________________
चतुर्थः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम । शोभमानः सितच्छत्रचामरैः सोऽमरोपमः । वारणं प्रेरयामास, चरणाडुष्ठसंज्ञया ॥२६१ ॥ ममं राज्ञोऽर्द्धसैन्येन, स गत्वा सिन्धुरोधस्ति । अस्थाहुद्धृतरजसा, सेतुबन्धमिवादधत् ॥ २६२ ॥ योजनान्येधते म्पृष्टं, यच्च द्वादश यत्र च । प्रातरुमानि धान्यानि, निष्पद्यन्ते दिनात्यये ॥ २६३ ।। नंदीनदनदीनाथाम्भासु यत् तारणक्षमम् । तत् सम्पस्पर्श हस्तेन, चर्मरतं चम्पतिः॥२६४॥सन्दानितकम् नैसर्गिकप्रभावेन, प्रससार तटद्वयम् । तचर्मरलं प्रक्षिप्तं, सलिलोपरि तैलवत् ॥ २६५ ॥ सँह चम्वा चमूनाथश्चर्मरत्नेन नेन सः । उचीर्य पद्यवेवाऽऽपदापायाः परं तटम् ॥ २६६ ॥ तं सिसाधयिषुः सर्व, सिन्धोर्दक्षिणनिष्कुटम् । कल्पान्तपाथोधिरिव, प्रससार चम्पतिः ॥ २६७ ॥ धनुर्निर्घोषबूत्कारदारुणो रणकौतुकी । लीलयैव पराजिग्ये, स सिंह इव सिंहलान् ॥ २६८ ॥ बर्बरानात्मसाच्चके, मूल्यातानित्र किङ्करान् । दृष्ट्वाणानतयामास, राजाङ्केन हयानिव ॥ २६९ ॥ रत्नाकरमिवानीरं, रत्नमाणिक्यपूरितम् । अजयजयनद्वीप, नरद्वीपी स लीलया ॥ २७० ॥ 10 तथा कालमुग्खास्तेन, जिग्यिरे ते यथाऽभवन । अभुजाना अपि मुखे, क्षिप्तपश्चाङ्गलीदलाः ॥२७१ ॥ म्लेच्छा जोनकनामानस्तस्य प्रसरतः सतः। आसन पराअखा वायोरिव पादपपल्लवाः॥२७२ ॥ अपरा अपि वैताव्यपर्वतोपत्यकास्थिताः । म्लेच्छजातीविजिग्ये सोहिजातीरिव वार्त्तिकः ॥ २७३ ।। प्रौढप्रतापग्रसरः, प्रसरन्ननिवारितम् । आक्रामत् कच्छदेशोवी, सर्वां दिवमिवार्यमा ॥ २७४ ।। इति निष्कुटमाक्रम्य, पञ्चानन इवाटवीम् । समोया कच्छदेशस्य, तस्थौ सुस्थश्चमूपतिः ॥ २७५ ॥ 15 म्लेच्छभूपतयस्तत्र, विचित्रोपायनैः समम् । सेनापति समापेतुर्भक्त्या पतिमिव स्त्रियः ॥ २७६ ॥ रत्नवर्णोत्करान् केचित् , स्वर्णशैलतटोपमान् । केचिचलितविन्ध्याद्रिकल्पान् करटिनो ददुः ।। २७७॥ केचिद् विश्राणयामासुर्वाजिनोऽत्यर्कवाजिनः । केचिदञ्जननिष्पन्नान् , स्थान देवरथोपमान् ॥ २७८ ॥ तत्राऽन्यदपि यत् सारं, तस्मै सर्वेऽपि तद् ददुः । गिरिभ्योऽपि सरित्कृष्ट, रत्नं रलाकरे व्रजेत् ॥ २७९ ॥ तवाऽऽयुक्ता इवाऽऽदेशकरा वयमतः परम् । स्थास्यामः खस्वविषयेष्वित्यूचुस्ते चमूपतिम् ॥ २८०॥ 20 महीभुजस्तान् यथार्ह, सत्कृत्य विससर्ज सः । पूर्ववञ्च सुखं सिन्धुमुत्ततार तरङ्गिणीम् ॥२८१ ॥ म्लेच्छेभ्य आहृतं सर्व, तं दण्डं दण्डनायकः । दोहदं कीर्तिवल्लीनां, ढौकयामास चक्रिणे ॥ २८२ ।। सत्कृतः कृतिना सोऽथ, प्रमादाञ्चक्रवर्तिना । विसृष्टश्च प्रहृष्टोऽगानिजावासं चमूपतिः ॥ २८३ ॥ अयोध्यायामिव सुखं, तत्राऽस्थाद् भरतेभरः । सिंहः प्रयाति यत्रापि, तस्यौकः खं तदेव हि ॥२८४॥ __ अन्येदुराहय चम्पतिं भूपतिरादिशत् । उद्घाटय नमिलायाः, कपाटद्वितयीमिति ॥ २८५ ॥ 25 आज्ञां नरपतेर्मालामित्रोपाढाय मौलिना । अविदूरे तमिस्राया, गत्वा तस्थौ चमूपतिः ॥ २८६ ॥ कृत्वा मनसि सेनानीः, कृतमालमथाऽमरम्म् । चक्रेऽष्टमतपः सर्वास्तपोमूला हि सिद्धयः ॥ २८७ ॥ सेनापतिरथ स्नातः, श्वेतसंव्यानपक्षभृत् । निर्ययौ स्नानसदनात्, सरसो राजहंसवत् ॥ २८८ ॥ सौवर्ण धूपदहनं, लीलास्वर्णारविन्दवत् । सुषेणः पाणिना विभ्रत् , तमित्राद्वारमासदत् ॥ २८१ ।। तत्र चालोकयामास, कपाटौ प्राणमञ्च सः । महान्तः शक्तिमन्तोऽपि, प्रथमं साम कुर्वते ॥ २९० ॥ 90 वैताख्यसञ्चरद्विद्याधरस्त्रीस्तम्भनौषधम् । अष्टाह्निकोत्सवं तत्र, स व्यधत्त महर्द्धिकम् ॥२९१ ॥ अखण्डैस्तन्दुलैरष्टमङ्गली मङ्गलावहाम् । मण्डलं मात्रिक इवाऽऽलिलेख पृतनापतिः ॥ २९२ ॥ वज्र वज्रधरस्येव, चक्रिणो वैरिसूदनम् । दण्डरनमुपादत्त, स्वहस्तेन चमूपतिः ॥ २९३ ॥
नदीहूदसमुद्रजलेषु। * सचमूकश्च खंता ॥ २ नद्याः। ३ वशीचके। नरध्यानः। ५ पर्वतासधभूमिस्थिताः। ६ गारुडिकः। ७ सिंहः । ८ गजान् । ९ अतिक्रान्तसूर्याश्वान् । १० नद्याकृष्टम् । स्वेषु देशस्वित्यूचुस्ते तंच खंता चालोकयाञ्चक्रे खंता ॥ ११ सेनापतिः ।
त्रिषष्टि. १२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org