________________
कलिकालसर्वज्ञश्रीक्षेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व उत्पन्नो भरतक्षेत्रे, प्रथमश्चक्रवर्त्यसौ । इत्यज्ञासीदवधिना, वैताब्याद्रिकुमारकः॥२३०॥ अथाऽभ्यगात् स भरतं, व्योमस्थश्चाब्रवीदिदम् । प्रभो! जय जयैषोऽस्मि, सेवकस्ते प्रशाधि माम् २३१ स महाया॑णि रत्नानि, रत्नालङ्करणानि च । देवदष्याणि च राजे, कोशायुक्त इवाऽऽर्पयत् ॥ २३२ ॥ भद्रासनानि भद्राणि, भूयास्यवनिशासिने । प्रतापसम्पदः क्रीडावेश्मानि विततार सः ॥ २३३ ॥ तस्य प्रत्यग्रहीत् तच्च, सर्व सर्वसंहापतिः । अलुब्धा अपि गृह्णन्ति, भृत्यानुग्रहहेतुना ॥ २३४ ॥ नृपस्तमथ सम्भाष्य, विससर्ज सगौरवम् । महान्तो नाऽवजानन्ति, नृमात्रमपि संश्रितम् ॥ २३५ ॥ चकाराऽष्टमभक्तान्ते, पारणं पृथिवीपतिः । चक्रे च वैतात्यगिरिदेवस्याऽष्टाह्निकोत्सवम् ।। २३६ ॥
गुहां तमिस्रामुद्दिश्य, चक्ररत्नं ततोऽचलत् । राजाऽप्यगात् तस्य पदान्वेषकस्येव पृष्ठतः ॥ २३७ ॥ गत्वा तमिस्रासविधे, सैन्यान्यावासयन्नृपः । विद्याधरपुराणीवाऽवतीर्णानि गिरेरधः ॥ २३८ ॥ 10 कृत्वा मनसि भूपालः, कृतमालमथाऽमरम् । चक्रेऽष्टमतपोऽचालीत, तस्य देवस्य चाऽऽसनम् ॥२३९॥
सोऽज्ञासीदवधिज्ञानादागतं चक्रवर्तिनम् । आजगामाऽर्चितुं तं च, चिराद् गुरुमिवाऽतिथिम् ॥ २४० ॥ स्वामिन् ! तमिस्राद्वारेऽस्मिन् , द्वारपाल इवाऽस्मि ते । इति ब्रुवन् महीभर्तुः, स सेवां प्रत्यपद्यत ॥२४१॥ स्त्रीरत्नयोग्यं तिलकचतुर्दशमनुत्तमम् । दिव्याभरणसम्भारं, विततार स भूभुजे ॥ २४२ ॥
तद्योग्यानि च माल्यानि, दिव्यानि वसनानि च । सोऽदाद् राज्ञे धारितानि, प्राक् तदर्थमिवाऽऽदरात् २४३ 15 राजा तदाददे सर्व, कृतार्था अपि भूभुजः । न त्यजन्ति दिशो दण्डं, चिह्न दिग्विजयश्रियः ॥ २४४ ॥
प्रसादेनाऽतिमहता, सम्भाष्य विससर्ज तम् । शिष्यमध्ययनप्रान्त, उपाध्याय इवाऽऽर्षभिः ॥ २४५ ॥ भून्यस्तंभाजनैरग्रे, भुञ्जानै राजकुञ्जरैः । स्वांशैरिव पृथग्भूतैः, समं चक्रे स पारणम् ॥ २४६ ॥ सोऽकरोत् कृतमालस्य, देवस्याऽष्टाह्निकोत्सवम् । प्रभवः प्रणिपातेन, गृहीताः किं न कुर्वते ? ॥२४७॥
सुषेणाभिधमन्येयुः, सेनापतिमिलापतिः । समाहूय हेरिरिव, नैगमेषिणमादिशत् ॥ २४८ ॥ 20 सिन्धुसागरवैताट्यसीमानं सिन्धुनिष्कुटम् । दक्षिणं साधयोत्तीर्य, चर्मरलेन निम्नगाम् ॥ २४९ ॥
बदरीवणवत् तत्र, म्लेच्छानायुधयष्टिभिः । ताडयित्वा चित्ररत्नसर्वस्वफलमाहरेः॥ २५० ॥ ___ ततः स सेनाधिपतिर्मृगाधिपतिरोजसा । तेजसा तेजसांनीथो, धिषणो धिषणागुणैः ॥ २५१ ॥ निम्नानां निष्कुटानां च, जलस्थलभुवामपि । अन्येषामपि दुर्गाणां, तजन्मेव प्रचारवित् ॥ २५२ ॥
सम्पूर्णलक्षणः सर्वम्लेच्छभाषाविचक्षणः । शिरसा शासनं भर्तुस्तत्प्रसादमिवाऽऽददे ॥ २५३ ।। 25
[त्रिभिर्विशेषकम् ] प्रणम्य स्वामिनं गत्वा, स्वावासे निदिदेश सः। सामन्तादीन प्रयाणाय, प्रतिच्छन्दानिवाऽऽत्मनः ।।२५४॥ अथ स्नात्वा कृतबलिमहीय॑खल्पभूषणः । संवर्मितः कृतप्रायश्चित्तकौतुकमङ्गलः ॥ २५५ ॥ जयश्रियाऽऽलिङ्गनाय, प्रक्षिप्तामिव दोर्लताम् । रत्नप्रैवेयकं दिव्यं, धारयन् कण्ठकन्दले ॥ २५६ ॥
शोभितश्चिह्नपट्टेन, पट्टद्विप इवोच्चकैः । गृहीतास्त्रः कटौ विभ्रन्मूर्ती शक्तिमिव क्षुरीम् ॥ २५७ ॥ 30 बिभ्राणः स्वर्णतूणीरावतुच्छौ सरलाकृती । पृष्ठतोऽपि रणं कर्तु, दोर्दण्डाविव वैक्रियौ ॥२५८ ॥
गणनेतृदण्डनेतृश्रेष्ठिभिः सार्थवाहिभिः । सन्धिपालचराद्यैश्च, युवराज इवाऽऽवृतः ॥ २५९ ॥ आरुरोह स सेनानीर्गजरत्नं नगोन्नतम् । निश्चलानासनस्तेनाऽऽसनेन सहभूरिव ॥ २६० ॥
[षड्भिः कुलकम् ] १ पृथ्वीपतिः। २ अवज्ञा कुर्वन्ति। * भक्तस्य, खंता ॥ ३ भरतः। ४ भूमिस्थापितपात्रैः। ५ इन्द्रः । जत्तीर्येमां नदी रत्नचर्मणा खंता ॥ ६ सूर्यः। ७ बृहस्पतिः ८ बुद्धिगुणैः। ९ मार्गवेत्ता। १० प्रतिबिम्बरूपान् । १. महामूल्यस्वल्पाभरणः। १२ रखमयं ग्रीवाभरणम् । १३ प्रधानहस्ती। १४ पर्वतोचतम् । १५ सहजातः इव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org