________________
चतुर्थः सर्गः ]
त्रिषष्टिशलाकापुरुषचरितम् ।
रतिप्रीत्योरिव क्रीडादीर्घिके दधतीं दृशौ । नासां च भाललावण्यजलधारामिवाऽऽयताम् ।। ५२१ ।। कपोलाभ्यां नवस्वर्णादर्शाभ्यामित्र शोभिताम् । दोलाभ्यामित्र कर्णाभ्यां, लग्नाभ्यामंसदेशयोः ।। ५२२ ।। विभ्राणामधरौ युग्मजातबिम्बविडम्बिनौ । दन्तांश्च वज्रशकलश्रेणिशोभाभिभावकान् ।। ५२३ || विभ्राणां मध्यमित्र च, त्रिरेखं कण्ठकन्दलम् । भुजे च नलिनीनालसरले बिसकोमले ।। ५२४ ।। कुचौ दधानां कामस्य, कल्याणकल साचिव । स्तनापहृतबाहल्यमिव मध्यं च पेलवम् ।। ५२५ ।। वहन्तीं सरिदावर्त्तसनाभिं नाभिमण्डलम् । रोमालीं च नाभिवापीतीरदूर्वावलीमिव ॥ ५२६ ॥ नितम्बेन विशालेन, तल्पेनेव मनोभुवः । दोलासुवर्णस्तम्भाभ्यामिवोरुभ्यां च राजिताम् ॥ ५२७ ॥ जङ्घाभ्यामेणिकाजङ्घे, अधरीकुर्व तीतराम् । पाणिभ्यामिव पादाभ्यां पङ्कजानि निकुर्वतीम् ॥ ५२८ ॥ पाणिपादाङ्गुलिदलैर्वल्लीं पल्लवितामिव । नखै रत्तै रोचमानै, रत्नाचलतटीमिव ॥ ५२९ ॥ शोभमानां च वासोभिर्विशालखच्छकोमलैः । चलैन्मृदुमरुञ्जातोत्कलिकाभिरिवाऽऽपगाम् ।। ५३० ॥ मनोरमैरवयवैः, स्वच्छकान्तितरङ्गितैः । भूषयन्तीं भूषणानि, रत्नस्वर्णमयान्यपि ॥ ५३१ ॥ पृष्ठत छत्रधारिण्या, छाययेव निषेविताम् । सञ्चरच्चामराभ्यां च, हंसाभ्यामित्र पद्मिनीम् ।। ५३२ ॥ अप्सरोभिः श्रियमिवाऽऽपगाभिर्जाह्नवीमित्र । सहस्रशो वयस्याभिः परितः परिवारिताम् ।। ५३३ ॥ नाम्ना सुभद्रां स्त्रीरत्नं, स स्वां दुहितरं ततः । राज्ञे विश्राणयामास, स्थिरीभृतामिव श्रियम् ।। ५३४ ॥ [ विंशत्या कुलकम् ] महामूल्यानि रत्नानि भूभुजे नमिरप्यदात् । गृहागते स्वामिनि हि, किमदेयं महात्मनाम् ? ॥ ५३५ ॥ अथ राज्ञा विसृष्टौ तौ राज्यान्यारोप्य सूनुषु । विरक्तावृषभेशाङ्घ्रिमूले जगृहतुर्व्रतम् ।। ५३६ ॥
15
ततोऽपि चलितवतचरत्नस्य पृष्ठतः । गच्छन् सोऽमन्दतेजस्कः, प्राप मन्दाकिनीतम् ॥ ५३७ ॥ नात्यासन्ने नातिदूरे, जाह्नवीसदनस्य सः । सैन्यान्यावासयामास, वसुमत्येकवासवः ॥ ५३८ ॥ गङ्गां सिन्धुवदुत्तीर्य, नृपादेशाच्च भूपतिः । सुषेणः साधयामास, गाङ्गमुत्तरनिष्कुटम् ।। ५३९ ।। ततः सोऽष्टमभक्तेन, गङ्गादेवीमसाधयत् । उपचारः समर्थानां सद्यो भवति सिद्धये ॥ ५४० ॥ राज्ञे विश्राणयामास, रत्नसिंहासनद्वयम् । अष्टोत्तरं रत्नकुम्भसहस्रं च सरिद्वैरा ॥ ५४१ ॥ भरतं रूपलावण्य किङ्करीकृतमन्मथम् । तत्राऽवलोक्य गङ्गाऽपि प्राप क्षोभमयीं दशाम् ॥ ५४२ ॥ विराजमाना सर्वाङ्गं, मुक्तामयविभूषणैः । वदनेन्दोरनुगतैस्तारैस्तारागणैरिव ॥ ५४३ ॥ वस्त्राणि कदलीगर्भत्वक्सगर्भाणि विभ्रती । स्वप्रवाहपयांसीव, तद्रूपपरिणामतः ।। ५४४ ।। रोमाञ्चकञ्चुकोदञ्चत्कुचस्फुटितकञ्चुका । स्वयंवरस्रजमिव क्षिपन्तीं धवलां दृशम् ॥ ५४५ ॥ प्रेमगद्गदया वाचा, गाढमभ्यर्ध्य पार्थिवम् । रिरंसमाना साऽनैषीद्, देवी रैतनिकेतनम् ॥ ५४६ ॥ [ चतुर्भिः कलापकम् ] भुञ्जानो विविधान् भोगांस्तत्र राजा तया सह । एकाहमिव वर्षाणां सहस्रं सोऽत्यवाहयत् ।। ५४७ ।। कथचिदपि सम्बोध्य, सोऽनुज्ञाप्य च जाह्नवीम् । खण्डप्रपाताभिमुखं, चचाल प्रबलैर्बलैः || ५४८ || 30 गुहां खण्डप्रपाताख्यामखण्डितपराक्रमः । ततः स्थानान्नृपः प्राप, केसरीव वनाद् वनम् ॥ ५४९ ॥ अथ खण्डप्रपाताया, गुहायाः सोऽपि दूरतः । निवेशयामास बलं बलेनातिमहाबलः ।। ५५० ।। तत्र देवं नाव्यालं कृत्वा मनसि भूपतिः । चक्रेऽष्टमतपोऽचालीत्, तस्य देवस्य चाऽऽसनम् ||५५१॥ सास्पावधिना तत्राssयातं भरतचक्रिणम् । उपायनैरुत्तमर्णमधमर्ण इवाऽऽययौ ।। ५५२ ।।
* 'कण्डमण्डलम् भ ॥ ५ मृगीजङ्ग । २ तिरस्कुर्वतीम् । ३ चन्मृदुपवनजातलहरीभिः । ४ पृथ्व्या मेक ५। ६ सम्भोगस्थानम् । ७. एकदिनमिव ।
धन्यः ।
१३
Jain Education International
९७
For Private & Personal Use Only
5
10
20
25
www.jainelibrary.org