________________
८१
चतुर्थः सर्गः।
त्रिषष्टिशलाकापुरुपचरितम ।
चतुर्थः सर्गः। इतश्च भरतश्चक्री, विनीतामध्यवर्त्मना । प्रययावायुधागारं, चक्रस्योत्कोऽतिथेरिव ॥१॥ तदालोकनमात्रेऽपि, प्रणनाम महीपतिः । मन्यन्ते क्षत्रिया शस्त्रं, प्रत्यक्षमधिदैवतम् ॥ २॥ रोमहस्तकमादाय, भरतस्तदमार्जयत् । भक्तानां प्रक्रिया ह्येषा, न रत्ने तादृशे रजः ॥३॥ स्नपयामास तत् तोयैः, पावनैरवनीपतिः । उदयन्तमिव प्राच्यसरित्पतिरहप॑तिम् ॥४॥ स्थासंकान् स्थापयामास, तत्र पूज्यत्वशंसिनः । पृष्ठे धुर्यगजस्थेव, राजा गोशीर्षचन्दनैः ॥ ५॥ पुष्पर्गन्धैश्चूर्णवासैर्वासोभिर्भूपणैरपि । नृपस्तत् पूजयामास, साक्षादिव जयश्रियम् ॥६॥ तस्याऽग्रे तन्दुलै रौप्यरालिखत् सोऽष्टमङ्गलीम् । पृथक पृथग् मङ्गलायेवैष्यदष्टककुश्रियाम् ॥ ७ ॥ पञ्चवर्णश्च कुसुमैरुपहारं तदग्रतः । विचित्रचित्रामवनी, कुर्वाणमकरोन्नृपः ॥८॥ दिव्यचन्दनकर्पूरप्रायं धूपमथोत्तमम् । नृपः प्रयत्नाचक्राग्रे, द्विपद्यश इवाऽदहत् ॥९॥
10 त्रिश्च प्रदक्षिणीचक्रे, चक्रं चक्रधरस्ततः । पदान्यपागात् सप्ताष्टान्यवग्रहाद् गुरोरिव ॥१०॥ वामं जानु समाकुन्य, दक्षिणं न्यस्य च क्षितौ । राजा चक्रं नमश्चक्रे, तमिव प्रणयी जनः ॥११॥ तत्रैव च कृतावासश्चक्रस्याऽष्टाहिकोत्सवम् । चकार साकार इव, प्रमोदो मेदिनीपतिः ॥ १२॥ चक्रपूजोत्सवश्चक्रे, पौरैरपि महर्द्धिभिः । पूजितैः पूज्यमानो हि, केन केन न पूज्यते ? ॥ १३ ॥ __ तस्योपयोगमादित्सुश्चक्ररत्नस्य दिग्जयम् । स्नानागारं ययौ राजा, मङ्गलस्नानहेतवे ॥ १४॥ 15 विमुक्ताभरणश्रेणिः, शुभस्मानीयवस्त्रभृत् । न्यषदत् प्रामुखस्तत्र, स्नानसिंहासने नृपः ॥ १५॥ सुरद्रुपुष्पनिर्यासमयैरिव सुगन्धिभिः । सहस्रपाकप्रमुखैस्तैलैरभ्याजि भूपतिः ॥ १६ ॥ संवाहनाभिर्मासा-अस्थि-त्वग्-रोमसुखहेतुभिः । चतुर्विधाभित्रिविधैर्मृदुमध्यदृद्वैः करैः ॥ १७ ॥ मर्दनीयामर्दनीयस्थानविज्ञाः कलाविदः । नृपं संवाहयामासुः, संवाहकनरास्ततः ॥ १८ ॥ आदर्शमिव भूपालमम्लानश्रुतिभाजनम् । सूक्ष्मेण दिव्यचूर्णेनोद्वर्त्तयामासुराशु ते ॥१९॥ काश्चित् करोद्धृतस्वर्णपयस्कुम्भा वरस्त्रियः । उन्नालनव्यनलिना, इव लावण्यवापयः ॥२०॥ स्त्यानीभूय पयांसीव, गतान्याधारतामपाम् । राजतानम्बुकलसान् , बिभ्रत्यः काश्चिदङ्गनाः ॥२१॥ लीलानीलोत्पलभ्रान्तिदायिनश्वारुपाणिषु । इन्द्रनीलपयस्कुम्भान्, दधानाः काश्चन स्त्रियः ॥२२ ।। नखरत्नप्रभाजालवर्द्धमानाधिकश्रियः । दिव्यरत्नमयान् कुम्भान् , बिभ्रत्यः सुभ्रुवोऽपराः ॥ २३ ॥ सुगन्धिभिः पवित्राम्बुधाराभिर्धरणीधवम् । क्रमेण स्नपयामासुर्जिनेन्द्रमिव देवताः ॥ २४ ॥ 25 कृतस्नानोऽथ भूपालः, कृतदिव्यविलेपनः । वासोभिः शोभितः शुभैः, ककुब्भासैरिवाभितः ॥२५॥ ललाटपट्टे मङ्गल्यं, चान्दनं तिलकं दधत् । यशोद्रुमस्याऽभिनवं, प्ररोहन्तमिवाऽङ्कुरम् ॥ २६ ॥ मुक्तामयानलङ्कारान् , स्वयशःपुञ्जनिर्मलान् । तारकाप्रकरांस्तारांस्तारापथ इवोद्वहन् ॥ २७ ॥ चञ्चन्मरीचिनिचयत्रीडितोष्णमरीचिना । प्रासादः कलसेनेव, किरीटेन विभूषितः ॥२८॥ मुहुरुत्क्षिप्यमाणाभ्यां, वारनारीकराम्बुजैः । कर्णोत्तंसायमानाभ्यां, चामराभ्यां विराजितः ॥ २९ ॥ 30 वर्णकुम्भभृता श्वेतातपत्रेणोपशोभितः । श्रीसमपद्मभृत्पद्महदेन हिमवानिव ॥ ३० ॥ सर्वदा सन्निधानस्थैः, प्रतीहारैरिवाऽभितः । भक्तैः षोडशभिर्यक्षसहस्रैः परिवारितः ॥ ३१ ॥ उत्तुङ्गकुम्भशिखरस्थगितैकदिगाननम् । आरोहद् वासव इवैरावणं रत्नकुञ्जरम् ॥ ३२ ॥
PAN
१ उत्कण्ठितः । २ प्रमार्जनसाधनविशेषम् । ३ प्रक्रमः रीतिर्वा । पूर्वसमुद्रः। ५ "थापा" इति भाषायाम् । राजानम् ।
त्रिषष्टि. ११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org