________________
चतुर्थः सर्गः ]
त्रिषष्टशलाकापुरुषचरितम् ।
ईषद्भूलग्नपादत्वात् सञ्चरन्तमिवाम्बरे । मेधाविनं विनीतं च पञ्चधाराजितश्रमम् ॥ ३९४ ॥ कमलामोदनिःश्वार्स, कमलापीडमाख्यया । साक्षाज्जयमिवाऽऽरोहद्, वाजिराजं चमूपतिः ।। ३९५ ॥ [ चतुर्दशभिः कुलकम् ]
पञ्चाशदङ्गुलं दैर्ये, विस्तारे षोडशाङ्गुलम् । अर्द्धाङ्गुलं च बाहल्ये, स्वर्णरत्नमयत्संरु || ३९६ ॥ अपास्तको निर्मुक्तनिर्मोकमिव पन्नगम् । तीक्ष्णधारमतिदृढं, द्वैतीयीकमिवाऽशनिम् ॥ ३९७ ॥ विचित्र पुष्कर श्रेणिव्यक्तवर्णविराजितम् । खड्गरत्नं स जग्राह द्विषां पत्रमिवाऽन्तकः ॥ ३९८ ॥
[ त्रिभिर्विशेषकम् ] जातपक्ष इवाहीन्द्र:, सन्नद्ध इव केसरी । बभूव खड्गरलेन, स तेन पृतनापतिः ।। ३९९ ॥ तडिद्दण्ड इवाऽऽकाशे, तरलं भ्रमयन्नसिम् । वाजिनं * प्रेरयामास, सांयुगीनं चमूपतिः ।। ४०० ॥ जलकान्तो जलमित्र, स्फाटयन् विद्विषद्बलम् । विवेश वाजिना तेन, सुषेणः समराङ्गणम् ॥ ४०१ ॥ 10 सुषेणे निति द्विषः केऽपि मृगा इव । नेत्रे निमील्य केऽप्यस्थुः पतित्वा शशका इव ॥ ४०२ ॥
भूरे तस्थुः खेदिता रोहिता इव । आरोहन् विषमस्थानं, केsपि शाखामृगा इव ।। ४०३ ॥ केषाञ्चित् पेतुरस्त्राणि, पत्राणीव महीरुहाम् । आतपत्राणि केषाञ्चिद्, यशांसीव समन्ततः ॥ ४०४ ॥ केषाञ्चित् तुरगास्तस्थुर्मन्त्रस्तन्धा इवोरगाः । केषाञ्चिदप्यभज्यन्त, स्यन्दना मृन्मया इव ॥ ४०५ ॥ स्वमप्यसंस्तुतमिव, प्रत्यैक्षन्त न केचन । आत्मप्राणान् गृहीत्वा तु ययुम्लेच्छा दिशोदिशम् ॥ ४०६ ।। 15 पर्यस्तास्ते सुषेणेनाम्भः पूरेण द्रुमा इव । निःस्थामानो योजनानि, भूयांसि व्यपचक्रमुः ॥ ४०७ ॥
20
ते वायसा इवैकत्र, सम्भूयाऽऽलोच्य च क्षणम् । आतुरा मातरमिव, ययुः सिन्धुं महानदीम् ॥ ४०८ ॥ तस्याश्च सैकते कृत्वा, संस्तरान् सिकतोत्करैः । ते सम्भूयोपविविशुरपस्त्रानोद्यता इव ॥ ४०९ ॥ नशा उत्तानका मेघमुखान् स्वकुलदेवताः । चित्ते नागकुमारांस्ते, कृत्वाऽष्टमतपो व्यधुः ॥ ४१० ॥ तदष्टमतपः प्रान्ते, चक्रितेजोभयादिव । तेषां नागकुमाराणामासनानि चकम्पिरे ॥ ४११ ॥ ते दृष्ट्वाऽवधिना तांस्तु, म्लेच्छानार्त्तास्तथास्थितान् । अर्त्या पितृवदभ्येत्य, प्रादुरासंस्तदग्रतः ॥ ४१२ ॥ ब्रूत भो ! भवतामर्थः, कोऽधुना मनसीप्सितः ? । अन्तरिक्षस्थिता एवं, ते किरातान् बभाषिरे ||४१३ ॥ दृष्ट्वा मेघमुखान्नागकुमारान्नभसि स्थितान् । तेऽबभन्नञ्जलीन् भालेष्वत्यन्ततृषिता इव ॥ ४१४ ॥ अस्मद्देशमनाक्रान्तपूर्वं कोऽप्यागतोऽधुना । यथा स गच्छति तथा, कुरुतेत्यूचिरे च ते ।। ४१५ ।। ऊचुर्मेघमुखाचैवं, भरतश्चक्रवर्त्ययम् । देवासुरनरेन्द्राणामप्यजय्यो महेन्द्रवत् ॥ ४१६ ॥ मत्रतत्रविषास्त्रानिविद्यादीनामगोचरः । गिरिग्रावेव टङ्कानां चक्रवत्तीं महीतले ।। ४१७ ॥ युष्माकमनुरोधेन, वयमस्य तथाऽपि हि । उपसर्ग करिष्याम, इत्युक्त्वा ते तिरोऽभवन् ।। ४१८ ॥
अम्भोध इवोत्पत्य, भुवोऽम्भोदा नभस्तलम् । व्यामुवन्तोऽञ्जनश्यामरुचः सञ्जज्ञिरे क्षणात् ॥४१९॥ तेऽतर्जयन्निव तडित्तैर्जन्या चक्रभृचमूम् । ऊर्जितैर्गर्जितरवैश्वाऽऽचुक्रुशुरिवाऽसकृत् ॥ ४२० ॥ ते तस्थुरुपरि क्ष्मापस्कन्धावारस्य तत्क्षणम् । चूर्णनाय तत्प्रमाणोद्यतवत्रशिलोपमाः ॥ ४२१ ॥ अयोग्रैरिव नाराचैरिव दण्डैरिवाऽथ ते । धाराभिरम्भसां तत्र, प्रावर्त्तन्त प्रवर्षितुम् ॥ ४२२ ॥ मेघाम्भसा पूर्यमाणे, समन्तादपि भूतले । अनव्यन्त रथास्तत्राऽनक्रायन्त गजादयः ॥ ४२३ ॥ क्वाऽप्यगच्छदिवाऽऽदित्यः, प्रणेशुरिव पर्वताः । तेन मेघान्धकारेण, स्फूर्जता कालरात्रिवत् ॥ ४२४ ॥
१ खङ्गमुष्टिः । 'चोदयामास सं २, आ. नोदयामास खता ॥ २ रणकुशलम् । ३ कपयः । ४ अपरिचितम् । ५ निर्बलाः । ६ मृतखाने उग्रता इव । ७ पूर्वमनाक्रान्तम् । ८ गिरिपाचाणः । ९ पाषाणभेदनास्त्राणाम् । १० विद्रूपपर्जन्य कुल्या । ११ कोहाः । १२ नौवदाचरणमकुर्वत । १३ नक्रवदाचरणमकुर्वत ।
Jain Education International
९.३
*
For Private & Personal Use Only
5
25
30
www.jainelibrary.org