________________
१०२
15
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व प्राचीपतेरिव प्रीत्या, प्राग्दिशोऽभिमुखस्ततः । रत्नसिंहासने तत्रोपाविशद् भरतेश्वरः॥ ६७८ ॥ "ते द्वात्रिंशत्सहस्राणि, भूपाः कतिपया इव । सुखमारुरुहुः पीठमुदक्सोपानवमना ॥ ६७९ ॥ चक्रिणो नातिदूरोया, तस्थुर्भद्रासनेषु ते । बद्धाञ्जलिपुटा देवमिव बन्दारवो नृपाः ॥ ६८० ॥
सेनापतिहपतिर्वर्द्धकिश्च पुरोहितः । श्रेष्ठयादयोऽप्यारुरुहुर्याम्यसोपानमालया ॥ ६८१ ॥ 5 आसनेषु समासीनाः, खो चेतेषु यथाक्रमम् । बद्धाञ्जलिपुटास्तस्थुर्विज्ञीप्सव इव प्रभुम् ॥ ६८२ ॥ __ततश्च नरदेवस्याऽऽदिदेवस्येव वासवाः । आभियोगिकदेवास्तेऽभिषेकाय डुढौकिरे ॥ ६८३ ॥ स्वाभाविकैबैंक्रियैश्च, पयोग:घनैरिव । वदनन्यस्तकमले, रैथाङ्गविहगैरिव ॥ ६८४ ॥ पतत्पानीयनादेन, तूर्यनादानुवादिभिः । ते रत्नकलसैश्चक्रुरभिषेकं महीपतेः ॥ ६८५ ॥ [ युग्मम् ]
तं द्वात्रिंशत् सहस्राणि, शुभेऽभिषिषिचुः क्षणे । नृपाः कुम्भैलठत्तोपैहर्षात् खनयनैरिव ।। ६८६ ।। 10 ते शिरस्यञ्जलीन् बद्धा, पद्मकोशसहोदरान् । चक्रिणं वर्द्धयामासुर्जय त्वं विजयस्व च ॥ ६८७ ॥
सेनापतिप्रभृतयोऽपरे श्रेष्ठ्यादयश्च तम् । अभ्यषिञ्चन् जलैवाक्यैश्चाऽस्तुवंस्तैरिवोज्वलैः ॥ ६८८ ॥ शुचिपक्ष्मलया गन्धकाषाय्या सुकुमारया । माणिक्यमिव तस्याऽङ्गममृजन्नथ ते भृशम् ॥ ६८९ ॥ गोशीर्षचन्दनरसे, राज्ञो विलिलिपुश्च ते । कान्तिपोषकरैरङ्गं, गैरिकैरिव काञ्चनम् ॥ ६९० ॥ शक्रप्रदत्तमृषभस्वामिनो मुकुटं ततः । मूर्ध्नि मूर्धाभिषिक्ताग्रेसरस्य निदधुः सुराः ॥ ६९१ ॥ ते पर्यधापयन् राज्ञा, कर्णयो रत्नकुण्डले । चित्रास्वाती इव मुखहिमांशोः पारिपार्श्वगे ॥ ६९२ ॥ तत्कण्ठे ते न्यधुहोरं, ग्रथितं शुचिमौक्तिकः । अलक्ष्यसूत्रैर्युगपन्मालारूपोदमैरिव ॥ ६९३॥ निवेशयाम्बभूवे चाऽर्द्धहारस्तैर्नृपोरसि । अलङ्करणराजस्य, हारस्य युवराडिव ॥ ६९४ ॥ अभ्रकान्तःपुटमये, इवाऽच्छच्छविशालिनी । वाससी देवदृष्ये ते, भूभुजा पर्यधापयन् ॥ ६९५ ॥
उद्दामं सुमनोदाम, नृपतेः कण्ठकन्दले । ते प्राक्षिपन्नुरोवेश्मच्छायावप्रमिव श्रियः ॥ ६९६ ॥ 20 कल्पद्रुम इवाऽनयंवस्त्रमाणिक्यभूषणः । भूपतिर्मण्डयामास, स्वःखण्डमिव मण्डपम् ॥ ६९७ ॥
आह्वाय्य वेत्रिपुरुषैः, स सर्वपुरुषाग्रण: । आयुक्तपुरुषानेवमादिदेश विशालधीः ॥ ६९८ ॥ भो! यूयं सिन्धुरस्कन्धमधिरुह्य समन्ततः । पर्यट्य च प्रतिपथं, विनीतां नगरीमिमाम् ॥ ६९९ ॥ अशुल्कामकरादण्डाकुदण्डामविशद्भटाम् । नित्यप्रमोदां कुरुत, वर्षद्वादशकावधिः ।। ७०० ॥ [युग्मम् ] तत् तथा तत्क्षणादेव, ते चक्रुरधिकारिणः । रत्नं पञ्चदशं ह्याज्ञा, चक्रिणः कार्यसिद्धिषु ॥ ७०१॥ ___ रत्नसिंहासनात् तसादुत्तस्थावथ पार्थिवः । प्रतिबिम्बानि तस्येवाऽन्येऽप्युत्तस्थुः सहैव हि ॥ ७०२ ॥ निजागमनमार्गेणोत्ततार भरतेश्वरः । तथाऽन्येऽप्युत्तरन्ति स्म, मानपीठाद् गिरेरिव ॥ ७०३ ॥ स्वप्रतापमिवाऽसह्यमारुह्य वरहस्तिनम् । महीपतिर्महोत्साहः, प्रासादमगमन्निजम् ॥ ७०४ ॥ तत्र स्नानगृहं गत्वा, तोयैः स्नात्वा च निर्मलैः । चकाराऽष्टमभक्तान्तपारणं धरणीधवः ॥ ७०५ ॥
अभिषेकोत्सवे वृत्ते, तस्मिन् द्वादशवार्षिके । स्नातः कृतवलिः प्रायश्चित्तकौतुकमङ्गली ॥ ७०६ ॥ 30 गत्वा च बहिरास्थानीमात्मरक्षकदेवताः । तान् षोडश सहस्राणि, सत्कृत्य व्यसृजन्नृपः ॥ ७०७॥ ततश्च प्रासादवरारूढो वैषयिकं सुखम् । भुञ्जानोऽस्थाद् विमानस्थ, इव शको महीपतिः ।। ७०८ ॥
चक्र छत्रमसिर्दण्डो, रत्नान्येतानि जज्ञिरे । एकेन्द्रियाणि चत्वारि, तस्याऽऽयुधनिकेतने ॥ ७०९ ॥ काकिणीचर्ममणयो, निधयो नव चाऽभवन् । श्रीगृहे श्रीमतस्तस्य, माणिक्यानीव रोहणे ॥ ७१०॥
इन्द्रस्य । द्वात्रिंशत्सहस्त्रसंख्या भू° सं॥ २ वन्दनशीलाः। ३ चक्रवाकपक्षिभिः। + राक्षां कु० सं॥ पारिपाश्चिके सं १, परिपार्श्वगे खं, आ, सं २॥ ४ अकरां अदण्डां अकुदण्डां इति पदत्रयस्थ समासः । पषोडशसहस्रसङ्ख्याः, ससं १, खं ॥ ५ आयुधशालायाम् । काकणी खंता, सं२॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org