Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 112
________________ चतुर्थः मर्गः ] त्रिषष्टिशलाकापुरुषचरितम । ९१ आकर्ष्याघातनिर्घोषं, याम्यद्वारकपाटयोः । भीताविवोजघटाते, तत्कपाटौ स्वयं क्षणात् ॥ ३२६ ॥ तदा विघटमानौ तौ, सरत्सरितिशब्दतः । सरणप्रेरणमिव, चक्रिसैन्यस्य चक्रतुः ॥ ३२७॥ गुहायाः पार्थभित्तिभ्यां, तथा संश्लिष्य संस्थितो । अलक्ष्येतां यथा तत्राऽभूतपूर्वाविवाररी ॥ ३२८ ॥ __ अथ प्रथमतश्चक्रं, पुरोगं चक्रवर्तिनः । निर्जगाम गुहामध्यादभ्रमध्यादिवायेमा ॥ ३२९ ॥ महीयसा महीनाथो, गुहाद्वारेण तेन च । बलीन्द्र इव पातालविवरण विनिर्ययौ ॥ ३३०॥ तस्या गुहाया निःशङ्कलीलागमनशालिनः । निर्ययुर्दन्तिनो विन्ध्यसानुमद्गह्वरादिव ॥ ३३१॥ गुहातो वल्गु वल्गन्तो, निर्गच्छन्ति म वाजिनः । अम्भोधिमध्यनिर्गच्छदर्कवाजिविडम्बिनः ॥ ३३२ ॥ वैताख्यकन्दरादाढ्यकुंटीगर्भादिवाऽक्षताः । नादयन्तः खनादैयाँ, निरीयुः स्यन्दना अपि ॥ ३३३ ॥ पत्तयोऽपि विनिष्पेतुर्महौजस्का गुहामुखात् । सद्यः स्फुटितवल्मीकवदनादिव पन्नगाः ॥ ३३४ ॥ पञ्चाशद्योजनायामां, तामतिक्रम्य कन्दराम् । उदरभरतवर्षाद्ध, विजेतुं प्राविशन्नृपः ॥ ३३५ ॥ 10 किरातास्तत्र निवसन्त्यापाता नाम दुर्मदाः । आढ्या महौजसो दीप्ता, भूमिष्ठा इव दानवाः ॥३३६॥ तेऽविच्छिन्नमहाहHशयनासनवाहनाः । अनल्पस्वर्णरजताः, कुबेरस्येव गोत्रिणः ॥ ३३७ ॥ बहुजीवधनास्ते च, बहुदासपरिच्छदाः । अजाताभिभवाः प्रायः, सुरोद्यानद्रुमा इव ॥ ३३८ । अनेकसम्परायेषु, नियूंढबलशक्तयः । महाशकटभारेषु, महोक्षा इव ते सदा ॥ ३३९ ॥ प्रसह्य भरताधीशे, कृतान्त इव सर्पति । अनिष्टशंसिनस्तेषामुत्पाता अभवन्निति ॥ ३४० ॥ 15 चलद्भरतसैन्यप्राग्भारभारैरिवाऽर्दिता । प्रकम्पितगृहोद्याना, प्रचकम्पे वसुन्धरा ॥ ३४१ ॥ दिगन्तव्यापिभिः प्रौढैः, प्रतापरिव चक्रिणः । अजायन्त दिशां दाहा, दावानलसहोदराः ॥ ३४२ ॥ क्षरता रजसाऽत्यन्तमनालोकनभाजनम् । बभूवुः ककुभः सर्वाः, पुष्पवत्य इव स्त्रियः ।। ३४३ ॥ दुःश्रवक्रूरनिर्घोषा, आस्फलन्तः परस्परम् । पयोनिधाविव ग्राहा, दुर्वाता विजजृम्भिरे ॥ ३४४॥ निसेतुर्गगनादुल्का, उल्मकानीव सर्वतः । समस्तम्लेच्छव्याघ्राणां, प्रक्षोभस्य निबन्धनम् ॥ ३४५ ॥ अभवन् वज्रनिर्घाता, महानिर्घोषभीषणाः । क्रुद्धोत्थितकृतान्तस्य, हस्तधाता इव क्षितौ ॥ ३४६ ॥ स्थाने स्थाने काकचिल्लमण्डलानि नभस्तले । भ्रमुः समुपसर्पन्त्याछत्राणीवाऽन्तकश्रियः ॥ ३४७ ॥ अथ सौवर्णसन्नाहपरशुप्रासरश्मिभिः । सहस्ररश्मि कुर्वाणं, कोटिरश्मिमिवाऽम्बरे ॥ ३४८ ॥ दन्तुराम्बरमुद्दण्डैदण्डकोदण्डमुद्गरैः । ध्वजस्थव्याघ्रसिंहाहित्रस्ताम्बरचरीगणम् ॥ ३४९॥ महाद्विपघटामेघान्धकारितदिगाननम् । यमाननपरिस्पर्द्धिरथाग्रमकराननम् ॥ ३५० ॥ खुरापातैस्तुरङ्गाणां, पाटयन्तमिव क्षितिम् । जयतूर्यरवेरैः, स्फोटयन्तमिवाऽम्बरम् ॥ ३५१ ॥ भौमेनाऽग्रेसरेणाऽर्कमिव चक्रेण भीषणम् । आयान्तं भरतं दृष्ट्वा, किराताश्चुकुपुस्तराम् ॥ [पञ्चभिः कुलकम् ] मिथः सम्भूय ते क्रूरग्रहमैत्रीविडम्बिनः । अवनी संजिहीर्षन्त, इव सक्रोधमभ्यधुः ॥ ३५३ ॥ अप्रार्थितप्रार्थयिता, कोऽयं बाल इवाऽल्पधीः । पृथग्जन इव श्रीहीधृतिकीर्तिविवर्जितः ॥ ३५४ ॥ परिक्षीणपुण्यचतुर्दशीको हीनलक्षणः । अस्मद्विषयमायाति, मृग. सिंहगुहामिव ? ॥ ३५५ ॥ 30 तदेनमुद्धताकारं, प्रसरन्तमपि क्षणात् । महावाता इवाऽम्भोदं, प्रक्षिपामो दिशोदिशि ॥ ३५६ ॥ इत्युच्चैर्विब्रुवाणास्ते, सम्भूय भरतं प्रति । उदतिष्ठन्त युद्धाय, प्रत्यब्दं शरभा इव ॥ ३५७॥ अभेद्यान् कूर्मपृष्ठास्थिशकलेरिव निर्मितान् । सन्नाहान् धारयामासुः, किरातपतयोऽथ ते ॥ ३५८ ॥ दिशन्ति मूर्धामुत्केशनिशाचरशिरःश्रियम् । ऋक्षादिकेशच्छन्नानि, शिरस्त्राणानि ते दधुः ॥ ३५९ ॥ १ कपाटौ। २ धनाढ्यगृहगर्भाद् इव । ३ क्षतरहिताः। ४ भूमि स्थिताः । ५ अनेकयुद्धेषु । ६ रजस्वलाः। ७ मत्स्यविशेषाः । ८ खेचरीगणम् । ५ मालग्रहेण । १० रविमङ्गलशनिराहुकेतुरूपाः। 11 अष्टापदाः। १२ भालूकादि। 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254