________________
८२
कलिकाल सर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीनं
स गर्जनूर्जितं नागकुञ्जरस्तत्क्षणादभूत् । उद्दाममदधाराभिर्धाराधर इवाऽपरः ।। ३३ ॥ उत्क्षिप्य पाणीन् कुर्वाणैर्दिवं पल्लवितामिव । युगपद् बैन्दिनां वृन्दैश्चक्रे जयजयावः ॥ ३४ ॥ दुन्दुभिस्ताड्यमानोऽथ नदन्नुच्चैर्दिशोऽपि हि । नादयामास मुखरंगायनो गायनीवि ॥ ३५ ॥ दूतीभूतानि निःशेषसैनिकाह्वानकर्मणि । प्रणेदुर्वर्यतूर्याणि, मङ्गलान्यपराण्यपि ॥ ३६ ॥ 5 गजैः सिन्दूरभृत्कुम्भैः, सधातुभिरिवाऽद्रिभिः । अश्वैरनेकधाभूतरेवन्ताश्वभ्रमप्रदैः ॥ ३७ ॥ मनोरथैरिव निजैर्विशालैश्च महारथैः । पत्तिभिश्च महौजोभिः, सिंहैरिव वशंवदैः ॥ ३८ ॥ प्रचचाल महीपालः, पूर्वं पूर्वां दिशं प्रति । संव्यानमिव तन्वानः, सैन्योत्थैः पांशुभिर्दिशाम् ॥ ३९ ॥ [ त्रिभिर्विशेषकम् ] तत्सैन्याग्रेसरं यक्षसहस्राधिष्ठितं ततः । चरत्नमभूद् विम्बं भानोखि नभश्वरम् ॥ ४० ॥ दण्डरंनधरो वाजिरंनमारुह्य तत्परः । नाम्ना सुषेणः सेनानीरत्नं चक्रमिवाऽचलत् ॥ ४१ ॥ निःशेषशान्तिकविधौ, शान्तिमन्त्र इवाऽङ्गवान् । पुरोघोरत्नमचलत्, समं वसुमतीभुजा ॥ ४२ ॥ सैन्ये प्रत्याश्रयं दिव्यभोजनापादनक्षमम् । अचालीद् गृहिरनं च, संत्रशालेव जङ्गमा ॥ ४३ ॥ स्कन्धावारादि निर्मातुं, विश्वकर्मेव सत्वरम् । अलं वर्धकिरत्नं च चचाल सह भूभुजा ॥ ४४ ॥ चचाल चर्मरत्नं च च्छ्रत्ररत्नमिवाऽद्भुतम् । चक्रिणः सकलस्कन्धावारविस्तारशक्तिमत् ।। ४५ ।। रत्ने च णि- काकिण्यौ, ध्वान्तविध्वंसनक्षमे । सह प्रवेलतुर्भाभिः सूर्याचन्द्रमसाविव ॥ ४६ ॥ ययौ सह नरेन्द्रेण, खरत्नं च भासुरम् । सुरासुरवरास्त्राणामिव सारैर्विनिर्मितम् ॥ ४७ ॥
ततश्च सचमूचक्रश्चक्रभृद् भरतेश्वरः । प्रतीहारानुग इवागमच्चानुगः पथि ॥ ४८ ॥ पवनेनाऽनुकूलेनाऽनुकूलैः शकुनैरपि । सर्वतो दिग्जयस्तस्याशंसि ज्योतिषिकैरिव ॥ ४९ ॥ विषमं सुषमीच, सैन्यस्य पुरतो व्रजन् । सेनानीर्दण्डरलेन, मतेनेव कृषिः क्षितिम् ।। ५० ।। रुरुचे पृतनोद्भूतरजोभिः कृतदुर्दिनम् । रथद्विपपताकाभिर्बलाकाभिरिवाऽम्बरम् ॥ ५१ ॥ अदृश्यमानपर्यन्ता, सा चमूचक्रवर्त्तिनः । गङ्गाऽलक्षि द्वितीयेव, सर्वत्राऽप्यस्खलद्गतिः ॥ ५२ ॥ चीत्कृतैः स्यन्दना वाहा, हेषितैर्गर्जितैर्गजाः । अतत्वरनिवाऽन्योऽन्यं, दिग्जयोत्सव कर्मणे ॥ ५३ ॥ अद्युतन् सादिनां कुन्ताश्चमृत्खाते रजस्यपि । हसन्त इव तच्छन्नान् दीधितीनुष्णदीधितेः ॥ ५४ ॥ आबद्धमुकुटै रेजे, राजभी राजकुञ्जरः । भक्तिमद्भिर्वृतो गच्छन् शक्रः सामानिकैरिव ।। ५५ ।। 25 गत्वा योजनपर्यन्ते तच्च चक्रमवास्थित । जज्ञे योजनमानं च तत्प्रयाणानुमानतः ॥ ५६ ॥
10
15
20
30
ततो योजनमानेन, प्रयाणेन व्रजन् नृपः । गङ्गाया दक्षिणं कूलं, प्रापत् कतिपयैर्दिनैः ॥ ५७ ॥
नृपोऽपि विपुलां गङ्गापुलिनोवीं निरन्तरैः । विविधैः सङ्कटीकुर्वन्नावासैर्विश्रमं व्यधात् ॥ ५८ ॥ क्षरत्करिमदाम्भोभिः, पङ्किला कूलमेदिनी । तदा मन्दाकिनीनद्याः प्रावृट्काल इवाऽभवत् ।। ५९ । जाह्नवीस्रोतसि स्वच्छे, स्वच्छन्दं जगृहुस्ततः । वारीणि वीरणवरा, वारिधौ वारिदा इव ॥ ६० ॥ अतिपारिप्लवत्वेनोत्प्लवमाना मुहुर्मुहुः । तत्र सख्नुस्तुरङ्गाच, तरङ्गभ्रमदायिनः ॥ ६१ ॥ सम्प्रविष्टैः श्रमादन्तर्गजाश्वमहिषोक्षभिः । जातनूतनैनक्रेव, चक्रे विष्वक् सरिद्वरा । ६२ ॥ अनुकूलयितुं कूलस्थितं नृपमिवाऽञ्जसा । श्रमं गङ्गाऽहरच्चम्वास्तरङ्गोद्भूतसीकरैः ॥ ६३ ॥ महीभुजः सेव्यमाना, महत्या सेनया तया । कृशीबभूव गङ्गाऽपि सद्यः कीर्तिरित्र द्विषाम् ॥ ६४ ॥
[ प्रथमं पर्व
*
जायकु सं ॥
१ मेवः । + कुर्वाणान् दिवं खंता ॥ बन्दिवृन्देन च खंता सं २ ॥ २ मुख्यगायकः । १ सूर्याश्वः । ४ महापराक्रमैः । ५ वस्त्रम् । तत्पुरः सं १ खं ॥ ६ दानशाला । ७ देव शिल्पी । ८ सूर्यस्य । ९ तटमेदिनी । १० उत्तमगजाः | १| 'जबारा सं १ ॥ ११ अतिवेगेन । + 'नचक्रेव, खंता ॥ १२ मत्स्यविशेषाः । || तदा कतिपयैर्दिनैः सं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org