________________
ए
कलिकालसर्वज्ञश्रीक्षेमचन्द्राचार्यप्रणीत
प्रथमं पर्व उत्साहेनोच्छ्सद्देहतया सन्नाहजालिकाः । त्रुटन्ति स प्रतिमुहुरहो ! तेषां रणोत्कता ॥ ३६० ॥ शिरोभिरुत्कचैस्तेषां, शिरस्त्राणान्युदासिरे । त्राता किमपरोऽस्माकमित्यमर्षवशादिव ॥ ३६१ ॥ केचित् कुपितकीनाशभ्रकुटीकुटिलान्यधुः । धषि शृङ्गघटितान्यधिज्यीकृत्य लीलया ॥ ३६२ ॥
केऽपि सङ्गरदुरांस्तरवारीन् भयङ्करान् । कोशादाचकृपुलीलातल्पकल्पान् जयश्रियः ॥ ३६३ ॥ 5 केचिदुद्दधिरे दण्डान् , दण्डपाणेरिवाऽनुजाः । कुन्ताननर्तयन् केपि, केतूनिव नभस्तले ॥ ३६४ ॥
शूलान्यधारयन् केऽपि, शूलाकर्तुमिव द्विषः । श्रीतये प्रेतराजस्याऽऽमत्रितस्य रणोत्सवे ॥ ३६५ ॥ विद्विषर्तिकाचक्रपाणसर्वस्वतस्करान् । अयःशल्यान् निदधिरे, श्येनानिव करेऽपरे ॥ ३६६ ॥ पिपातयिषव इव, नमस्तस्तारकोत्करम् । केचिदाददिरे सद्यो, मुद्रानुभुरैः करैः ॥ ३६७ ॥
विविधान्यायुधान्यन्येऽप्यधुरायोधनेच्छया । विना शस्त्रं न कोऽप्यासीद् , विना विषमिवोरगः ॥३६८॥ 10 उद्दिश्य भरतानीकमनीकरसलालसाः । अभ्यधावन्नेककालमेकात्मान इवाऽथ ते ॥ ३६९ ॥
भरतस्याऽग्रसैन्येन, सार्द्ध युयुधिरे रयात् । म्लेच्छाः शस्त्राणि वर्षन्तोऽरिष्टाब्दाः करकानिव ॥ ३७० ॥ भुवो मध्यादिवोत्पेतुर्दिअखेभ्य इवाऽपतन् । पेतुश्च व्योमत इव, तेभ्यः शस्त्राणि सर्वतः ॥ ३७१ ॥ भरतेशाग्रसेनायां, किरातानां शिलीमुखैः । न तदासीन यद् भिन्नं, दुर्जनानामिवोक्तिभिः ॥३७२ ॥ म्लेच्छसैन्येन पर्यस्ता, भरतेशाग्रसादिनः । नदीमुखोमय इवाऽवलन् वारिधिवेलया ॥ ३७३ ॥ चक्रिणः करिणस्नेसू , रसन्तो विरसस्वरम् । निनसु म्लेच्छसिंहेषु, शिलीमुखनखैः शितैः ॥ ३७४ ॥ ताडिता म्लेच्छसुभटैश्चण्डैदण्डायुधैर्मुहुः । भूपतेः पत्तयः पेतु लन्तः कन्दुका इव ॥ ३७५ ॥
खच्छन्दं म्लेच्छसैन्येन, नृपाग्रब्वजिनीरथाः । अभज्यन्त गदापातैर्वज्रघातैरिवाऽद्रयः ॥ ३७६ ॥ तिमिङ्गिलैरिव म्लेच्छै स्तस्मिन् समरसागरे । ग्रस्तत्रस्तं नृपचमूनचक्रमजायत ॥ ३७७ ॥
अनाथामिव तां सेना, सेनानाथः पराजिताम् । पश्यन् सुषेणः कोपेनाऽनोदि राज्ञ इवाऽऽज्ञया ॥३७८॥ 20 आताम्रनयनस्ताम्रवदनः स क्षणादभूत् । दुरीक्षो नररूपेण, वैश्वानर इव स्वयम् ॥ ३७९ ॥
रक्षोराज इवाऽशेषान् , ग्रसितुं परसैनिकान् । स्वयं संवर्मयामास, सुषेणः पृतनापतिः ॥ ३८० ॥ उत्साहोच्छसदङ्गत्वादतिगाढत्वमागतम् । सौवर्ण वर्म सेनान्यस्त्वगन्तरमिवाऽशुभत् ॥ ३८१ ॥ अशीत्यङ्गुलमुच्छ्रेित्यामेकन्यूनशताङ्गुलम् । परिणाहे देध्ये पुनरष्टोत्तरशताङ्गुलम् ॥ ३८२ ॥
द्वात्रिंशदङ्गुलोत्सेधं, सततोन्नतमौलिकम् । चतुरङ्गुलकर्ण च, विंशत्यङ्गुलबाहुकम् ॥ ३८३ ॥ 25 षोडशाङ्गुलजङ्घाकं, चतुरङ्गुलजानुकम् । चतुरङ्गुलोच्चखुरं, वृत्तं वलितमध्यकम् ॥ ३८४ ॥
विशालसङ्गतनतप्रसन्नपृष्ठशालिनम् । दुकूलतन्तुभिरिव, कोमलैर्लोमभिर्युतम् ॥ ३८५ ॥ प्रशस्तद्वादशावत, शुद्धलक्षणलक्षितम् । सुजातयौवनप्राप्तशुकपिच्छहरिच्छविम् ॥ ३८६ ॥ कशानिपातरहितं, सादिचित्तानुगामिनम् । रत्नस्वर्णवल्गाव्याजाद् , दोभ्यां श्लिष्टमिव श्रिया ॥३८७ ॥
काश्चनैः *किङ्किणीजालैः, क्वणद्भिर्मधुरस्वरम् । अन्तर्ध्वनन्मधुकराम्भोजस्रग्भिरिवाऽचितम् ॥ ३८८ ॥ 30 पञ्चवर्णमणीमिश्रस्वर्णालङ्करणांशुभिः । रूपाद्वैतपताकाङ्कमिव विभ्राणमाननम् ॥ ३८९ ॥
काञ्चनाम्भोजतिलकं, भौमाङ्कितमिवाऽम्बरम् । चामरोत्तंसनिभतोऽन्यौ कर्णाविव विभ्रतम् ॥ ३९० ॥ वज्रिणो वाहनमिवाऽऽकृष्टं पुण्येन चक्रिणः । मुञ्चन्तं चरणौ वक्रो, पतन्तौ लालकादिव ॥ ३९१ ॥ सुपर्णमन्यमूर्येव, मूर्तिमन्तमिवाऽनिलम् । क्षणेन योजनशतोल्लङ्घने दृष्टविक्रमम् ॥ ३९२ ॥ कर्दमोदकपाषाणशर्करागर्त्तदुःषमात् । महास्थलीगिरिदरीदुर्गाचोत्तारणक्षमम् ॥ ३९३ ॥
१रणोत्कण्ठता। २ खड्गान् । ३ लीलाशय्यासदृशान् । ४ यमस्य । ५ लोहशल्यान् । ६ उत्पातमेघाः। वर्षोपलान् । ८ महामत्स्यैः। ५ अग्निः। १० औचत्ये। ११ विशालतायाम्। * किडणी खंता॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org