________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व आलोक्य मार्गणं तं च, विद्याधरपती वरौ । कोपाटोपसमाविष्टावित्यमन्त्रयतां मिथः ॥ ४८९ ॥ द्वीपस्य जम्बूद्वीपस्य, वर्षेत्र भरतेऽधुना । उत्पेढे भरतो हन्त !, प्रथमश्चक्रवर्त्ययम् ॥ ४९० ॥ असावृषभकूटाद्री, चन्द्रबिम्ब इव स्वयम् । नामधेयं लिखित्वा स्वं, वलितोऽत्र समाययौ ।। ४९१ ॥
आरोहक इवेभस्य, वैताव्यस्याऽस भूभृतः । पार्श्वे कृतपदोऽस्त्येष, भूपतिर्भुजगर्वितः ॥ ४९२ ॥ 5 तदेष जितकासी सन्नमत्तोऽपि जिघृक्षति । मन्ये दण्डं तदुद्दण्डं, चिक्षेपाऽस्मासु सायकम् ॥ ४९३ ॥
तावन्योऽन्यमुदित्वैवमुत्थाय समरोन्मुखौ । प्रतस्थाते गिरिप्रस्थं, स्थगयन्तौ निजैर्बलैः ॥ ४९४ ॥ तत्र युसैद्धलानीव, सौधर्मेशाननाथयोः । आज्ञयाऽथ तयोर्विद्याधरानीकान्युपाययुः ॥ ४९५ ॥ तेषामुच्चैः किलिकिलारावैर्वैताट्यपर्वतः । जहासेव जगर्जेव, पुस्फोटेव समन्ततः॥ ४९६ ॥ विद्याधरेन्द्रभृतकाः, कलधौतमयान् पृथून् । दुन्दुभीन् वादयामासुर्वैताख्यस्येव कन्दरान् ॥ ४९७ ॥ उदग्दक्षिणयोः श्रेण्योभूमिग्रामपुराधिपाः । विचित्ररत्नाभरणा, रत्नाकरसुता इव ॥ ४९८॥ 10 अस्खलद्गतयो व्योग्नि, सौपर्णेया इवाऽचलन् । समं नमिविनमिभ्यां, तन्मूर्तय इवाऽपराः ॥ ४९९ ॥ एयुर्विचित्रमाणिक्यप्रभोद्भासितदिशुखैः । विमानैः केऽप्यसंलक्ष्यभेदा वैमानिकामरैः ॥ ५०० ॥ गर्जद्भिः शीकरासारवर्षिभिर्गन्धसिन्धुरैः । पुष्करावर्तकाम्भोदसोदरैरपरेऽचलन् ॥ ५०१॥
आच्छिन्नेरिन्दुमार्तण्डप्रभृतिज्योतिषामिव । सुवर्णरत्नरचितैः, स्यन्दनैः केचिदापतन ॥५०२॥ 15 गगने वल्गु वल्गद्भिर्वेगातिशयशालिभिः । केपि प्रतस्थिरे वायुकुमारैरिव वाजिभिः ॥ ५०३ ॥ 15
विहस्तहस्ताः शस्त्रौधैर्वज्रसन्नाहधारिणः । प्लवमानाः प्लवङ्गवत् , केचिदेयुः पदातयः ॥५०४ ॥ तावथोत्तीर्य वैताढ्याद् , विद्याधरबलावृतौ । युयुत्समानौ सन्नद्धौ, भरतेश्वरमीयतुः ॥ ५०५ ॥ कुर्वन् मणिविमाना, बहुसूर्यमयीमिव । प्रज्वलद्भिः ग्रहरणैस्तडिन्मालामयीमिव ॥ ५०६ ॥ उद्दामदुन्दुभिध्वानैमेघघोषमयीमिव । विद्याधरबलं व्योमन्यपश्यद् भरतस्ततः ॥५०७॥ दण्डार्थिन् । दण्डमसत्तस्त्वं गृह्णासीति भाषिणौ । आहवायाह्वयेतां तौ, विद्यादृप्तौ महीपतिम् ॥ ५०८ ॥ 20 अथ ताभ्यां ससैन्याभ्यां, प्रत्येकं युगपञ्च सः । युयुधे विविधैर्युद्धैर्युद्धाा यजयश्रियः ॥ ५०९ ॥
युधा द्वादशवार्षिक्या, विद्याधरपती जितौ । प्राञ्जली प्रणिपत्यैवं, भरताधीशमूचतुः ॥ ५१० ॥ रवेरुपरि किं तेजो ?, वायोरुपरि को जवी ? । मोक्षस्योपरि किं सौख्यं ?, कश्च शूरस्तवोपरि १॥५११॥
ऋषभो भगवान् साक्षादद्य दृष्टस्त्वमार्षमे ! । अज्ञानाद् योधितोऽसाभिः, कुलस्वामिन् ! सहस्व तत् ॥५१२॥ . 25 ऋषभस्वामिनो भृत्यौ, पुरा वामधुना तु ने । सेवावृत्तिर्न लजाय, स्वामिवत् स्वामिनन्दने ॥ ५१३ ॥ 25
याम्योदग्भरतान्तिर्वतिवैताठ्यपाश्वयोः । दुर्गपालाविवेहाऽऽवां, स्थास्यावः शासनेन ते ॥ ५१४ ॥ इत्यस्य वचनस्याऽन्ते, विनम्य विनमिर्नृपः । विदधे दित्समानोऽपि, यियाचिषुरिवाऽञ्जलिम् ॥५१५ ॥
समचतुरस्राकारां, सूत्रं दत्त्वेव निर्मिताम् । त्रैलोक्यवर्तिमाणिक्यतेजःपुञ्जमयीमिव ॥ ५१६ ॥ यौवनेन नखैः केशैः, श्रीमद्भिः सर्वदा स्थितैः । विराजमानामत्यन्तं, कृतज्ञैरिव सेवकैः ॥ ५१७ ॥ 30 सर्वामयोपशमनी, बल्यां दिव्यामिवौषधीम् । यथाकामीनशीतोष्णसंस्पर्शा दिव्यवारिवत् ॥ ५१८॥ 30
त्रिषु श्यामा त्रिषु श्वेतां, त्रिपुतानां त्रिषूनताम् । त्रिगम्भीरां त्रिविस्तीर्णा, न्यायतां त्रिशीयसीम् ॥५१९॥ जयन्ती केशपाशेन, कलापान प्रचलाकिनाम् । पराभवन्ती भालेन, पक्षमध्यक्षपाकरम् ॥ ५२० ॥
20
कृतस्थानः। २ जयाभिमानी। ३ देवसैन्यानि इव । *किलकिला सं १, २. ॥ + सीकरा सं १, खं ॥ व्याकुलहस्सा।। प्पिषगवत् आ॥ ५ विद्योन्मत्तौ। ६ वेगवान् । ७ सर्वरोगोपशमनीम् । ८ बलहेतुकाम् । ९ यथे. रछशीतोष्णसंस्पर्शाम् । १० केशादिषु। ११ देहादिषु । १२ करतलादिषु। १३ स्तनादिषु । १४ नाम्यादिषु । १५ नितबादिप। १६ कोचमाविषु। १७ उत्रादिषु। १८ मयूराणाम् । १९ अष्टमीचन्दम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org