________________
चतुर्थः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । स्थालान्युत्क्षिप्य पूर्णानि, मौक्तिकैरक्षतैरिव । आपणाग्रे स्थितान् दृष्ट्याऽऽलिलिङ्गेत्र स वाणिजान् ॥६४८॥ मार्गासन्नेषु हर्येषु, द्वारस्थकुलयोषिताम् । मङ्गलानि प्रतीयेष, स्वसृणामिव पार्थिवः ॥ ६४९ ॥ दिदृशयाऽन्तिकीभूतान् , जनान् परिजनानिव । वेत्रिभ्योऽरक्षदुत्क्षिप्ताभयप्रदकरो नृपः ॥ ६५० ॥ अग्रभूमावुभयतो, बद्धाभ्यामतिबन्धुरम् । सिन्धुराभ्यां राज्यलक्ष्मीक्रीडाद्रिभ्यामिवोच्चकैः ॥ ६५१ ॥ द्वारेणोभयतः स्वर्णकुम्भाभ्यामतिशोभिना । स्रोतसेव रथाङ्गाभ्यां, विशालेन विराजितम् ।। ६५२ ॥ माकन्ददलपूर्णेन, तोरणेनाऽतिहारिणा । इन्द्रनीलमयग्रीवाभरणेनेव भूषितम् ॥ ६५३ ॥ कचिन्मुक्ताकणगणैः, क्वचित् कर्पूरपांशुभिः । क्वचिच्च चन्द्रमणिभिः, कृतस्वस्तिकमङ्गलम् ॥ ६५४ ।। कचिच्च चीनवासोभिर्दुकूलवसनैः क्वचित् । देवदूष्यैरपि क्वाऽपि, पताकामालभारिणम् ॥ ६५५ ।। कचित् कर्पूरपानीयैः, पुष्पद्रुतिरसैः क्वचित् । क्वचिद् गजमदाम्भोभिरजिर कृतसंचनम् ॥ ६५६ ।। विश्रान्तपूषाणमिव, सुवर्णकलसच्छलात् । सप्तभूमं भूमिपालः, पिन्यं प्रासादमासदत् ॥ ६५७ ॥ 10
[सप्तभिः कुलकम् ] तस्साऽङ्गणाग्रवलभीवेद्यां पादं निवेशयन् । उत्ततार द्विपाद् वेत्रिदत्तहस्तस्ततो नृपः ॥ ६५८ ॥ आचार्य इव सम्पूज्य. स्वाधिनायकदेवताः । ताः षोडश सहस्राणि, व्यसजजगतीपतिः ॥६५९ ।। तद्वद्वात्रिंशतं राजसहस्राणि चमूपतिम् । पुरोहितं गृहपति, वर्द्धकिं विससर्ज सः ॥ ६६० ॥ 'मेदांश्च स त्रिषष्टीनि, शतानि त्रीणि भूपतिः । स्वस्थानायाऽऽदिशद् दृष्ट्याऽऽलानायेव मतङ्गजान् ॥६६१॥15 श्रेष्ठिनोऽष्टादशश्रेणिप्रश्रेणीर्दुर्गपालकान् । व्यसृजत् सार्थवाहानप्युत्सवान्तेऽतिथीनिव ॥ ६६२ ॥ शक्रः शच्येव सहितः, स्त्रीरत्नेन सुभद्रया । द्वात्रिंशता सहस्रैश्च, रांशीनां राजजन्मनाम् ।। ६६३ ॥ तावतीभिर्जनपदाग्रणीकन्याभिरावृतः । प्रत्येकं द्वात्रिंशत्पात्रैस्तावद्भिर्नाटकैरपि ॥ ६६४ ॥ मणिरत्नशिलाश्रेणिविश्राणितगुत्सवम् । प्रासादं प्राविशद् भूपः, कैलासमिव यक्षराट् ॥ ६६५ ॥
[त्रिभिर्विशेषकम् ] 20 तत्र च प्रामुखः सिंहासने स्थित्वा क्षणं नृपः । कृत्वा च सङ्कथाः काश्चिद्, ययौ स्नाननिकेतनम् ॥६६६॥ सरसीव द्विपस्तत्र, कृत्वा स्नानं नरेश्वरः । समं परिजनैश्चक्रे, सुरसाहारभोजनम् ॥ ६६७ ॥ तैर्नाटकैनवरसैः, सङ्गीतैश्च मनोरमैः । निनाय कालं कमपि, योगर्योगीव भूपतिः ॥ ६६८ ॥
तं च विज्ञपयामासुभक्त्या सुरनस इति । सविद्याधरराजेयं, षट्खण्डाऽसाधि भूस्त्वया ॥ ६६९ ॥ असांस्तदनुमन्यस्ख, शंतमन्युपराक्रम ! । महाराज्याभिषेकं ते, स्वच्छन्दं कुर्महे यथा ॥ ६७० ॥
25 राज्ञा तथेत्यनुज्ञाताः, सुराः पुर्या बहिर्व्यधुः । सुधर्मायाः खण्डमिव, पूर्वोदग्दिशि मण्डपम् ॥ ६७१ ॥ हदेभ्यो इदिनीभ्यश्च, इदिनीनीथतोऽपि च । तीर्थेभ्यश्वाऽऽहरन्नीरमौषधीमत्तिकाश्च ते ॥ ६७२ ॥ गत्वा पौषधशालायां, राजाऽष्टमतपोऽग्रहीत् । राज्यं तपसाऽऽप्तमपि, तपसैव हि नन्दति ॥ ६७३ ॥ राजाऽष्टमे परिणमत्यन्तःपुरवृतो ययौ । वारणेन परीवारयुतस्तं दिव्यमण्डपम् ॥ ६७४ ॥ अन्तःपुरेण सह तैर्नाटकैश्च सहस्रशः । भरतः प्रविवेशाभिषेकमण्डपमुन्नतम् ॥ ६७५ ॥
30 स मृगेन्द्रासनं तत्र, स्नानपीठं मणीमयम् । चक्री प्रदक्षिणीचक्रे, मेरुशैलमिवार्यमा ॥ ६७६ ॥ पूर्वसोपानपद्धत्या, स्नानपीठं तदुच्चकैः । आरुरोह महीनाथः, शैलप्रस्थमिव द्विपः ।। ६७७ ॥
१ स्त्रीचकार । २ भगिनीनाम् । ३ गजाभ्याम् । ४ अङ्गणे । * षोडशसहस्रसङ्ख्या, व्यसृ° सं १, खं ॥ सूदानां स खं॥ ५ पाचकान् । राशीभी राजजन्मभिः आ, सं २ ॥ ६ कुबेरः। ईसर आ, सं १ ॥ विद्याधरराजसहिता। ८ इन्द्रः। ९ ईशानदिशि। १० नदीभ्यः। ११ समुद्रात् । १२ गजेन। Tण सहितैना' मा ||पमुखमम् सं १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org