________________
कलिकालसर्वज्ञनीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व आजिघांसुरपाक्रामत् , सप्ताष्टानि पदानि सः । मनागपसरत्येव, प्रजिहीर्षुर्गजोऽपि हि ॥ २९४ ॥ सेनानीस्तेन दण्डेन, त्रिः कपाटावताडयत् । उच्चैस्तरां कन्दरां तामातोद्यमिव नादयन् ॥ २९५ ॥ वैताड्यपृथिवीध्रस्य, विलोचनपुटे इव । बाढमुजघटाते ते, कपाटे वज्रनिर्मिते ॥ २९६ ॥ ततो विघटमानौ तौ, कपाटौ दण्डताडनात् । तडत्तडिति कुर्वाणी, चक्रन्दतुरिवोच्चकैः ॥ २९७ ॥ उदग्भरतखण्डानां, जयग्रस्थानमङ्गलम् । कपाटोद्घाटनं राजे, सेनानाथो व्यजिज्ञपत् ॥ २९८ ॥
हस्तिरत्नं समारूढः, अरूढप्रौढविक्रमः । अथाऽऽययौ तमिस्रायां, नरेन्द्रश्चन्द्रमा इव ॥ २९९ ॥ मूर्द्धस्थेन शिखाबन्धेनेव येन कदापि हि । उपसँर्गा न जायन्ते, तिर्यग्नरसुरोद्भवाः॥३०॥ अन्धकारमिवाऽशेषं, येनैं दुःखं प्रणश्यति । शस्त्रघाता इव रुजः, प्रभवन्ति न येन च ॥ ३०१॥
नृपो यक्षसहस्रेणाऽधिष्ठितं चतुरङ्गुलम् । उयोतकं भास्करवन्मणिरत्नं तदाददे ॥३०२ ॥ 10
[त्रिभिर्विशेषकम् ] दक्षिणे कुम्भिनः कुम्भस्थले सोऽरिनिषूदनः । पूर्णकुम्भ इव स्वर्णपिधानं निदधे च तत् ॥ ३०३ ॥ चतुरङ्गचमूचक्रयुक्तश्चक्रानुगस्ततः । प्रविवेश गुहाद्वारं, केसरीव नृकेसरी ॥ ३०४ ॥ अष्टसुवर्णप्रमाणं, षट्तलं द्वादशास्रिकम् । समतलं मानोन्मानप्रमाणयोगसंयुतम् ॥ ३०५॥
सर्वदाधिष्ठितं यक्षसहस्रेणाऽष्टकर्णिकम् । योजनानि द्वादशाऽन्धकारन्यकारकारणम् ॥ ३०६ ॥ 15 अधिकरणीसंस्थानं, सूर्यचन्द्रानलप्रभम् । नृपतिः काकिणीरनं, चतुरङ्गुलमाददे ॥ ३०७ ॥
[त्रिभिर्विशेषकम् ] गोमूत्रिकाक्रमात् तेन, स गुहापार्श्वयोर्द्वयोः । योजनान्ते योजनान्ते, मण्डलान्यालिखन् ययौ ॥३०८॥ धनुःपञ्चशतायामान्येकैकमेकयोजनम् । उयोतकारीण्येकोनपञ्चाशत् तानि जज्ञिरे ॥ ३०९ ॥
तावत् स्थायीनि तान्यासन् , गुहा चोद्घाटितानना । यावजीवति कल्याणी, चक्रवर्ती महीतले ॥३१॥ 20 मण्डलानां प्रकाशेन, तेनाऽप्रस्खलिता चम्ः । सञ्चचार सुखं चक्ररत्नानुगनृपानुगा ॥ ३११ ॥
सा गुहा सञ्चरन्तीभिश्चमूभिश्चक्रवर्तिनः । असुरादिबलै रत्नप्रभामध्यमिवाऽऽवभौ ॥ ३१२ ॥ अन्तः सञ्चरता तेन, चमूचक्रेण सा गुहा । आसीदुद्दामनिर्घोषा, मन्थानेनेव मन्थेनी ॥ ३१३ ॥ रथैः सीमन्तितः सद्योऽश्वखुरैः क्षुण्णकर्करः । जज्ञे पुरीपथ इव, स विलोपि गुहापथः ॥ ३१४ ॥
अन्तःस्थितेन सा तेन, सेनालोकेन कन्दरा । तिरश्चीनत्वमापन्ना, लोकनालिरिवाऽभवत् ॥ ३१५ ।। 25 मध्यभागे तमिस्रायाः, संव्यानंरसने इव । नृपः प्रापदथोन्मना-निमग्ने नाम निम्नगे ॥ ३१६ ॥
याम्योदग्भरतक्षेत्रार्द्धाभ्यामागच्छतां नृणाम् । आज्ञालेखे इव कृते, ते नदीछेमतोऽद्रिणा ॥ ३१७ ॥ तुम्बीफलमिवैकस्यामुन्मजति शिलाऽपि हि । शिलेव तुम्बीफलमप्यन्यस्यां तु निमजति ॥ ३१८॥ तमिस्रायाः पूर्वभित्तेर्निर्गते ते तु गच्छतः । भित्तेः प्रतीच्या मध्येन, सिन्धौ सङ्गममानुतः ॥ ३१९ ॥
बबन्ध वर्द्धकिः पद्यामनवद्यां ततस्तयोः । वैताब्याद्रिकुमारस्य, रहःशय्यामिवाऽऽयताम् ।। ३२० ।। 30 पद्या क्षणेन सा जज्ञे, चक्रभृवर्द्धकेः खलु । गेहाकारद्रुमेभ्यो हि, कालक्षेपो न वास्तुनः ॥ ३२१॥
भूयोभिरपि पाषाणैः, कृता सुश्लिष्टसन्धिभिः । रेजे तावत्प्रमाणैकपाषाणघटितेव सा ॥ ३२२ ॥ सा पाणिवत् समतला, वज्रवच्च द्रढीयसी । गुहाद्वारकपाटाभ्यामिवाऽलक्ष्यत निर्मिता ॥ ३२३ ।। ससैन्योऽपि सुखेनैव, निम्नगे दुस्तरे अपि । समर्थः पदविधिवच्चक्रवर्युत्ततार ते ॥ ३२४ ॥ गुहाया उत्तरं द्वारमुत्तराशामुखोपमम् । सह चम्वा क्रमाद् गच्छन्नासदन्मेदिनीपतिः ॥ ३२५ ॥
त्रिवारम् । २ वैताख्यपर्वतस्य । ३ उपद्रवाः। * °न शेषं प्र° खंता ॥ ४ द्वादशकोणकम् । ५ मन्थनघटी। ६ सञ्चाररहितोऽपि । ७ अधोवस्त्रमेखले। + 'नवस खंता ॥ ८ नद्यौ। ९नदी मिषेण। १० एतदाख्यकल्पवृक्षेभ्यः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org