________________
तृतीयः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । अत्र स्वामिनमायातं, नाऽपश्यमिति शोचसि । किं देव ! नित्यवास्तव्यः, स एव हृदि यस्य ते ? ॥३७७॥ कुलिशाङ्कुशचक्राब्जध्वजमत्स्यादिलाञ्छितेः । दृष्टैः स्वामिपदन्यासैदृष्टः स्वाम्येव भावतः ॥ ३७८ ॥ श्रुत्वेति स्वामिनस्तानि, पदविम्बानि भक्तितः । सान्तःपुरपरीवारः, सुनन्दासूरवन्दत ॥ ३७९ ॥ पदान्येतानि मा स्माऽतिक्रामत् कोऽपीति बुद्धितः । धर्मचक्रं रत्नमयं, तत्र बाहुबलिय॑धात् ॥ ३८० ॥ अष्टयोजनविस्तारं, तच योजनमुच्छ्रितम् । सहस्रारं बभौ बिम्बं, सहस्रांशोरिवाऽपरम् ॥ ३८१ ॥ 5 त्रिजगत्स्वामिनस्तस्य, प्रभावादतिशायिनः । सद्यस्तत्कृतमेवैक्षि, दुष्करं घुसदामपि ॥ ३८२ ॥ तत् तथाऽपूजयद् राजा, पुष्पैः सर्वत आहृतैः । समलक्षि यथा पौरैः, पुष्पाणामित्र पर्वतः ॥ ३८३ ॥ तत्र प्रवरसङ्गीतनाटकादिभिरुद्भटम् । नन्दीश्वरे शक्र इव, स चक्रेऽष्टाह्निकोत्सवम् ।। ३८४ ॥ आरक्षकानर्चकांश्च, तत्राऽऽदिश्य विशांपतिः । नमस्कृत्य च कृत्यज्ञो, जगाम नगरी निजाम् ।। ३८५ ।। __ भगवानप्यनायत्तः, समीरण इवाऽस्खलन् । नानाविधतपोनिष्ठो, विविधाभिग्रहोद्यतः ॥ ३८६॥ 10 यवनाडम्बइल्लादिम्लेच्छदेशेषु मौनभाक् । अनार्यान् भद्रकीकुर्वन् , दर्शनेनापि देहिनः ॥ ३८७॥ उपसगैरसंस्पृष्टः, सहमानः परीषहान् । सहस्रमेकं वर्षाणां, व्यहरद् दिनलीलया ॥ ३८८ ॥ अयोध्याया महापुर्याः, शाखानगरमुत्तमम् । ययौ पुरिमतालाख्यं, भगवानृषभध्वजः ॥३८९ ।। तस्य चोत्तरतो रम्यं, द्वितीयमिव नन्दनम् । उद्यानं शकटमुखं, नाम न्यविशत प्रभुः ॥ ३९० ॥ कृताष्टमतपास्तत्र, न्यग्रोधस्य तरोरधः । प्रतिमास्थोऽप्रमत्ताख्यं, गुणस्थानं प्रपन्नवान् ॥ ३९१ ॥ 15 ततश्चाऽपूर्वकरणमारूढः प्रत्यपद्यत । शुक्लध्यानं सवीचारं, पृथक्त्वेन वितर्कयुक् ॥ ३९२ ॥ प्राप्यानिवृत्तिं च सूक्ष्मसम्परायगुणं ततः । क्षणात् क्षीणकपायत्वं, प्रतिपेदे जगद्गुरुः ॥ ३९३ ॥ ऐक्यश्रुतमवीचारं, शुक्लध्यानं द्वितीयकम् । क्षणादासादयदथ, क्षीणमोहान्तिमक्षणे ॥ ३९४ ॥ पञ्च ज्ञानावरणानि, दृष्ट्यावृतिचतुष्टयम् । अन्तरायांश्च पञ्चेति, घातिशेषमनाशयत् ॥ ३९५ ॥ अथ व्रतात् सहस्राब्द्यां, फाल्गुनैकादशीदिने । कृष्णे तथोत्तराषाढास्थिते चन्द्रे दिवामुखे ॥ ३९६॥ 20 उत्पेदे केवलज्ञानं, त्रिकालविषयं विभोः । हस्तस्थितमिवाऽशेषं, दर्शयद् भुवनत्रयम् ॥३९७॥ [ युग्मम् ] दिशः प्रसेदुरभवन् , वायवः सुखदायिनः । नारकाणामपि तदा, क्षणं सुखमजायत ॥ ३९८ ॥
अथेन्द्राणामशेषाणामासनानि चकम्पिरे । तान् नोदितुमिव स्वामिकेवलोत्सवकर्मणे ॥ ३९९ ॥ प्रणेदुरिन्द्रलोकेषु, महाघण्टाः पटुखनाः । सद्यो दूत्य इव स्वस्वलोकाकारणकर्मणि ॥ ४००॥ यियासोः स्वामिपादान्ते, सौधर्माधिपतेः सुरः । ऐरावणो गजीभूय, चिन्तामात्रादुपास्थित ॥ ४०१॥25 विराजमानस्तन्वा स, लक्षयोजनमानया । दिक्षुः स्वामिनं मेरुरिव जङ्गमतां गतः ॥ ४०२ ॥ अङ्गप्रभाभिर्नीहारधवलाभिः समन्ततः । ककुभां चान्दनमिव, वितन्वानो विलेपनम् ॥ ४०३ ॥ गण्डस्थलगलद्दानजलैरतिसुगन्धिभिः। स्वर्गाङ्गणभुवं कुर्वन् , कस्तूरीस्तबकाङ्किताम् ॥ ४०४ ॥ कर्णतालैस्तालवृन्तैरिव लोलैर्निवारयन् । कपोलतलसम्पातिगन्धान्धमधुपावलीम् ॥ ४०५ ॥ कुम्भस्थलपराभूतबालमार्तण्डमण्डलः । आनुपूर्वीपीनवृत्तशुण्डानुकृतनागराद् ॥ ४०६॥ मध्वाभनेत्रदशनस्ताम्रपत्राभतालुकः । भम्भावृत्तशुभग्रीवः, पृथुगात्रान्तरालकः ॥ ४०७ ॥ अधिज्यीकृतधन्वाभपृष्ठवंशः कृशोदरः । चन्द्रमण्डलसङ्काशनखमण्डलमण्डितः ॥४०८ ।। सुगन्धिदीर्घनिश्वासश्चलदीर्घकराङ्गुलिः । दी!ष्ठपल्लवो दीर्घमेहनो दीर्घवालधिः॥४०९ ॥ घण्टाभ्यां पार्श्वयोश्चन्द्रार्काभ्यां मेरुरिवाङ्कितः । देवद्रुकुसुमावेष्टं, कक्षानाडी च धारयन् ॥ ४१० ॥
• दर्शनावरणचतुष्टयम्। *सहस्रकं फा खं ॥ २ सहस्रवर्षेषु गतेषु । ३ आह्वानकर्मणि। ४ मधुवर्णनेत्रदन्तः । ५ शुण्डामः। ६ दीर्घपुच्छः ।
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org