________________
७२
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व मुखान्यष्टौ हेमपट्टाश्चितभालानि तस्य च । बभुर्दिगष्टकरीणामिव विभ्रमभूमयः ॥ ४११॥ अष्टौ मुखे मुखे दन्तास्तिरश्चीनायतोन्नताः । दृढाश्चकाशिरे तस्य, महाद्रेरिव दन्तकाः ॥ ४१२ ॥ दन्ते दन्ते पुष्करिणी, स्वादुनिर्मलपुष्करा । गिरी वर्षधरे वर्षधरे इद इवाऽभवत् ॥ ४१३ ॥ पुष्करिण्यां पुष्करिण्यामष्टावम्भोरुहाणि च । अब्देवीभिः कृतानीव, मुखानि बहिरम्भसः ॥ ४१४ ॥ दलानि विपुलान्यष्टाम्भोरुहेऽम्भोरुहेऽपि च । क्रीडत्सुरस्त्रीविश्रामान्तरीपाणीच रेजिरे ।। ४१५ ॥ दले दलेऽष्टसङ्ख्यानि, नाटकानि विरेजिरे । चतुर्विधैरभिनयैः, सनाथानि पृथक् पृथक् ॥ ४१६ ॥ द्वात्रिंशदासन पात्राणि, नाटके नाटकेपि च । निर्झरा इव सुस्वादरसकल्लोलसम्पदः ॥ ४१७ ॥
वासवः सपरीवारस्तं वारणवरं ततः । अग्रासनेऽध्यारुरोह, कुम्भाग्रच्छन्ननाभिकः ।। ४१८ ॥
आसीनसपरीवारवासवो वारणाधिपः । सहसा सकलः कल्पः, सौधर्म इव सोऽचलत् ॥ ४१९ ॥ 10 क्षणादपि तदुद्यानमृषभखामिपावितम् । स पाप पालक इव, स्ववपुः सद्भिपन क्रमात् ॥ ४२० ।।
इन्द्राः समं देवगणैरपरेऽप्यच्युतादयः । अहंपूर्विकयेवेयुस्तत्रोचैर्दधतस्त्वराम् ॥ ४२१ ॥ __इतः समवसरणस्याऽवनीमेकयोजनाम् । अमृजन वायुकुमाराः, स्वयं मार्जितमानिनः ॥ ४२२ ॥ गन्धाम्बुवृष्टिभिर्मेघकुमाराः सिषिचुः क्षितिम् । सुगन्धिवाष्पैः सोत्क्षिप्तधूपावैष्यतः प्रभोः ॥ ४२३ ॥ व्यन्तराः स्वर्णमाणिक्यरवाश्मभिरुदंशुभिः । आत्मानमिव भक्त्या तद्, बबन्धुर्वसुधातलम् ॥ ४२४ ॥ तत्राऽधोमुखवृन्तानि, प्रोद्गतानीव भूतलात् । पञ्चवर्णानि पुष्पाणि, सुगन्धीन्यकिरंच ते ॥ ४२५ ॥ तोरणानि विचक्रुश्च, रखमाणिक्यकाशनैः । चतसृष्वपि ते दिक्षु, तद्भूषाकण्ठिका इव ॥ ४२६ ॥ अन्योऽन्यदेहसङ्क्रान्तप्रतिबिम्बैर्षमासिरे । आलिङ्गिता इवाऽऽलीभिस्तत्रोच्चैः शालभजिकाः ॥ ४२७ ॥ स्निग्धेन्द्रनीलघटिता, मकरास्तेषु रेजिरे । प्रणश्यन्मकरकेतुत्यक्तकेतुभ्रमप्रदाः ॥ ४२८ ॥
भगवत्केवलज्ञानकल्याणभवया मुदा । हासा इव दिशां रेजुः, श्वेतच्छत्राणि तत्र च ॥ ४२९ ।। 20 ध्वजाश्च भेजिरे तत्र, भूदेव्याऽतिप्रमोदतः । उत्तम्भिता इव भुजाः, स्वयं नर्त्तितुकामया ॥ ४३० ॥ तोरणानामधस्तेषां, वलिपट्टेष्विवोच्चकैः । मङ्गलस्याऽष्ट चिह्नानि, स्वस्तिकादीनि जज्ञिरे ॥ ४३१ ॥
तत्रोपरितनं वर्ग, विमानपतयो व्यधुः । रत्नमयं रत्नगिरेराहृतां मेखलामिव ।। ४३२ ॥ नानामणिमयान्यासन् , कपिशीर्षाणि तत्र च । अंशुभिः सूत्रयन्ति यां, चित्रवर्णाशुकामिव ॥ ४३३ ॥ मध्यभागे पुनः स्वाङ्गज्योतिभिरिव पिण्डितैः । प्राकारं कनकैयॊतिष्पतयस्तत्र चक्रिरे ॥ ४३४ ॥ स्नैर्विरचयामासुः, कपिशीर्षाणि तत्र च । सुरासुरवधूवक्ररत्नादायितानि ते ॥ ४३५ ॥ रूप्यवप्रश्च भवनपतिभिस्तद्वहिष्कृतः । भक्तितो मण्डलीभूत, इव वैताठ्यपर्वतः ॥ ४३६ ॥ तस्योपरि विशालानि, कपिशीर्षाणि जज्ञिरे । सौवर्णान्यम्बुजानीव, दिविषद्दीर्घिकाजले ॥ ४३७ ॥ भवनाधिपतिज्योतिष्पतिवैमानिकश्रियाम् । एकैककुण्डलेनेव, सा त्रिवग्रीकृता बभौ ॥ ४३८ ॥
माणिक्यतोरणास्तत्र, पताकामालभारिणः । रश्मिजालैर्विरचितान्यपताका इवाऽभवन् ॥ ४३९ ॥ 30 प्रतिवणं च चत्वारि, गोपुराणि चकाशिरे । चतुर्विधस्य धर्मस्य, क्रीडावातायना इव ॥ ४४०॥
इन्द्रनीलमणिस्तम्भायितधूमलतामुचः । द्वारे द्वारे धूपघव्योमुच्यन्त व्यन्तरामरैः ॥ ४४१॥ प्रतिद्वारं विचके तैर्वापी काञ्चनपङ्कजा । समवसरणवप्र, इव द्वारचतुष्कभृत् ॥ ४४२ ॥ प्राकारस्य द्वितीयस्याऽन्तरे चोत्तरपूर्वतः । देवच्छन्दं विचक्रुस्ते, स्वामिविश्रामहेतवे ॥ ४४३ ॥
तत्र प्रथमवप्रस्य, द्वास्थौ प्रारद्वारि तस्थतुः । स्वर्णवर्णावुभयतो, वैमानिकदिवौकसौ ॥ ४४४ ॥
१ अन्तरद्वीपाणीव । * °कान्यभिनिन्यिरे सं २, आ॥ २ पुष्पबन्धनस्थानानि । ३ पुत्तलिकाः। स्वामिप्रभा. प्रणश्यन्मकरकेतुभ्रम सं.॥ ३ समवसरणभूमिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org