________________
10
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व प्रातश्च बद्धमुकुटैमहद्भिर्मण्डलेश्वरैः । भूयिष्टैरिव मार्तण्डेः, परितः परिवारितः ॥ ३४५॥ उपायानामिवाऽगारैरर्थशास्त्रैरिवाङ्गिभिः । शुक्राद्यैरिव भूयिष्ठैर्वरिष्ठंमत्रिभिर्वृतः ॥ ३४६ ॥ जगल्लञ्चनजङ्घालैर्लक्षसङ्खयैस्तुरङ्गमैः । गूढपक्षैः पक्षिराजैरिव विष्वग विराजितः ॥ ३४७॥ क्षरन्मदजलासारशमितक्षितिरेणुभिः । उत्तुङ्गैः शोभितो नागैर्नगैरिव सनिझरैः ॥ ३४८॥ वसन्तश्रीप्रभृत्यन्तःपुरस्त्रीभिः सहस्रशः । पातालकन्याभिरिवाऽसूर्यम्पश्याभिरावृतः ॥ ३४९ ॥ सचामराभ्यां च वारस्त्रीभ्यां सेवितपार्श्वकः । सराजहंसाभ्यां गङ्गायमुनाभ्यां प्रयागवत् ॥ ३५० ॥ धवलेनाऽऽतपत्रेणोपरिस्थेनातिहारिणा । राकानिशीथशशिना, सानुमानिव शोभितः ॥ ३५१॥ सुवर्णदण्डहस्तेन, प्रतीहारेण चाऽग्रतः । शोध्यमानपथो देवनन्दिना देवराडिव ॥ ३५२ ॥ अन्वीयमानोऽश्वारूढः, रत्नाभरणभूषितैः । पोरैरिभ्यैरसङ्ख्यातः, श्रीदेव्या इव पुत्रकैः ॥ ३५३ ॥ शिलोच्चयशिलापृष्ठमिव पञ्चाननो युवा । भद्रद्विपपतिस्कन्धमध्यारूढः सुरेन्द्रवत् ॥ ३५४ ॥ विराजमानः शिरसि, तरङ्गीभूतकान्तिना । रत्नमयकिरीटेन, चलयेवाऽमराचलः ॥ ३५५ ॥ बिभ्रन्मुक्ताकुण्डले च, वदनस्य श्रिया जितौ । सेवाकृते समायाता, जम्बूद्वीपविधू इव ॥ ३५६ ॥ स्थूलमुक्तामणिमयं, हारयष्टिं च धारयन् । हृदये मन्दिरे लक्ष्म्या, वप्रसब्रह्मचारिणम् ॥ ३५७ ॥
दोर्मूलयोर्दधानश्च, जात्यजाम्बूनदाङ्गदौ । दृढौ नवलतावेष्टाविवोच्चैर्भुजशाखिनोः ॥ ३५८ ॥ 15 मुक्तामणिमयो बिभ्रत्कङ्कणौ मणिबन्धयोः । लावण्यसरितस्तीरवर्तिफेनच्छटोपमौ ॥ ३५९ ॥
अङ्गुलीये च विभ्राणः, कान्तिपल्लविताम्बरे । मणी इवाऽनणीयांसौ, पाण्योः फणिफणश्रियोः ॥ ३६० ॥ चोलकेनाऽङ्गालग्नेन, सूक्ष्मश्वेतेन शोभितः । असंलक्ष्यविभेदेन, श्रीचन्दनविलेपनात् ॥ ३६१ ॥ चारुमन्दाकिनीवीचिनिचयस्पर्द्धिनी पटीम् । धारयन् परितो राकाचन्द्रमाश्चन्द्रिकामिव ॥ ३६२ ॥
विचित्रवर्णरुचिरेणाऽन्तरीयेण रोचितः । नानाधातूंपत्यकया, निषेवित इवाञ्चलः ॥ ३६३ ॥ 20 महाबाहुर्बाहुबलिः, पाणिभ्यां वर्तयन् शृणिम् । श्रीणामाकर्षणक्रीडां, कुटिकामुल्वणामिव ॥ ३६४॥ बन्दिवृन्दजयजयारावपूरितदिङ्मुखः । स्वामिपादपवित्रस्योपवनस्याऽन्तिकं ययौ ॥ ३६५ ॥
[एकविंशत्या कुलकम् ] अवरुह्य करिस्कन्धाद् , वैनतेय इवाऽम्बरात् । छत्रादिप्रक्रियां त्यक्त्वा, तदुद्यानं विवेश सः ॥३६६॥ व्योमेव चन्द्ररहितं, सुधाकुण्डमिवाऽसुधम् । तदस्वामिकमुद्यानमपश्यदृषभात्मजः ॥ ३६७ ॥ क्व नाम भगवत्पादा, नयनानन्ददायिनः? । इत्यपृच्छदतुच्छेच्छः, सर्वानुद्यानपालकान् ॥ ३६८॥ तेप्यूचुः किश्चिदप्यग्रे, यामिनीव ययौ विभुः । यावत् कथयितुं यामस्तावद् देवोऽप्युपाययौ ॥ ३६९ ।। हस्तविन्यस्तचिबुको, बाष्पायितविलोचनः । अथेदं चिन्तयामास, ताम्यंस्तक्षशिलापतिः॥ ३७० ॥ खामिनं पूजयिष्यामि, समं परिजनैरिति । मनोरथो मुधा मेऽभूद् , हृदि बीजमिवोपरे ॥ ३७१ ॥
चिरं कृतविलम्बस्य, लोकानुग्रहकाम्यया । धिगियं मम सा जज्ञे, स्वार्थभ्रंशेन मूर्खता ॥ ३७२॥ 30 धिगियं वैरिणी रात्रिर्धिगियं च मतिर्मम । अन्तरायकरी स्वामिपादपद्मावलोकने ॥ ३७३ ॥
विभातमप्यविभातं, भानुमानप्यभानुमान् । दृशावप्यदृशावेव, पश्यामि स्वामिनं न यत् ॥ ३७४ ॥ अत्र प्रतिमया तस्थौ, रात्रिं त्रिभुवनेश्वरः । अयं पुनर्बाहुबलिः, सौधे शेिते म निस्त्रपः ॥ ३७५ ॥
अथ बाहुबलिं दृष्ट्वा, चिन्तासन्तानसङ्कुलम् । उवाच सचिवो वाचा, शोकशल्यविशल्यया ॥३७६ ॥
१ वेगवद्भिः। २ पूर्णिमारात्रिचन्द्रेण । ३ इन्द्रप्रतीहारेण । ४ केशरी। * वराङ्गीभूत सं १॥ ५ जम्बूद्वीपस्थञ्चन्द्रौ इव। ६ जात्यसुवर्णकेयूरो। ७ महान्तौ । ८ पर्वतासमभूम्या। ९ अङ्कुशम् । + यारावपूरिताखिलदि आ ॥ १.महेछः। ११क्षारभूमौ । सुष्वाप नि आ, सं २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org