपर्षदि ॥१७१॥ [युग्मम् ]
विद्विषत्प्रेषितं घातकारं नरमिवाऽग्रतः । पतितं प्रेक्ष्य तं वाणं, चुकोप वरदामराट् ॥ १७२ ॥ 10 उद्वेल इव पाथोधिरुद्धान्तधूतरङ्गितः । उद्दामां वरदामेशो, वाचमेवमवोचत ॥ १७३॥
केनाऽद्य केसरी सुप्तः, पदा स्पृष्ट्वा प्रबोधितः ? । कस्य वाचयितुं पत्रमद्योदक्षेपि मृत्युना ? ॥ १७४ ॥ कुष्ठीवोत्पन्नवैराग्यो, जीवितव्यस्य कोऽथवा ? । चिक्षेप यो रभसया, मम पर्षदि पत्रिणम् ॥ १७५ ॥ तमनेनैव बाणेन, हन्मीति वरदामराट् । उत्थाय पाणिना बाणं, तं कोपग्रहिलो ग्रहीत् ॥ १७६ ॥
मागधाधीश्वर इव, वरदामेश्वरस्ततः । तानि तत्राऽक्षराणीक्षाश्चके पत्रिणि चक्रिणः ॥१७७ ॥ 15 तान्यक्षराणि सम्प्रेक्ष्याऽहिर्नागदमनीमिव । वरदामपतिः सद्योऽप्यशाम्यदिति चाब्रवीत् ॥ १७८ ॥
मण्डूक इव कृष्णाहेश्चपेटां दातुमुद्यतः । प्रजिहीर्षुर्विषाणाभ्यामुरघ्र इव दन्तिनः ॥ १७९ ॥ पिपातयिषुरुव/धं, दशनाभ्यामिव द्विपः । मन्दधीर्भरतेनाऽसि, युयुत्सुश्चक्रवर्तिना ॥ १८० ।। भवत्वद्यापि नो किञ्चिद्, विनष्टमिति स ब्रुवन् । उपायनान्युपानेतुं, दिव्यानि खान् समादिशत् ॥१८१॥
ततस्तं शरमादाय, प्राभृतान्यद्भुतानि च । आर्षभिं सोऽभ्यगादिन्द्र, इव श्रीऋषभध्वजम् ॥१८२॥ 20
स नत्वा तमुवाचैवमद्य क्ष्मापुरुहूत ! ते । दूतेनेव समाहूतः, पत्रिणाऽहमिहाऽऽगमम् ॥ १८३ ॥ त्वामिहाऽऽयातमुर्वीश, न स्वयं यदुपागमम् । सहस्त्र मे तदज्ञस्य, निद्भुते दोषमज्ञता ॥ १८४ ॥ श्रान्तेनेवाऽऽश्रमः पूर्ण, तृषितेनेव पल्वलम् । स्वामिन्नवामिना स्वामी, मया प्राप्तोऽसि सम्प्रति ॥१८५॥ अद्य प्रभृति भूनाथ !, स्थापितोऽहमिह त्वया । स्थास्यामि भवतो वेलाधरो गिरिरिवोदधेः ॥ १८६ ॥
इत्युक्त्वा भरतेशाय, निर्भरं भक्तिभागसौ । अर्पयामास तं वाणं, न्यासीकृतमिवाऽग्रतः ॥ १८७॥ 25 कटीसूत्रं स्नमयं, रोचीरोचितदिभुखम् । राज्ञः सोऽदात् तिग्मरोची रोचिभिरिव गुम्फितम् ॥ १८८ ॥
पुरतो भरतेशस्य, ढोकयामास चोज्वलम् । मुक्ताराशिं यशोराशिमिव खं चिरसञ्चितम् ॥ १८९॥ महीपतेरुपददाववदातोद्यतद्युतिम् । रत्नाकरस्य सर्वस्वमिव रत्नोत्करं च सः॥१९॥ तत् सर्वमग्रहीद राजाऽन्वग्रहीद् वरदामपम् । अस्थापयञ्च तत्रैव, तं कीर्तनमिव खकम् ॥ १९१ ॥
घरदामेशमाभाष्य, सप्रसादं विसृज्य च । जगाम जगतीनाथो, विजयी शिबिरं निजम् ॥ १९२ ॥ 30 अवतीर्य रथात् स्नात्वाऽष्टमभक्तान्तपारणम् । चक्रे समं परिजनैः, स राजरजनीकरः ॥ १९३ ॥
वरदामाधिपस्याऽथ, स चक्रेऽष्टालिकोत्सवम् । लोके महत्वदानाय, महन्त्यात्मीयमीश्वराः ॥ १९४ ॥
प्रति प्रतीची प्राचीनबर्हिरन्य इवौजसा । चक्री चक्रानुगोऽचालीत् , प्रभासाभिमुखं ततः॥१९५॥ पूरयन रोदसीरन्ध्र, "नीरन्धैः सैन्यरेणुभिः । स प्रयाणैः कतिपयैः, पयोधि प्राप पश्चिमम् ॥ १९६ ॥
१धुरा। २ कर्णपयन्तम् । ३ अन्यवडवाग्निभ्राम्त्या। भेकः। ५ शृङ्गाभ्याम् । ६ मेषः । पर्वतम् । भरतम्। ९हे पृथ्वीन्द्र!। १० लघुजलाशयः। ११ कीर्तिकारकमिव । १२ राजचन्द्रः। १३ पूजयन्ति। इन्द्रः । १५ गावाभूमी। १६ घनैः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org