________________
चतुर्थः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । नवं जीवातुमधुना, पृष्ठे हस्तं प्रयच्छ नः । स्थास्थामोऽतः परं नाथ, त्वदाज्ञावर्तिनो वयम् ॥ ४५६ ॥ भरतोऽप्यात्मसात्कृत्य, तान् सत्कृत्य च कृत्यवित् । विससर्बोत्तमानां हि, प्रणामावधयः क्रुधः॥४५७॥ गिरिसागरमर्यादं, सिन्धोरुत्तरनिष्कुटम् । नृपाज्ञया सुषेणोऽथ, साधयित्वा समाययौ ॥ ४५८ ॥ भोगान् तत्रोपभुञ्जानश्चिरं तस्थौ महीपतिः । आर्गीकर्तुमिवाऽनार्यान् , निजार्यजनसङ्गमात् ॥ ४५९ ॥ __ अन्यदाऽऽयुधशालाया, भाविशालं महीभृतः । चक्ररत्नं निरक्रामत् , प्रतिभूः ककुभां जये ॥ ४६०॥5 गच्छतः पूर्वमार्गेणाऽभि क्षुद्रहिमवगिरिम् । ययौ तस्याऽध्वना राजा, प्रवाह इव कुल्यया ॥ ४६१ ॥ कैश्चित् प्रयाणकैर्गच्छन्, गजेन्द्र इव लीलया । नितम्ब दक्षिणं क्षुद्रहिमाद्रेः प्राप भूपतिः ॥ ४६२ ॥ तसिंश्च भूर्जतगरदेवदारुवनाकुले । न्यधान्नरेन्द्रः शिबिरं, महेन्द्र इव पाण्डके ॥ ४६३ ॥ उद्दिश्य क्षुद्रहिमवत्कुमारं तत्र चाऽऽर्षभिः । चक्रेऽष्टमं कार्यसिद्धेस्तपो मङ्गलमादिमम् ॥ ४६४ ॥ ततश्चाऽष्टमभक्तान्ते, निशान्त इव भास्करः । रथारूढो महातेजा, निर्ययौ शिविरोदधेः ॥ ४६५॥ 10 वेगेन गत्वा हिमवत्पर्वतं त्रिरताडयत् । साटोपो रथशीर्षेण, शीर्षण्यः पृथिवीभुजाम् ॥ ४६६ ॥ हिमाचलकुमाराय, निजनामाङ्कितं शरम् । विससर्जाऽथ भूनाथो, वैशाखस्थानकस्थितः ॥ ४६७ ॥ द्वासप्ततिं योजनानि, विहायसा विहङ्गवत् । शरः स गत्वा हिमवत्कुमारस्य पुरोऽऽपतत् ॥४६८॥
स समालोक्य तं वाणमारां व्याल इव द्विपः । कोपादजनि तत्कालं, लोहितायितलोचनः ॥ ४६९ ॥ स करेण गृहीत्वेष, तत्र नामाऽक्षराणि च । दृष्टा शमं ययौ दीप, इव पन्नगदर्शनात ॥४७०॥ प्रधानपुरुषेणेव, राज्ञस्तेनेषुणा सह । उपायनान्युपादाय, स ययौ भरतेश्वरम् ॥ ४७१॥ उक्त्वा जयजयेत्युच्चैरन्तरिक्षस्थितोऽथ सः । आदौ भूपाय तं काण्डं, काण्डकार इवाऽऽर्पयत् ॥ ४७२ ॥ सोऽदाद् देवगुसुमनोमालां गोशीर्षचन्दनम् । सर्वोषधीहदाम्भश्च, राज्ञे सारं हि तस्य तत् ॥ ४७३ ॥ कटकान् बाहुरक्षांश्च, देवदूष्यांशुकानि च । ददौ नरपतेर्दण्डे, प्राभृतच्छद्मनाऽथ सः ॥ ४७४ ॥ खामिनुत्तरदिक्प्रान्ते, तवाऽऽयुक्त इवाऽस्म्यहम् । इत्युक्त्वा विरतो राज्ञा, स सत्कृत्य व्यसृज्यत ॥४७५॥ 20
अरेस्तस्य प्रस्थमिव, सह प्रस्थितमुच्चकैः । स वालयामास रथं, मनोरथमिव द्विषाम् ॥ ४७६ ॥ गत्वा ऋषभकूटाद्रिमृषभवामिभूस्ततः । जघान रथशीर्षण, त्रिर्दन्तेनेव दन्तिराट् ॥ ४७७ ॥ स्थापयित्वा रथं तत्र, पृथिवीपतिरग्रहीत् । पाणिना काकिणीरत्नं, रश्मिकोशमिवार्यमा ॥ ४७८ ॥ अवसर्पिण्यां तृतीयारप्रान्ते भरतोऽस्म्यहम् । चक्रीति वर्णान् काकिण्या, तत्पूर्वकटकेऽलिखत् ॥४७९॥ ततो व्यावृत्य सद्वृत्तः, स्कन्धावारं निजं ययौ । चकाराऽष्टमभक्तान्तपारणं च महीपतिः ॥४८॥ 25 ततश्च क्षुद्रहिमवत्कुमारस्य नरेश्वरः । अष्टाह्निकोत्सवं चक्रेऽनुरूपं चक्रिसम्पदः ॥ ४८१ ॥
गङ्गासिन्धुमहानद्योरन्तरालमहीतले । अमाद्भिरिव वियत्युत्प्लवमानस्तुरङ्गमैः ॥ ४८२ ॥ सैन्यभारपरिक्लान्तां, सेक्तुकामैरिवाऽवनिम् । प्रस्रवद्भिर्मदजलप्रवाहं गन्धसिन्धुरैः ॥ ४८३ ॥ उद्दामनेमिरेखाभिः, सीमन्तालङ्कतामिव । विदधानैर्वसुमती, स्वन्दिभिः स्यन्दनोत्तमैः ॥ ४८४ ॥ पत्तिभिः कोटिसङ्ख्यैश्च, प्रसरद्भिर्महीतले । दर्शयद्भिर्नराद्वैतमिवाऽद्वैतपराक्रमैः ॥ ४८५॥
30 अश्ववारानुगो जात्यमतङ्गज इव वजन् । चक्ररत्नानुगश्चक्री, प्राप वैताठ्यपर्वतम् ॥ ४८६ ॥ शिविरं शबरीगीताविगीतादिजिनस्तवे । उदग्नितम्बे तस्याऽद्रेनरेन्द्रः सन्यवेशयत् ॥ ४८७ ।।
ततो नमिविनम्याख्यौ, विद्याधरपती प्रति । जिघाय विशामीशो, मार्गणं दण्डमार्गणम् ॥४८८॥
१ सजीवनौषधरूपम् । २ कान्तिविशालम् । ३ पाण्डके वने । ४ प्रातःकाले। ५ अग्रणीः। ६ अशम् । दुष्टगजः। ८ बाणकारकः। ९ कल्पवृक्षपुष्पमालाम् । १० उपायनमिषेण । ११ मृत्यः। *काकणी खंता॥ काकण्या, खंता॥ १२ नरमपम् । १३ अनिम्धः। १४ प्रेरयामास । १५ दण्डयाचकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org