________________
5
10
20
25
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
पातालद्वारनिर्गच्छन्नागराजानुहारकम् । इषुधेराचकर्षेषु, निजनामाङ्कितं नृपः ॥ ९८ ॥ सिंहकर्णिका मुष्ट्या, धृत्वा पुङ्खाग्रभागके । शिञ्जिन्यां निदधे वाणं, वज्रदण्डमरातिषु ।। ९९ ।। सौवर्णकर्णताडङ्कपद्मनालतुलास्पृशम् | आकर्णान्तं स आकर्षत् काञ्चनं तं शिलीमुखम् ॥ १०० ॥ प्रसरद्भिर्महीभर्त्तुर्नखरत्नमरीचिभिः । शुशुभे स महाबाणः, सोदरैरिव वेष्टितः ॥ १०१ ॥ आकृष्टकार्मुकान्तःस्थो, दीप्यमानः स सायकः । व्यात्तान्तकमुखप्रेङ्ख जिह्वालीलामुपाददे ।। १०२ ।। धनुर्मण्डलमध्यस्थः, स मध्यमजैगत्पतिः । शुशुभे परिवेषान्तर्भानुमानिव दारुणः ॥ १०३ ॥ चालयिष्यति किं स्थानान्निग्रहीष्यत्यथैष माम् ? । इतीव चुक्षोभ तदा, सर्वतो लवणाम्बुधिः ॥ १०४ ॥ अथर्वीशो बहिर्मध्ये, मुखे पुते च सर्वदा । नागासुरसुपर्णादिदेवताभिरधिष्ठितम् ॥ १०५ ॥ आज्ञाकरं दूतमिव, शिक्षाक्षरभयानकम् । अभि मागधतीर्थेशं, विससर्ज शिलीमुखम् ॥१०६॥ [ युग्मम् ] उद्दामपक्षसूत्कारवाचालितनभोङ्गणः । निर्ययौ तत्क्षणं वेगात् स पत्री पत्रिरोडिव ॥ १०७ ॥ विद्युद्दण्ड इवाऽम्भोदादुल्काग्निर्गगनादिव । स्फुलिङ्ग इव सप्तार्चेर्लेश्यार्चिरिव तापसात् ।। १०८ ।। शिंखीव सूर्योपलतो, वज्रं वज्रिभुजादिव । निष्पतन्नृपकोदण्डादशोभत स सायकः ॥ १०९ ॥ [सन्दानितकम् ]
योजनानि द्वादशाऽतिक्रम्य पत्री क्षणेन सः । सभायां मागधेशस्य, हृदि शल्यमिवाऽपतत् ॥ ११० ॥ अकाण्डकाण्डपातेन तेन मागधतीर्थराट् । उच्चैश्रुकोप दण्डाभिघट्टनेनेव पन्नगः ॥ १११ ॥ 151 वक्रीकुर्वन् भ्रुवोर्युग्मं, कोदण्डमिव दारुणम् । दधानश्चक्षुषी ताम्रे, दीप्ताग्निविशिखाविव ॥ ११२ ॥ भस्त्रापुटे इवोत्फुल्लीकुर्वाणो नासिकापुटे । स्फोरयन्नधरदलं, तक्षकाहेरिवाऽनुजम् ॥ ११३ ॥ ललाटे घटयन् लेखाः, केतूनिव नभस्तले । गृह्णन् दक्षिणहस्तेन, वार्त्तिकोऽहिमिवाऽऽयुधम् ॥ ११४ ॥ ताडयन्नासनं वामहस्तेनाऽरिकपोलवत् । वाचं विषार्चिः संधीचीमित्यूचे मागधाधिपः ॥ ११५ ॥ [ चतुर्भिः कलापकम् ] ऐरावणरदांश्छित्वा, कस्ताडङ्कान् चिकीर्षति ? । सौपर्णेयस्य कः पक्षैरवतंसान् विधित्सति ॥ ११६ ॥ कः पन्नगपतेमौलिमणिमालां जिघृक्षति ? । सहस्रदीधितेः को वा, हयानपि जिहीर्षति । ।। ११७ ॥ अप्रार्थित प्रार्थकः को, वीरमान्यविमृश्यकृत् ? । अस्माकमस्मिन् सदसि, प्रचिक्षेप शरं कुधीः १ ॥ ११८ ॥ सुपर्ण इव सर्पस्य, दर्पं तस्य हराम्यहम् । एवं ब्रुवाणो रभसादुत्तस्थौ मागधाधिपः ॥ ११९ ॥ बिलादिवोरगं कोशात्, खड्गदण्डं चकर्ष सः । कम्पयामास च व्योम्नि, धूमकेतु भ्रमप्रदम् ॥ १२० ॥ वार्धिवेलेव दुर्वारः, परिवारोऽपि तत्क्षणम् । युगपत् सकलोऽप्यस्य, सकोपाटोपमुत्थितः ॥ १२१ ॥ खङ्गैः केचिद् दिवं चक्रुः, कृष्णविद्युन्मयीमिव । वसुनन्दैश्च विशदैरनेकेन्दुमयीमिव ॥ १२२ ॥ नितान्तनिशितान् कुन्तान् खे केचिदुदलालयन् । कृतान्तदन्तशकलश्रेणीभिरिव निर्मितान् ॥ १२३ ॥ परशून् केचिदुज्जहुर्वह्निजिह्वासहोदरान् । खर्भानुभीमपर्यन्तान्, जगृहु: केऽपि मुद्गरान् ॥ १२४ ॥ वज्रको ट्युत्कटान्यन्ये, शूलान्याददिरे करे । अपरे दण्डभृद्दण्डचण्डान् दण्डानुदक्षिपन् ॥ १२५ ॥ चक्रुः केऽपि करास्फोटं, वैरिविस्फोटकारणम् | क्ष्वेडानादं व्यधुः केऽपि, मेघनादमिवोर्जितम् ॥ १२६ ॥ चिजहि जहीत्यूचुः केचिद् धर धरेति च । तिष्ठ तिष्ठेति केचिच्च, याहि याहीति केचन ।। १२७ ।। इत्यभूच्चित्रसंरम्भचेष्टो यावत् परिच्छदः । तस्य तावदमात्यस्तं, सम्यग् बाणं न्यरूपयत् ॥ १२८ ॥
"
30
८४
[ प्रथमं पर्व
१ धनुर्गुणे । २ प्रसारितयममुखचल जिह्वालीलाम् । ३ पृथ्वीपतिः । * चकाशे खंता ॥ ४ मण्डलान्तः स्थितः सूर्य इव । ५ गरुडः । ६ अभेः । + सूर्यकान्तादिव शिखी व खंता ॥ ७ अग्निः । ८ अकस्माद् बाणपातेन । ९ दण्डताडनेन । १० गारुडिकः । ११ विषज्वालातुल्याम् । १२ कर्णभूषणविशेषान् । १३ अविचार्यकारी | १४ दरात् । ५ युद्धसाधनविशेषैः । १६ राहुः । + न्यभालयत् संता ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org