________________
कलिकालसर्पज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व षट्खण्डक्ष्माभूषणस्य, स देवो भूरिभक्तिभाक् । भूषणान्यर्पयामास, सेवां च प्रत्यपद्यत ॥ ५५३ ॥ कृतनाट्यं नटमिव, नाट्यमालसुरं ततः । प्रसादपूर्वमुर्वीशो, विससर्ज विवेकयुक् ॥ ५५४ ।। पारणं विदधे भूपस्तस्य चाऽष्टाह्निकोत्सवम् । सुषेणं चाऽऽदिशत् खण्डप्रपातोद्घाट्यतामिति ॥५५५ ॥ ___ नाव्यमालं चमूनाथः, कृत्वा मनसि मत्रवत् । चक्रेऽष्टममग्रहीच, पौषधं पौषधौकसि ॥ ५५६ ॥ निष्क्रम्य पौषधागारादष्टमान्ते चम्पतिः । प्रतिष्ठायामिवाऽऽचार्यवर्यो बलिविधि व्यधात् ॥ ५५७ ॥ ततश्च विहितप्रायश्चित्तकौतुकमङ्गलः । महाळखल्पनेपथ्यभृद् धूपदहनं दधत् ॥ ५५८ ॥ खण्डप्रपातां स ययावालोकेऽपि ननाम च । आनर्च तत्कपाटे च, लिलेख चाऽष्टमङ्गलीम् ॥ ५५९ ।। पदान्यपेत्य सैंप्ताऽथ, कपाटोद्घाटनाय सः । उपाददे दण्डरत्नं, काश्चनीमिव कुञ्चिकाम् ॥ ५६० ॥ तेनाऽऽहतं च दण्डेन, तत्कपाटद्वयं क्षणात् । व्यवटिष्टाउंशुमद्रश्मिस्पृष्टपङ्कजकोशवत् ।। ५६१॥
आरूढः करिणः स्कन्धं, कुम्भदेशे च दक्षिणे । मणिरत्नं निवेश्योच्चैस्तां विवेश गुहां नृपः ॥ ५६२ ॥ अन्वीयमानः सैन्येन, भरतस्तिमिरच्छिदे । काकिण्या पूर्ववत् तत्र, मण्डलान्यालिखन् ययौ ॥ ५६३ ॥ निःसरन्त्यौ गुहाप्रत्यग्भित्तेःप्राग्भित्तिमध्यतः। भूत्वा मिलन्त्यो जाह्नव्या,सख्या सख्याविवाभितः॥५६४ ते उन्मग्ना-निमग्नाख्ये, निम्नगे प्राप भूपतिः । प्राग्वच्च पद्यया सद्यो, ललझे सह सेनया ॥ ५६५ ॥ तद्गुहादक्षिणद्वारं, स्वयमुजघटे क्षणात् । सैन्यशल्यातुरेणेव, वैताढ्येनाऽद्रिणेरितम् ॥ ५६६ ॥ निर्ययौ तद्गुहामध्यात् , केसरीव नरेश्वरः । स्कन्धावारं च निदधे, गाङ्गे रोधसि पश्चिमे ॥ ५६७ ॥ __ उद्दिश्य च निधीन पृथ्वीपतिश्चक्रेऽष्टमं तपः । प्राक्तपोऽर्जितलब्धीनामागमे मार्गदर्शकम् ॥ ५६८ ॥ अष्टमान्ते तमभ्येयुर्निधयो नव विश्रुताः । सदा यक्षसहस्रेण, ते प्रत्येकमधिष्ठिताः ॥ ५६९ ॥ नैसर्पः पाण्डुकश्चाऽथ, पिङ्गलः सर्वरत्नकः। महापद्मः कालमहाकालौ माणवशङ्खको ॥५७०॥ तेऽष्टचक्रप्रतिष्ठाना, उत्सेधे चाऽष्टयोजनाः । नवयोजनविस्तीर्णा, दैर्य द्वादशयोजनाः ॥ ५७१ ।। वैडूर्यमणिकपाटस्थगितवदनाः समाः । काञ्चना रत्नसम्पूर्णाश्चक्रचन्द्रार्कलाञ्छनाः ॥ ५७२ ॥ तेषामेवाऽभिधानैस्तु, तदधिष्ठायकाः सुराः । पल्योपमायुषो नागकुमारास्तन्निवासिनः ॥ ५७३ ॥ स्कन्धावारपुरग्रामाकरद्रोणमुखौकसाम् । मडम्बपत्तनानां च, नैसर्पाद् विनिवेशनम् ॥ ५७४ ॥ मानोन्मानप्रमाणानां, सर्वस्य गणितस्य च । धान्यानामथ बीजानां, सम्भवः पाण्डुकानिधेः॥५७५॥ नराणामथ नारीणां हस्तिनां वाजिनामपि । सर्वोऽप्याभरणविधिधेिर्भवति पिडलात ॥ ५७६ ॥ एकेन्द्रियाणि सप्ताऽपि, सप्त पञ्चेन्द्रियाणि च । चक्रिरत्नानि जायन्ते, सर्वरत्नाभिधे निधौ ॥ ५७७ ॥ वस्त्राणां सर्वभक्तीनां, शुद्धानां रागिणामपि । सञ्जायते समुत्पत्तिर्महापद्मान्महानिधेः ॥ ५७८ ॥ भविष्यद्भूतयोर्ज्ञानं, वत्सरांस्त्रीन् संतोऽपि च । कृष्यादीनि च कर्माणि, शिल्पान्यपि च कालतः ॥५७९॥ प्रवालरजतस्वर्णशिलामुक्ताफलायसाम् । तथा लोहाद्याकराणां, महाकाले समुद्भवः ॥ ५८० ॥ योधानामायुधानां च, सन्नाहानां च सम्पदः । युद्धनीतिरशेषाऽपि, दण्डनीतिश्च माणवात् ॥ ५८१ ॥ चतुर्धा काव्यनिष्पत्तिर्नाट्यनाटकयोविधिः । तूर्याणामखिलानां चोत्पत्तिः शङ्खान्महानिधेः ॥ ५८२ ॥ ___ ऊचुस्ते च वयं गङ्गामुखमागधवासिनः । आगतास्त्वां महाभाग!, भवद्भाग्यैर्वशीकृताः ॥५८३ ॥ यथाकाममविश्रान्तमुपभुङ्ग प्रयच्छ च । अपि क्षीयेत पाथोऽब्धौ, न तु क्षीयामहे वयम् ॥ ५८४ ॥ वशं यातेषु निधिषु, नृपो व्यधित पारणम् । अष्टाहिकोत्सवं तेषां, निर्विकारश्चकार च ॥ ५८५ ॥ नृपाज्ञया सुषेणोऽपि, गङ्गादक्षिणनिष्कुटम् । पल्लीवल्लीलया सर्व, साधयित्वा समाययौ ॥ ५८६ ॥
*सप्ताट, कसं २, आ॥ १ मागण । २ प्रेरितम् । ३ आकर: खनिः, जल-स्थलपथाभ्यां यत्र भाण्डाचागच्छति तद् द्रोणमुखम् । ४ वर्तमानस्य । ५ जलम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org