________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ प्रथमं पर्व
एकान्धकारता चैकजलभावश्च भूतले । तदानीं युगपद् युग्मधर्माविव बभूवतुः || ४२५ ॥ अरिष्टवृष्टिमुत्कृष्टां प्रेक्ष्य तां चक्रवर्त्त्यपि । चर्मरत्नं स्वहस्तेन, प्रियभृत्यमिवाऽस्पृशत् ॥ ४२६ ॥ स्पृष्टं तच्चक्रिहस्तेन, चर्मरत्नमवर्द्धत । योजनानि द्वादशोद पवनेनेव वारिदः ॥ ४२७ ॥ तस्मिन् जलस्योपरिस्थे, घनाब्धेरिव भूतले । चर्मरले समारुह्य, तस्थौ राजा ससैनिकः ॥ ४२८ ॥
मण्डितं नवनवत्या, सहस्रैरैतिचारुभिः । चामीकरशलांकाभिः, क्षीराब्धिमिव विद्रुमैः ॥ ४२९ ॥ व्रणग्रन्थिविहीनेन, सरलत्वैकशालिना । नालेन नलिनमिव, स्वर्णदण्डेन शोभितम् ॥ ४३० ॥ तोयातपमरुद्रेणुत्राणक्षममिलापतिः । पस्पर्श पाणिना छत्रं, चर्मवद् ववृधे च तत् ॥ ४३१ ॥
[ त्रिभिर्विशेषकम् ] छत्रदण्डस्योपरि च, ध्वान्तध्वंसकृते नृपः । तेजसाऽतिनभोरलं, मणिरत्नं न्यवेशयत् ॥ ४३२ ॥ 10 तरदण्डमिवाऽराजत्, सम्पुटं च्छत्रचर्मणोः । ततः प्रभृति लोकेऽभूद्, ब्रह्माण्डमिति कल्पना ॥ ४३३ ॥ चर्मरले च सुक्षेत्र, इवोप्तानि दिवामुखे । सायं धान्यान्यजायन्त गृहिरत्नप्रभावतः ॥ ४३४ ॥ प्रातरुप्ताश्च कूष्माण्डपालक्यामूलकादयः । दिनान्ते निरपद्यन्त, प्रासादा ऐन्दवा इव ।। ४३५ ॥ उप्ता दिनमुखे चूतकदल्याद्याः फलद्रुमाः । दिवान्तेऽपि फलन्ति स्म, प्रारम्भा महतामिव ॥ ४३६ ॥ धान्यशाकफलान्येतान्यभुक्त मुदितो जनः । उद्यानकेलिगतवन्नाबुद्ध कटकश्रमम् ॥ ४३७ ॥ चर्मरतच्छत्ररत्नमध्ये मध्यजगत्पतिः । प्रासादस्थ इव स्वस्थोऽवतस्थे सपरिच्छदः ॥ ४३८ ॥ सप्ताऽभूवनहोरात्राण्यश्रान्तं तत्र वर्षताम् । तेषां नागकुमाराणां तदा कल्पान्तकालवत् ॥ ४३९ ॥ पापाः केऽमी ममेदृक्षोपसर्गं कर्तुमुद्यताः ? । इति भावं नरेन्द्रस्य, विदित्वाऽथ महौजसः ॥ ४४० ॥ सदा सन्निहिता यक्षास्ते सहस्राणि षोडश । सन्नद्धा बद्धतूणीरा, अधिज्यीकृतकार्मुकाः ॥ ४४१ ॥ दिर्घक्षव इव क्रोधानलेन परितः परान् । एत्य मेघमुखान् नागकुमारानेवमब्रुवन् ॥ ४४२ ॥ अरे वराकाः ! किं यूयं हन्त ! निचेतना इव । न जानीथ महीनाथं, चक्रिणं भरतेश्वरम् १ ॥ ४४३ ॥ विश्वाजय्ये नृपेमुष्मिन्नारम्भो वोऽयमापदे । महाशिलोच्चये दन्तप्रहारो दन्तिनामिव ॥ ४४४ ॥ एवं सत्यप्यपयात, त्वरितं मत्कुणा इव । अदृष्टपूर्वो भावी वोsपमृत्युर्ब्राढमन्यथा ॥ ४४५ ॥
5
15
20
९४
इत्याकर्ण्याssकुला मेघबलं मेघमुखाः सुराः । संजहुरिन्द्रजालज्ञा, इन्द्रजालमिव क्षणात् ॥ ४४६ ॥ ययुः किरातांस्ते मेघमुखास्तच्चाऽऽचचक्षिरे । भरतं शरणं गत्वाऽऽश्रयध्वमिति चाऽऽदिशन् ॥ ४४७ ॥ 25 ततस्तद्वचनान्म्लेच्छा, भग्नेच्छा भरतेश्वरम् । शरण्यं शरणायेयुरनन्यशरणास्तदा ॥ ४४८ ॥ फणामणीनिवाहीनामेकतः पुञ्जितान् मणीन् । अन्तःसारमिव मेरोश्चारुचामीकरोत्करम् ॥ ४४९ ॥ अश्वरलंप्रतिच्छन्दानिवाऽश्वानपि लक्षशः । उपायनेऽर्पयामासुस्ते नत्वा भरतेशितुः || ४५० ।। [ युग्मम् ] निबद्धाञ्जलयो मूर्ध्नि, वाचा चाटूक्तिगर्भया । सर्भा इव संतानामिति चोच्चैर्बभाषिरे । ४५१ ॥
विजयख जगन्नाथ !, प्रचण्डाखण्डविक्रम ! | आखण्डल इवाऽसि त्वं, पट्खण्डे क्षोणिमण्डले ॥ ४५२ ॥ 30 वैताढ्य पर्वतस्याऽस्मद्ध्रुवप्रस्यैकभूपते ! । गुहाप्रतोलीं त्वद्यते, क उद्घाटयितुं क्षमः १ ॥ ४५३ ॥ ? ज्योतिश्चक्रमिवाऽऽकाशे, स्कन्धावारं जलोपरि । अन्यो धर्त्तुमलम्भूष्णुर्जिष्णो ! त्वामन्तरेण कः १ ॥४५४ ॥ एवमद्भुतया शक्त्या, स्वामिन्नापि दिवौकसाम् | अजय्य इति विज्ञातोऽस्यज्ञानागः सहस्व नः ।। ४५५ ॥
१ उत्तरपवनेन । * • स्त्रैश्चारुरोचिषाम् सं १ खं ॥ ° लाकानां सं १ खं ॥ २ प्रवालैः । ३ अन्धकारनाशार्थम् । ४ अतिक्रान्तसूर्यम् । ५ कूष्माण्ड : "कोलु” इति भाषायाम् । ६ सैन्यश्रमम् । ७ सपरिवारः । ८ दग्धुमिच्छवः । 1 च्छास्ते भीता भ° सं १ ॥ ९ अश्वरत्वप्रतिबिम्बानीव । १० सहोदराः । ११ बन्दिनाम् । १२ अस्मद्भूमिदुर्गस्य । १३ समर्थः । १४] अज्ञानापराधम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org