________________
5
20
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं
[ प्रथमं पर्व
मुक्तावचूला मञ्चेषु, बभ्रुरुल्लोचलम्बिनः । कान्तिस्तव किताकाशा, वातागारेपित्र श्रियः ।। ६१७ ॥ प्रमोदमानपूर्देव्या, हसितैरिव चामरैः । दिवो मण्डन भङ्गीभिरिव चित्रकचर्मभिः ।। ६१८ ।। कौतुकादागतैर्धिष्ण्यैरिव काञ्चनदर्पणैः । खेचराणां हस्तेशादैरिव वासोभिरद्भुतैः ।। ६१९ ॥ विचित्रमणिमालाभिर्मेखलाभिरिव श्रियाम् । उत्तम्भितेषु स्तम्भेषु, हट्टशोभां व्यधुर्जनाः ६२० ॥ [ त्रिभिर्विशेषकम् ] प्रक्वणत्किङ्किणीमालाः, पताकाश्च बबन्धिरे । दर्शयन्त्यः शरत्कालं, कलनिर्ह्रादसारसम् ।। ६२१ ।। प्रत्यङ्कं प्रतिगेहं च, यक्षकर्दमगोमयैः । लिप्तेष्वदादङ्गणेषु, मौक्तिकस्वस्तिकान् जनः ॥ ६२२ ॥ अपूर्यन्ताऽरुक्षोदे धूपघट्यः पदे पदे । उच्चैर्धृमायमाना द्यामपि धूपायितुं ध्रुवम् ।। ६२३ ॥
I
प्रवेष्टुकामो नगरीमारुरोह शुभे क्षणे । गजं मेघमिवं गर्ज, चक्री भूमेघवाहनः ।। ६२४ ॥ 10 एकेनैवाऽऽतपत्रेण, कर्पूरक्षोदपाण्डुना । हिमांशुमण्डलेनेव, गगनं परिशोभयन् ।। ६२५ ।। सङ्क्षिप्य स्वं वपुर्भक्त्या, चामरद्वितयच्छलात् । अभ्युपेत्य समं गङ्गासिन्धुभ्यामिव सेवितः ॥ ६२६ || वासोभिः शोभितः शुभ्रैः, सुसूक्ष्मैर्मसृणैर्घनैः । स्फाटिकाद्रि शिलासारं, त्वचर्यित्वेव निर्मितैः ॥ ६२७ ॥ प्रेम्णा रत्नप्रभाभूम्या, निजसारैरिवाऽर्पितैः । विचित्ररत्नालङ्कारैः सर्वाङ्गीणमलङ्कृतः ।। ६२८ ॥ नृपैराबद्धमाणिक्यमुकुटैः परिवारितः । फणामणिधरैर्नागकुमारैरिव नागराद् ।। ६२९ ।। 15 वैतालिकैर्जयजयारावपूर्वं प्रमोदिभिः । कीर्त्यमानाद्भुतगुणः, सुत्रामा चारणैरिव ॥ ६३० ॥ मङ्गल्य तूर्य निर्घोषप्रतिशब्दापदेशतः । रोदसीभ्यामपि भृशं कृतमाङ्गलिकध्वनिः ॥ ६३१ ॥ तेजोबिडौजा नृपतिर्भाण्डागारमिवौजसाम् । येतेन कुञ्जरं किञ्चित् प्रेरयन् प्रचचाल सः || ६३२ ॥ [ अष्टभिः कुलकम् ] अवतीर्ण दिव इव, भूमध्यादिव चोत्थितम् । चिरायातं नृपं द्रष्टुं ग्रामादिभ्योऽभ्यगाजनः ॥ ६३३ ॥ सा राज्ञः सकला सेना, लोकश्च मिलितो बभौ । मर्त्यलोकः समग्रोऽपि, पिण्डीभूत इवैकतः ॥ ६३४ ॥ नैरन्तर्यादनीकानां, लोकानां चाऽभ्युपेयुषाम् । मुक्तस्तिलोऽपि हि तदा, न पपात महीतले ।। ६३५ ।। स्तूयमानो मुदोत्तालैः कैश्चिद् वैतालिकैरिव । वीज्यमानोऽञ्श्चलैः कैश्चिच्चञ्चलैश्चामरैरिव ॥ ६३६ ॥ भालस्थाञ्जलिभिः कैश्चिद्, वन्द्यमानोऽंशुमानिव । अयमाणफलपुष्पः कैश्चिदारामिकैरिव ॥ ६३७ ॥ प्रणम्यमानः स्वकुलदेवतेव च कैश्चन । केचित् प्रदीयमानाशीर्गोत्रवृद्धा जनैरिव ॥ ६३८ ॥ 25 प्रविवेश विशामीशश्चतुर्द्वारां पुरीं स ताम् । पूर्वद्वारेण समवसरणं नाभिभूखि || ६३९।।[चतुर्भिः कलापकम् ] प्रत्येकमपि मश्चेषु, सङ्गीतानि तदाऽभवन् । युगपल्लग्नघटिका तूर्यनादा इवोच्चकैः ॥ ६४० ॥ पुरो गच्छति भूपाले, राजमार्गापण स्थिताः । मुदिताः पौरसुदृशो, लौजान् दृश इवाऽक्षिपन् ॥ ६४१ ॥ पौरप्रक्षिप्तकुसुमदामभिः पिहितोऽभितः । सोऽभूत् पुष्परथप्रायो, राजकुञ्जरकुञ्जरः || ६४१ ॥ शनैः शनै राजपथे, प्रययौ जगतीपतिः । उत्कण्ठितानां लोकानामकुण्ठोत्कण्ठया पुनः ॥ ६४३ ॥ नाऽजीगणन् गजभयमभ्यर्णेऽभ्येत्य भूभुजे । फलादीन्यार्पयन् पौराः, प्रमोदो बलवान् खलु ॥ ६४४ ॥ ताडयन् सृणिर्दण्डेन, मध्येकुम्भस्थलं नृपः । मञ्चयोर्मञ्चयोरन्तः, स्थिरीचक्रे मतङ्गजम् ।। ६४५ ।। मञ्चानामुभयेषां चाऽग्रस्थाः प्रवरयोषितः । कर्पूरारात्रिकं चक्रुर्युगपञ्चक्रवर्तिनः ॥ ६४६ ॥ भूपतिः पार्श्वयोर्भ्राम्यज्ज्वलदारात्रिकस्तदा । बभारोभयपार्श्वस्थार्केन्दुमेरुगिरिश्रियम् || ६४७ ॥ १ नक्षत्रैः । २ हस्तपदैः । + श्रियः आ, सं २ ॥ ३ अगरुचूर्णैः ।
४ राजा ।
१० तेजसा इन्द्रः ।
९ व्याजतः । १२ अङ्कुशेन ।
30
२००
* मानभूदेव्या सं । ॥ ५ कोमलैः । + स्फटिका सं १ २ ॥ ६ खण्डयित्वा । ७ सर्वाङ्गेषु । ८ इन्द्रः । यत्नेन खं । मदोत्तालैः सं २, आ ११ भृष्टीहीन् । + जगतांपतिः आ ॥
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org