________________
७४
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व अनन्तैर्दर्शनज्ञानवीर्यानन्दैर्जगत्पते! । रत्नै रत्नाकर इव, त्वमिहैको विराजसे ॥ ४७९ ॥ देवेह भरतक्षेत्रे, चिरं नष्टस्य सर्वथा । धर्मस्याऽसि प्ररोहाय, वीजमेकं तरोरिव ॥ ४८० ॥ अनुत्तरसुराणां त्वं, तत्रस्थानामिह स्थितः । वेत्सि छिनत्सि सन्देहं, न माहात्म्यावधिस्तव ॥४८१॥ फलं त्वद्भक्तिलेशस्य, निवासः स्वर्गभूमिषु । यत् सुराणां समग्राणां, महर्द्धिद्युतिभास्वताम् ॥ ४८२ ॥ देव ! त्वद्भक्तिहीनानां, तपांस्यतिमहान्त्यपि । अबोद्धणामिव ग्रन्थाभ्यासः क्लेशाय केवलम् ॥ ४८३ ॥ यस्त्वां स्तवीति यो द्वेष्टि, समस्त्वमुभयोस्तयोः । शुभाशुभं फलं किन्तु, भिन्नं चित्रीयते हि नः ॥४८४॥ द्युश्रियाऽपि न तोषो मे, नाथ! नाथाम्यदस्ततः । भगवन् ! भूयसी भूयात् , त्वयि भक्तिर्ममाऽक्षया ।।४८५॥ इत्यभिष्टुत्य नत्वा च, निषसाद कृताञ्जलिः । नारीनरनरदेवदेवानामग्रतो हरिः ॥ ४८६ ॥
इतोऽपि च विनीतायां, विनीतो भरतेश्वरः । आजगाम नमस्कर्तु, मरुदेवां दिवामुखे ॥४८७॥ 10 तनूजविरहोद्भूतैरश्रान्तैरवारिभिः । जातनीलिकया लुप्तलोचनाब्जां पितामहीम् ॥ ४८८ ॥
ज्येष्ठः पौत्रो नमत्येष, देवि! त्वत्पादपङ्कजे । स्वयं विज्ञपयन्नेवं, भरतः प्रणनाम ताम् ॥४८९॥ [युग्मम्] स्वामिनी मरुदेवापि, भरतायाऽऽशिषं ददौ । हृद्यमान्तीं शुचमिव, गिरमित्युजगार च ।। ४९० ॥ मां त्वां महीं प्रजां लक्ष्मी, विहाय तृणवत् तदा । एकाकी गतवान् वत्सो, दुर्मरा मरुदेव्यहो! ॥४९१॥
सूनोश्चन्द्रातपच्छायमातपत्रं क मूर्द्धनि ? । सर्वाङ्गसन्तापकरः, क्वेदानीं तपनातपः ? ॥ ४९२ ॥ 15 सलीलगतिभिर्यानैर्यानं हस्त्यादिभिः क तत् ? | वत्सस्य पादचारित्वं, क्वेदानी पथिकोचितम् ? ॥४९३॥
क तद् वारवधूत्क्षिप्तचारुचामरवीजनम् ? । मत्सूनोः क्वाऽधुना दंशमशकाद्यैरुपद्रवः ? ॥ ४९४ ॥ व तद् देवसमानीतदिव्याहारोपजीवनम् ? । क भिक्षाभोजनं तस्याऽभोजनं वाऽपि सम्प्रति ? ॥ ४९५ ॥ रत्नसिंहासनोत्सङ्गे, महर्द्धः क्व तदासनम् ? । मत्सूनोः खगिन इव, व निरासनताऽधुना ? ॥ ४९६ ॥
आरक्षरात्मरक्षश्च, रक्षिते व पुरे स्थितिः ? । सूनोः क्व वासः सिंहाहिदुःश्वापदपदे बने ? ॥ ४९७ ॥ 20 क तद् दिव्याङ्गनागीतं, कर्णामृतरसायनम् ? । सूनोः कोन्मत्तफेरुण्डफेत्काराः कर्णसूचयः ॥ ४९८ ॥
अहो ! कष्टमहो ! कष्टं, यन्मे सूनुस्तपात्यये । पद्मखण्ड इव मृदुः, सहते वारिविद्रवम् ॥ ४९९ ॥ हिमत्तौं हिमसम्पातसंक्लेशविवशां दशाम् । अरण्ये मालतीस्तम्ब, इव याति निरन्तरम् ॥ ५०० ॥ उष्ण वुष्णकिरणकिरणैरतिदारुणैः । सन्तापं चाऽनुभवति, स्तम्बेरम इवाऽधिकम् ॥ ५०१ ॥
तदेवं सर्वकालेषु, वनेवासी निराश्रयः । पृथग्जन इवैकाकी, वत्सो मे दुःखभाजनम् ॥ ५०२ ॥ 25 तत्तदुःखाकुलं वत्सं, पश्यन्त्यग्रे दृशोरिव । वदन्ती नित्यमप्येवं, हा ! त्वामपि दुनोम्यहम् ॥५०३॥
इति दुःखाकुलां देवीं, मरुदेवीमुदञ्जलिः । वाचाऽवोचन्नवसुधासधीच्या वसुधाधवः ॥ ५०४ ॥ स्थैर्याद्रेर्वज्रसारस्य, महासत्त्वशिरोमणेः । तातस्य जननी भूत्वा, किमेवं देवि ! ताम्यसि ? ॥ ५०५ ॥ तातस्तरीतुं सहसा, संसाराम्भोधिमुद्यतः । कण्ठबद्धशिलाप्रायान, स्थाने तत्याज नः प्रभुः॥५०६॥
वने विहरतो भर्तः, प्रभावाच्छापदा अपि । नोपदवं कर्तमलं. पाषाणघटिता इव ॥ ५०७॥ 30 क्षुत्पिपासातपप्राया, दुःसहा ये परीषहाः । सहायाः खलु तातस्य, ते कर्मद्वेषिसूदने ॥ ५०८ ॥ न चेत् प्रत्येषि मद्वाचा, प्रत्येष्यसि तथाऽपि हि । तातस्य न चिराजातकेवलोत्सववार्त्तया ॥ ५०९ ॥
अत्रान्तरे महीभर्तुओपितौ वेत्रपाणिना । नाम्ना यमक-शमको, पुरुषावभ्युपेयतुः ॥ ५१० ॥ प्रणम्य यमकस्तत्र, भरतेशं व्यजिज्ञपत् । दिष्ट्याऽद्य वर्धसे देवाऽनया कल्याणवार्तया ॥ ५११ ॥
पुरे पुरिमतालाख्ये, कानने शकटानने । युगादिनाथपादानामुदपद्यत केवलम् ॥ ५१२ ॥ 35 प्रणम्य शमकोऽप्युच्चैःवरमेवं व्यजिज्ञपत् । इदानीमायुधागारे, चक्ररत्नमजायत ॥ ५१३ ॥
अधुजलैः। २ नेत्ररोगविशेषः । ३ गण्डकाख्यपशोः। ४ जलोपद्रवम्। ५ ग्रीष्मत्तौं । ६ अस्मान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org