________________
चतुर्थः मर्गः ] त्रिषष्टिशलाकापुरुषचरितम ।
९१ आकर्ष्याघातनिर्घोषं, याम्यद्वारकपाटयोः । भीताविवोजघटाते, तत्कपाटौ स्वयं क्षणात् ॥ ३२६ ॥ तदा विघटमानौ तौ, सरत्सरितिशब्दतः । सरणप्रेरणमिव, चक्रिसैन्यस्य चक्रतुः ॥ ३२७॥ गुहायाः पार्थभित्तिभ्यां, तथा संश्लिष्य संस्थितो । अलक्ष्येतां यथा तत्राऽभूतपूर्वाविवाररी ॥ ३२८ ॥ __ अथ प्रथमतश्चक्रं, पुरोगं चक्रवर्तिनः । निर्जगाम गुहामध्यादभ्रमध्यादिवायेमा ॥ ३२९ ॥ महीयसा महीनाथो, गुहाद्वारेण तेन च । बलीन्द्र इव पातालविवरण विनिर्ययौ ॥ ३३०॥ तस्या गुहाया निःशङ्कलीलागमनशालिनः । निर्ययुर्दन्तिनो विन्ध्यसानुमद्गह्वरादिव ॥ ३३१॥ गुहातो वल्गु वल्गन्तो, निर्गच्छन्ति म वाजिनः । अम्भोधिमध्यनिर्गच्छदर्कवाजिविडम्बिनः ॥ ३३२ ॥ वैताख्यकन्दरादाढ्यकुंटीगर्भादिवाऽक्षताः । नादयन्तः खनादैयाँ, निरीयुः स्यन्दना अपि ॥ ३३३ ॥ पत्तयोऽपि विनिष्पेतुर्महौजस्का गुहामुखात् । सद्यः स्फुटितवल्मीकवदनादिव पन्नगाः ॥ ३३४ ॥ पञ्चाशद्योजनायामां, तामतिक्रम्य कन्दराम् । उदरभरतवर्षाद्ध, विजेतुं प्राविशन्नृपः ॥ ३३५ ॥ 10
किरातास्तत्र निवसन्त्यापाता नाम दुर्मदाः । आढ्या महौजसो दीप्ता, भूमिष्ठा इव दानवाः ॥३३६॥ तेऽविच्छिन्नमहाहHशयनासनवाहनाः । अनल्पस्वर्णरजताः, कुबेरस्येव गोत्रिणः ॥ ३३७ ॥ बहुजीवधनास्ते च, बहुदासपरिच्छदाः । अजाताभिभवाः प्रायः, सुरोद्यानद्रुमा इव ॥ ३३८ । अनेकसम्परायेषु, नियूंढबलशक्तयः । महाशकटभारेषु, महोक्षा इव ते सदा ॥ ३३९ ॥ प्रसह्य भरताधीशे, कृतान्त इव सर्पति । अनिष्टशंसिनस्तेषामुत्पाता अभवन्निति ॥ ३४० ॥ 15 चलद्भरतसैन्यप्राग्भारभारैरिवाऽर्दिता । प्रकम्पितगृहोद्याना, प्रचकम्पे वसुन्धरा ॥ ३४१ ॥ दिगन्तव्यापिभिः प्रौढैः, प्रतापरिव चक्रिणः । अजायन्त दिशां दाहा, दावानलसहोदराः ॥ ३४२ ॥ क्षरता रजसाऽत्यन्तमनालोकनभाजनम् । बभूवुः ककुभः सर्वाः, पुष्पवत्य इव स्त्रियः ।। ३४३ ॥ दुःश्रवक्रूरनिर्घोषा, आस्फलन्तः परस्परम् । पयोनिधाविव ग्राहा, दुर्वाता विजजृम्भिरे ॥ ३४४॥ निसेतुर्गगनादुल्का, उल्मकानीव सर्वतः । समस्तम्लेच्छव्याघ्राणां, प्रक्षोभस्य निबन्धनम् ॥ ३४५ ॥ अभवन् वज्रनिर्घाता, महानिर्घोषभीषणाः । क्रुद्धोत्थितकृतान्तस्य, हस्तधाता इव क्षितौ ॥ ३४६ ॥ स्थाने स्थाने काकचिल्लमण्डलानि नभस्तले । भ्रमुः समुपसर्पन्त्याछत्राणीवाऽन्तकश्रियः ॥ ३४७ ॥ अथ सौवर्णसन्नाहपरशुप्रासरश्मिभिः । सहस्ररश्मि कुर्वाणं, कोटिरश्मिमिवाऽम्बरे ॥ ३४८ ॥ दन्तुराम्बरमुद्दण्डैदण्डकोदण्डमुद्गरैः । ध्वजस्थव्याघ्रसिंहाहित्रस्ताम्बरचरीगणम् ॥ ३४९॥ महाद्विपघटामेघान्धकारितदिगाननम् । यमाननपरिस्पर्द्धिरथाग्रमकराननम् ॥ ३५० ॥ खुरापातैस्तुरङ्गाणां, पाटयन्तमिव क्षितिम् । जयतूर्यरवेरैः, स्फोटयन्तमिवाऽम्बरम् ॥ ३५१ ॥ भौमेनाऽग्रेसरेणाऽर्कमिव चक्रेण भीषणम् । आयान्तं भरतं दृष्ट्वा, किराताश्चुकुपुस्तराम् ॥ [पञ्चभिः कुलकम् ]
मिथः सम्भूय ते क्रूरग्रहमैत्रीविडम्बिनः । अवनी संजिहीर्षन्त, इव सक्रोधमभ्यधुः ॥ ३५३ ॥ अप्रार्थितप्रार्थयिता, कोऽयं बाल इवाऽल्पधीः । पृथग्जन इव श्रीहीधृतिकीर्तिविवर्जितः ॥ ३५४ ॥ परिक्षीणपुण्यचतुर्दशीको हीनलक्षणः । अस्मद्विषयमायाति, मृग. सिंहगुहामिव ? ॥ ३५५ ॥ 30 तदेनमुद्धताकारं, प्रसरन्तमपि क्षणात् । महावाता इवाऽम्भोदं, प्रक्षिपामो दिशोदिशि ॥ ३५६ ॥ इत्युच्चैर्विब्रुवाणास्ते, सम्भूय भरतं प्रति । उदतिष्ठन्त युद्धाय, प्रत्यब्दं शरभा इव ॥ ३५७॥ अभेद्यान् कूर्मपृष्ठास्थिशकलेरिव निर्मितान् । सन्नाहान् धारयामासुः, किरातपतयोऽथ ते ॥ ३५८ ॥ दिशन्ति मूर्धामुत्केशनिशाचरशिरःश्रियम् । ऋक्षादिकेशच्छन्नानि, शिरस्त्राणानि ते दधुः ॥ ३५९ ॥
१ कपाटौ। २ धनाढ्यगृहगर्भाद् इव । ३ क्षतरहिताः। ४ भूमि स्थिताः । ५ अनेकयुद्धेषु । ६ रजस्वलाः। ७ मत्स्यविशेषाः । ८ खेचरीगणम् । ५ मालग्रहेण । १० रविमङ्गलशनिराहुकेतुरूपाः। 11 अष्टापदाः। १२ भालूकादि।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org