________________
७३
तृतीयः सर्गः]
त्रिपष्टिशलाकापुरुपचरितम् । तस्यैव दक्षिणद्वारपार्श्वयोर्द्वारपालको । प्रतिबिम्बे इवाऽन्योऽन्यस्याऽस्थानां व्यन्तरौ सितौ ॥ ४४५ ॥ अभितः पश्चिमद्वार, ज्योतिष्को द्वारपालकौ । रक्तवर्णी वितष्ठाते, सायमिन्दुरखी इव ।। ४४६ ।। तस्थतुश्च प्रतीहारावुत्तरद्वारपार्श्वयोः । भवनाधिपती कृष्णो, मेघाविव समुन्नतो ॥ ४४७ ॥ द्वितीयवप्रद्वारेषु, प्राक्क्रमेण चतुर्वपि । सर्वा अप्यभयपाशाङ्कुशमुद्गरपाणयः ॥ ४४८ ।। देव्यो जया च विजया, चाऽजिता चाऽपराजिता । तस्थुश्चन्द्राश्मशोणाश्मस्वर्णनीलत्विषः क्रमात् ॥ 5 अन्त्यवप्रे प्रतिद्वारं, तस्थौ द्वास्थस्तु तुम्बुरुः । खट्वाङ्गी नृशिरःस्रग्वी, जटामुकुटमण्डितः ॥ ४५० ॥ मध्ये समवसरणं, चैत्यद्रुच्यन्तरेः कृतः। कोशत्रयोदयो रत्नत्रयोदयमिवोद्दिशन ॥४५१॥ तस्याऽधो विविधै रत्नैः, पीठं विदधिरे च ते । तस्योपरि च्छन्दकं चाऽप्रतिच्छन्दमणीमयम् ॥ ४५२ ॥ तन्मध्ये पूर्वदिग्भागे, रत्नसिंहासनं ततः । सपादपीठं ते चक्रुः, सारं सर्वश्रियामिव ॥ ४५३ ॥ तस्योपरि विचके च, तैश्छत्रत्रयमुज्ज्वलम् । स्वामिनस्त्रिजगत्स्वाम्यचिह्नत्रयमिवोच्चकैः ॥ ४५४॥ 10 यक्षाभ्यां तत्र दधाते, पार्श्वयोश्चामरौ शुची । हृद्यमान्तौ बहिर्भूतौ, स्वामिभक्तिभराविव ॥ ४५५ ॥ ततः समवसरणद्वारे हेमाम्बुजस्थितम् । अत्यद्भुतप्रभाचक्र, धर्मचक्र विचक्रिरे ॥ ४५६ ॥ तत्राऽन्यदपि यत् कृत्यं, तत् सर्व व्यन्तरा व्यधुः । साधारणे हि समवसरणे तेऽधिकारिणः ॥ ४५७॥
चतुर्विधानां देवानामथ कोटीभिरावृतः । भगवान् समवसत्तुं, प्रचचाल दिवामुखे ॥ ४५८ ॥ सहस्रपत्राण्यम्जानि, सौवर्णानि तदा नव । विदधुर्निदधुश्चाऽग्रे, क्रमेण स्वामिनः सुराः ॥४५९ ॥ 15, विदधे तेषु च स्वामी, पादन्यासं द्वयोर्द्वयोः । पुरः सञ्चारयामासुराशु शेषाणि नाकिनः ।। ४६० ॥ पूर्वद्वारेण समवसरणं प्राविशत् ततः । चक्रे च चैत्यवृक्षस्य, जगन्नाथः प्रदक्षिणाम् ॥ ४६१ ॥ तीर्थं नत्वा प्रामुखोऽथ, जगन्मोहतमश्छिदे । स्वामी सिंहासनं भेजे, पूर्वाचलमिवार्यमा ॥ ४६२॥ रत्नसिंहासनस्थानि, दिक्ष्वन्याखपि तत्क्षणम् । भगवत्प्रतिबिम्बानि, व्यन्तरास्त्रीणि चक्रिरे ॥ ४६३ ॥ देवाः प्रभोः सदृग्रूपमङ्गुष्ठस्याऽपि न क्षमाः । कर्तुं ताशि तान्यासन् , पुनः स्वामिप्रभावतः॥४६४ ॥ 20 आविर्बभूवाऽनुशिरस्तदा भामण्डलं विभोः । खद्योतपोतवद् यस्य, पुरो मार्तण्डमण्डलम् ॥ ४६५ ॥ प्रतिध्वानैश्चतस्रोऽपि, दिशो मुखरयन् भृशम् । अम्भोद इव गम्भीरो, दिवि दध्वान दुन्दुभिः ॥ ४६६ ।। भगवानेक एवाऽयं, स्वामीत्यूर्वीकृतो भुजः । धर्मेणेव प्रभोरग्रे, रेजे रत्नमयध्वजः ॥ ४६७ ॥
प्रविश्य पूर्वद्वारेण, कृत्वा च त्रिः प्रदक्षिणाम् । तीर्थनाथं च तीर्थ च, नत्वा प्राकार आदिमे ॥४६॥ स्थानं विहाय साधूनां, साध्वीनां च तदन्तरे। पूर्वदक्षिणदिश्यास्तस्थुर्वैमानिकस्त्रियः॥४६९॥ [ युग्मम् ] 25 प्रविश्याऽपाच्यद्वारेण, विधिना तेन नैर्ऋते । क्रमेणाऽस्थुवनेशज्योतिष्कव्यन्तरस्त्रियः ॥ ४७०॥ प्रविश्य प्रत्यग्द्वारात् प्राग, विधिपूर्व मरुद्दिशि । अतिष्ठन् भवनपतिज्योतिष्कव्यन्तराः सुराः ।। ४७१ ॥ प्रविश्योदीच्यद्वारेण, तेनैव विधिना क्रमात् । ऐशान्यां कल्पदेवाश्च, नरा नार्योऽवतस्थिरे ॥ ४७२ ॥ तत्राऽऽदावागतोऽल्पर्द्धिरागच्छन्तं महर्द्धिकम् । नमति साऽऽगतं तु प्राग्, नमन्नेव जगाम च ॥४७३ ॥ नियत्रणा तत्र नैव, विकथा न च काचन । विरोधिनामपि मिथो, न मात्सर्य भयं न च ॥ ४७४॥ 30 द्वितीयस्य तु वप्रस्य, तिर्यञ्चस्तस्थुरन्तरे । वाहनानि तृतीयस्थ, प्राकारस्य तु मध्यतः ॥ ४७५ ॥ प्राकारस्य तृतीयस्य, बाह्यदेशेऽभवन् पुनः । विशन्तः केपि निर्यान्तः, केपि तिर्यग्नरामराः ॥ ४७६ ॥ ___ अथ सौधर्मकल्पेन्द्रो, नमस्कृत्य कृताञ्जलिः । रोमाञ्चितो जगन्नाथमिति स्तोतुं प्रचक्रमे ॥ ४७७॥ स्वामिन् ! क धीदरिद्रोऽहं, क च त्वं गुणपर्वतः । अभिष्टोष्ये तथाऽपि त्वां, भक्याऽतिमुखरीकृतः॥४७८॥
श्वेतवौँ । २ खट्टाकायुषधारी। ३ मुण्डमाली। उच्छ्रयः। ५ अप्रतिममणिमयम् । सुवर्णकमकस्थितम् । * °वाऽनुवपुस्तदा आ॥ ७ पतङ्गशिशुवत् । ८ दक्षिणद्वारेण । ९ वायन्यदिशि। १० उत्तरद्वारेण ।
त्रिषष्टि, १०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org