________________
चतुर्थः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । तत्सैन्यगजराजानामयत्नालानतां ययुः । भागीरथीतीररुहो, देवदारुमहीरुहाः ॥ ६५ ॥ अश्वत्थसल्लकीकर्णिकारोदुम्बरपल्लवान् । लुलुवुः पशुभिर्हस्तिकृते हस्तिपकाः क्षणात् ॥ ६६ ॥ कुर्वाणास्तोरणानीवोनमितैः कर्णपल्लवैः । विरेजुर्वाजिनो बद्धाः, श्रेणीभूताः सहस्रशः ॥ ६७ ॥ मंकुष्ठ-मुद्ग-चणक-यवादीनि जवात् पुरः । बन्धूनामिव निदधुरश्वानामश्वपालकाः ॥ ६८॥ बभूवुः शिबिरे तत्र, चत्वराणि त्रिकाणि च । आपणानां श्रेणयश्च, विनीतायामिव क्षणात् ॥ ६९॥ 5 गुप्यद्गुरुस्थूलपटकुटीभिः पटचारुभिः । नाऽसरन् पूर्वसौधानां, सुस्थिताः सर्वसैनिकाः ॥ ७० ॥ शमीकर्कन्धुबब्बूलप्रायान् द्रून् लिलिहुर्मयाः । दिशन्त इव सैन्यानां, कार्य कण्टकशोधनम् ॥ ७१ ॥ स्वच्छन्दं जाह्नवीतीरतले सिकतिलेऽलुठन् । भृत्या इव स्वामिनोऽग्रे, वेसराश्चलकेसराः ॥ ७२ ॥ केचिदाजहुरेधांसि, सरिदम्भांसि केचन । दुर्वादिभारकान केचित् , केचिच्छाकफलादिकम् ॥ ७३ ॥ प्रचख्नुश्चल्लिकाः केचित् , तन्दुलान केऽप्यखण्डयन् । केचिदज्वालयन्नग्निमपचन् केचिदोदनम् ॥ ७४ ॥10 सस्नुः केऽप्येकतस्तत्र, खोकसीवोज्वलै लैः । स्नाता धृपैरधूपायन्, केऽप्यात्मानं सुगन्धिभिः ॥ ७५ ॥ केचिद् बुभुजिरे स्वैरं, पुरो भुञ्जानपत्तयः । सँह स्त्रीभिर्विलिलिपुः, केचिदङ्ग विलेपनैः ॥ ७६ ॥ नाऽमंस्त कटकायातं, कोऽप्यात्मानं मनागपि । लीलोपलभ्यसर्वार्थे, शिविरे चक्रवर्तिनः ॥ ७७॥
अहोरात्रे व्यतिक्रान्ते, तस्मिन् पुनरपि प्रैगे । चक्ररत्नं जगामैकं, योजनं चक्रवर्त्यपि ॥ ७८॥ एवं योजनमानेन, प्रयाणेन दिने दिने । गच्छंश्चक्रानुगश्चक्री, मागधं तीर्थमासदत् ॥ ७९ ॥ 15 नवयोजनविस्तारं, दैर्य द्वादशयोजनम् । पूर्वाब्धिरोधसि नृपः, स्कन्धावारं न्यवीविशत् ॥ ८॥ आवासान् सर्वसैन्यानां, तत्र व्यधित वर्द्धकिः । एकां पौषधशालां च, शालां धर्मेकदन्तिनः॥ ८१॥ राजा पौषधशालायामनुष्ठानविधित्सया । उत्ततार करिस्कन्धात् , पर्वतादिव केसरी ॥ ८२ ॥ तत्र संस्तारयामास, दर्भसंस्तारकं नवम् । राजा संयमसाम्राज्यलक्ष्मीसिंहासनोपमम् ॥ ८३ ॥ मागधतीर्थकुमार, देवं मनसि कृत्य च । प्रपेदेऽष्टमभक्तं सोऽर्थसिद्धेरिमादिमम् ॥ ८४ ॥ 20 स घौतांशुकभृत् त्यक्तनेपथ्यस्रग्विलेपनः । त्यक्तशस्त्रः पुण्यपोषौषधं पौषधमाददे ॥ ८५ ॥ दर्भसंस्तारके तस्मिन्, प्रतिजाग्रत् स पौषधम् । निष्क्रियो नृपतिस्तस्थौ, सिद्धः पद इवाऽव्यये ॥ ८६ ॥ अष्टमान्ते नृपः पूर्णपोषधः पौषधौकसः । शरदभ्रादिवाऽऽदित्यो, निर्ययावधिकद्युतिः ॥ ८७ ॥ राजा सर्वार्थनिष्णातः, स्नातो बलिविधिं व्यधात । यथाविधि विधिज्ञा हि, विस्मरन्ति विधिं न हि ॥८॥ उत्पताकध्वजस्तम्भ, प्रासादमिव जङ्गमम् । शस्त्रागारमिवाऽनेकशस्त्रश्रेणिविभूषितम् ॥ ८९ ॥ चतुर्दिग्विजयश्रीणामिवाऽऽह्वानार्थमुच्चकैः । टणत्कारकृतो घण्टाश्चतस्रश्चारुविभ्रतम् ॥ ९०॥ पवनैरिव जङ्घालैधीरैः पश्चाननैरिख । अश्वैः सनाथमध्यास्त, स रथं रथिनां वरः ॥९१ ॥
[त्रिभिर्विशेषकम् ] राज्ञो भावविशेषज्ञो, वासवस्येव मातलिः । नुनोद सारथी रथ्यान् , रश्मिचालनमात्रतः ॥९२ ॥ महाकरिगिरिस्तोमो, महाऽनोमकरोत्करः । विलोलहयकल्लोलश्चित्रशस्वाऽहिभीषणः ॥ ९३॥
30 उच्छलद्भूरजोवेलो, स्थनिर्घोषगर्जितः । द्वितीय इव पाथोधिः, पाथोधिं प्रत्यगान्नृपः ॥९४ ॥ [ युग्मम् ] संवर्द्धिताम्बुनिर्घोषस्त्रस्तनंक्रकुलारवैः । नाभिदन्नं रथेनाऽम्भोऽम्भोनिधेः सोऽभ्यगाहत ॥ ९५ ॥ न्यस्यैकं लस्तके हस्तं, द्वितीयं त्वंटनीतटे । सोऽधिज्यं विदधे धन्व, पञ्चमीन्दुविडम्बकम् ॥ ९६ ॥ पाणिना किश्चिदाकृष्य, धनुयां भरतेश्वरः । धनुर्वेदोङ्कारमिवोचैष्टङ्कारमकारयत् ॥ ९७ ॥
महामात्राः। २ धान्यकप विशेषाः। ३ वृक्षान् । ४ उष्ट्राः। ५ सिकतामये। *सनारीका वि.सं २, In प्रातःकाले। शिविरम् । मोक्षे। ९ अस्तमकरकुलशब्दैः। 20 नाभिप्रमाणम् । ११ धनुर्मभ्यभागे। १२ ज्यारोपणस्थाने ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org