________________
चतुर्थः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । ततः क्रमुकताम्बूलीनालिकेरीवनाकुले । स्कन्धावारं विनिदधे, स रोधस्यपरोदधेः ॥ १९७ ॥ प्रभासनाथमुद्दिश्याऽष्टमभक्तं व्यधात् ततः । राजा जग्राह च प्राग्वत् , पौषधं पौषधौकसि ॥ १९८ ॥ पौषधान्त समारुह्य, स्यन्दनं मेदिनीपतिः । प्रविवेश पयोराशि, पाशपाणिरिवाऽपरः ॥ १९९ ॥ अतिक्रम्य जलं चक्रनाभिदघ्नं महीपतिः । स्यन्दनं धारयामासाऽधिज्यं च विदधे धनुः ॥२०॥ जयश्रीकेलिवल्लंक्या, धनुर्यष्टेर्विशांपतिः। पाणिना वादयामास, मौवीं तन्त्रीमिवोच्चकैः ॥२०१॥ शरं चकर्ष रिधीरधेर्वेत्रदण्डवत् । आसयच नृपो बाणासनेतिथिमिवाऽऽसने ॥ २०२॥ ततः प्रभासाभिमुखं, तं चिक्षेप शिलीमुखम् । आदित्यबिम्बादाकृष्टमिवैकं किरणं नृपः ॥ २०३ ॥ वेगाद् वायुरिवोल्लङ्घय, वार्द्धादशयोजनीम् । द्या भाभिर्भासयन प्राप, स प्रभासेशवेश्मनि ॥२०४॥ _क्रुद्धः सोऽपि शरं प्रेक्ष्य, प्रेक्ष्य तत्राऽक्षराणि च । सद्योऽशाम्यन्नट इव, प्रादुष्कृतरसान्तरः॥२०५॥ तं पत्रिणमुपादायोपदामप्यपरां स्वयम् । ययौ भूपं प्रभासेशो, नत्वा चैवं व्यजिज्ञपत् ॥ २०६॥ 10 अद्य देव ! प्रभासोऽसि, भासितः स्वामिना त्वया । रवेः करैः कमलानि, कमलानि भवन्ति हि॥२०७॥ एष प्रत्यग्दिगन्तस्थः, सामन्त इव ते प्रभो! । सर्वदा शासनं मूर्धा, धास्याम्यवनिशासन ! ॥२०८॥ इत्युक्त्वा भरतेशस्य, तमादौ प्रहितं शरम् । खलूरिकापत्तिरिख, प्रभासपतिरार्पयत् ॥ २०९ ॥ कटकानि कटीसूत्रं, चूडामणिमुरोमणिम् । निष्कादि चार्पयद् राज्ञे, मूर्त तेज इव स्वकम् ॥ २१ ॥ तस्याऽऽश्वासकृते सर्व, तदुर्वीपतिरग्रहीत् । प्रभोः प्रसादचिह्न हि, प्राभृतादानमादिमम् ॥ २११ ॥ 15 तत्रैव स्थापयित्वा तमावाल इव पादपम् । स आययौ पुनः स्कन्धावारं वैरिनिवारणः ॥ २१२ ॥ तत्कालं गृहिरत्नेन, कल्पावनिरुहेव सः । उपनीतैर्दिव्यभोज्यैर्विदधेऽष्टमपारणम् ॥ २१३ ॥ नृपः प्रभासदेवस्य, चक्रे चाऽष्टाहिकोत्सवम् । आदौ सामन्तमात्रस्याऽप्युचिताः प्रतिपत्तयः ॥ २१४ ॥
अनुदीपमिवाऽऽलोकोऽनुचक्र भूपतिर्ययौ । ततः सिन्धोर्महासिन्धो, रोधः प्राप च दक्षिणम् ॥२१५॥ पूर्वाभिमुखमुर्वीशो, गत्वा तेनैव रोधसा । निषा सिन्धुसदनं, स्कन्धावारं न्यवीविशत् ॥ २१६॥ 20 अष्टमं विदधे तत्र, सिन्धुं मनसिकृत्य सः । आसनं सिन्धुदेव्याचाञ्चलद् वाताहतोर्मिवत् ।। २१७ ॥ ततः साऽवधिनाऽज्ञासीदायातं चक्रवर्त्तिनम् । प्रभूतैः प्राभृतैर्दिव्यैस्तं चाऽर्चितुमुपाययौ ॥ २१८ ॥ ततो जयजयेत्याशीःपूर्वकं सा नभःस्थिता । इत्यूचेऽत्राऽसि ते चक्रिन्', किङ्करी करवाणि किम् ? ॥२१९॥ श्रीदेव्या इव सर्वखं, निधीनामिव सन्ततिम् । साऽष्टोत्तरं रत्नकुम्भसहस्रं भूभुजे ददौ ॥ २२० । सहोद्वोढुं प्रकृतयोरिव कीर्तिजयश्रियोः । योग्ये नृपतयेऽयच्छद्, रत्नभद्रासने च सा ॥ २२१ ॥ नागराजशिरोरत्नान्युद्धृत्येव विनिर्मितान् । दीपरत्नमयान् राज्ञे, सा ददौ बाहुरक्षकान् ॥ २२२ ॥ मध्योत्कीणोकेबिम्बाभानदत्त कटकांश्च सा । मृदनि मुष्टिग्राह्याणि, दिव्यानि वसनानि च ॥ २२३॥ तत्सर्व प्रतिजग्राह, स सिन्धोः सिन्धराडिव । तां स प्रसादालापेन, प्रमोघ विससर्ज च ॥ २२४ । अथाऽभिनेवराकेन्दुसोदरे स्वर्णभाजने । चकाराऽष्टमभक्तान्तभोजनं भूभुजां विभुः ॥२२५ ॥
सिन्धुदेव्या नरदेवो, विदधेष्टाहिकोत्सवम् । दर्यमानपथश्चक्रेणाऽग्रेग्वेव चचाल च ॥ २२६ ॥ 30 दिशोदक्पूर्वया गच्छन्, क्रमेण भरतेश्वरः। भरतार्द्धद्वयाँघाट, प्राप वैताव्यपर्वतम् ॥ २२७॥ नितम्बे दक्षिणे तस्य, स्कन्धावारं न्यवीविशत । अन्तरीयमिव क्षमापो. विस्तारायामशोभितम ॥२२८॥ चकाराऽष्टमभक्तं च, तत्र विश्वम्भरीपतिः। वैताठ्याद्रिकुमारस्य, पर्यकम्पिष्ट चाऽऽसनम ॥२२९॥
१ पूगवृक्षाः। २ पश्चिमसमुद्रस्य । ३ वरुणः। ४ रथाङ्गानामिप्रमाणम् । ५ जयलक्ष्मीकीडावीणायाः। ६ निषङ्गात् । ७ वृक्षविशेषः। ८ शस्त्राभ्यासभूमिः। ९ वक्षःस्थलमणिम्। १० दीनारादि। ११ उपायनग्रहणम्। १२ कल्पना । १३ सत्काराः । १४ समीपे । १५ अभिनवपूर्णिमाचन्द्रसदृशे । १६ अग्रगामिना। १७ भरवाईद्वयसीमानम् । १८ पृथ्वीपतिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org