________________
15
चतुर्थः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । तत्राऽस्थाल्लीलयाऽऽक्रान्तपूर्वापरपयोनिधिः । द्वितीय इव वैताढ्यो, बहुकालमिलापतिः ॥५८७ ॥
अन्येयुः साधिताशेषभरतं भरतेशितुः । अयोध्याभिमुखं चक्रमचालीद् गगनस्थितम् ॥५८८॥ भरतोऽपि कृतस्त्रानो, विधाय बलिकर्म च । नेपथ्यभृत् कृतप्रायश्चित्तकौतुकमङ्गलः ॥ ५८९ ॥ कुञ्जराधिपतिस्कन्धमारूढो देवराडिव । नवभिनिधिभिः पुष्टकोशः कल्पद्रुमैरिव ॥ ५९० ॥ निरन्तरं महारत्नैश्चतुर्दशभिरावृतः । सुमङ्गलायाः स्वमानां, पृथग्भूतैः फलैरिव ॥ ५९१ ॥ 5 सैज्ञां कुलश्रीभिरिवोढाभिर्दुहितृभिः क्रमात् । द्वात्रिंशता सहस्रैश्चाऽसूर्यम्पश्याभिरन्वितः ॥ ५९२ ॥ तावद्भिर्जनपदभूत्रीसहस्रैश्च सुन्दरैः । अप्सरोभिरिवाऽत्यन्तचारुभिः परिशोभितः ॥ ५९३ ॥ श्रितो द्वात्रिंशता राजसहस्रः पदिकैरिव । चतुरशीत्येभलक्षैर्विन्ध्याद्रिरिव राजितः ॥ ५९४ ॥ अश्वै रथैश्च तावद्भिर्विश्वतोऽप्याहृतैरिव । भंटानां षण्णवत्या च, कोटिभिश्छन्नभूतलः ॥ ५९५ ॥ आद्यप्रयाणदिवसादतिक्रान्तेषु सत्स्वथ । षष्टौ वर्षसहस्रेषु, चक्रमार्गानुगोऽचलत् ॥ ५९६ ॥ 10
[अष्टभिः कुलकम् ] सैन्योद्धृतरजःपूरपरिस्पर्शमलीमसान् । खेचरानपि कुर्वाणः, कृतभूलुठनानिव ॥ ५९७ ॥ व्यन्तरान् भवनपतींश्चाऽपि भूमध्यवासिनः । सैन्यभारान्महीभेदशङ्कोत्पादेन भापयन् ॥ ५९८ ॥ गोकुले गोकुले गोपसुंदृशां विकसदृशाम् । गृह्णन् हैयङ्गवीनार्घमनय॑मिव भक्तितः ॥ ५९९ ॥ कुम्भिकुम्भस्थलोद्भूतमौक्तिकप्रभृतीनि च । प्राभृतानि किरातानामाददानो वने वने ॥ ६०० ॥ पर्वते पर्वते भूपैः, 'पार्वतीयैः पुरो धृतम् । रत्नस्वर्णखनीसारं, स्वीकुर्वन्नुवनेकशः ॥ ६०१॥ ग्रामे ग्रामे ग्रामवृद्धान् , सोत्कण्ठान् बान्धवानिव । अनुगृह्णन सप्रसादमात्तानात्तैरुपायनैः ।। ६०२ ॥ निजाज्ञायष्टिनोग्रेण, विष्वक् प्रसृमरानपि । ग्रामेभ्यः सैनिकान् रक्षन् , क्षेत्रेभ्यो गा इवाऽभितः ॥६०३॥ वृक्षाधिरूढान् प्लवगानिव ग्रामीणदारकान् । सहर्ष पश्यतः पश्यन् , जनकस्तनयानिव ॥ ६०४ ॥ धान्यैर्धनैर्जीवधनैः, सर्वदा निरुपद्रवैः । ग्रामाणां सम्पदं पश्यन् , निजनीतिलताफलम् ॥ ६०५ ॥ 20 आपंगाः पङ्किलीकुर्वन् , सरांसि परिशोषयन् । वापीकूपांश्च कुर्वाणः, पातालशुषिरोपमान् ॥ ६०६ ॥ मलयानिलवल्लोकसुखं गच्छन् शनैः शनैः । विनीतां प्रापदुर्वीशो, दुर्विनीतारिशासनः ॥ ६०७ ॥
[एकादशभिः कुलकम् ] अविदूरे विनीतायाः, स्कन्धावार न्यवेशयत् । तस्याः सहोदरमिवाऽतिथीभूतं महीपतिः ॥ ६०८ ॥ कृत्वा मनसि तां राजधानी राजशिरोमणिः । चकार निरुपसर्गप्रत्ययं सोऽष्टमं तपः ॥ ६०९॥ 25 निष्क्रम्याऽष्टमभक्तान्ते, पौषधागारतो नृपः । पारणं विदधे दिव्यरसवत्या नृपैः सह ।। ६१०॥
अयोध्यायां त्वबध्यन्त, तोरणानि पदे पदे । दिगन्तरागतश्रीणां, क्रीडादोला इवोच्चकैः ॥ ६११॥ चक्रुः पौराः पथि पथि, सेकं कुङ्कुमवारिभिः । गन्धाम्बुवृष्टिभिरिव, स्वर्गिणो जिनजन्मनि ॥ ६१२ ॥ मचान् विरचयामासुः स्वर्णस्तम्भैः पुरीसदः । अनेकीभूय निधिभिः, पुरोभूयागतैरिव ॥ ६१३ ॥ अभानुभयतो मार्ग, मश्चास्तेऽन्योऽन्यसम्मुखाः । वर्णाद्रय इव कुरुष्वभितो ह्रदपश्चकम् ॥ ६१४ ॥ 30 प्रतिमञ्चमजायन्त, रत्नभाजनतोरणाः । प्राचीनबर्हिकोदण्डश्रेणिशोभाभिभाविनः ॥ ६१५ ॥ समं वीणामृदङ्गादिवादकैर्गायनीजनः । विमानेष्विव गन्धर्वानीकं मञ्चेष्ववास्थित ॥ ६१६ ॥
* राजन्यकदुहितृणां, मूर्तानां तच्छ्रियामिव । द्वात्रिंशता सहस्रश्च, नवोढानां समावृतः सं १, खं॥ + त्रैस्तथोच्चकैः सं
वृ तो भटैः षण्णवत्या, सं २, आ ॥ षष्टिवर्ष सं १॥ गोपालखीणाम् । २ नवनीतम् । गा पर्वतीयैः खं, सं २ ॥ ३ महत्। ४ गृहीतागृहीतैः। ५ प्रसृतान। ६ नदीः। ७ पातालच्छिद्रोपमान् । ८ सेचनम् । ९ इन्द्रधनुःश्रेणिशोभातिरस्कारिणः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org