________________
तृतीयः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । पुत्रवत् त्रातपूर्वी नः, पूर्वलक्षाण्यनेकशः । असंस्तव इवेदानी, प्रभुरस्मासु वर्तते ॥ ३१० ॥
श्रेयांसस्तानुवाचैवं, किमेवमभिधीयते ? । न ह्ययं पूर्ववत् स्वामी, परिग्रहपरो नृपः ।। ३११ ॥ इदानीं वर्तते भर्ता, भवावन्निवर्तितम् । कृतनिःशेषसावधव्यापारविरतियतिः ॥ ३१२॥ स्नानाङ्गरागनेपथ्यवस्त्राणि स्वीकरोति सः। यो भोगेच्छुः स्वामिनस्तु, तद्विरक्तस्य किं हि नः ? ॥ ३१३ ।। कन्यकाः स हि गृह्णाति, यः कामविवशो जनः। स्वामिनो जितकामस्य, कामिन्यः काममश्र्मवन ।।३१४।। 5 हस्त्यश्वादि स गृह्णाति, यो महीराज्यमिच्छति । भर्तुः संयमसाम्राज्यभाजस्तद्दग्धवस्त्रवत् ॥ ३१५ ॥ फलादिकं स गृह्णाति, सजीवं यो हि हिंसकः । स्वामी त्वखिलजन्तूनामसौं जीवाभयप्रदः ॥ ३१६ ॥ एषणीयं कल्पनीयं, प्रासुकं च जगत्पतिः । आदत्तेऽन्नादि तन्मुग्धा, भवन्तो न हि जानने ॥३१७ ॥
ऊचिरे युवराजं ते, स्वामिना ज्ञापितं पुरा । यत् किश्चिदपि शिल्पादि, तन्मात्रं जानने जनाः॥३१८॥ न ज्ञापितमिदं भर्चा, न जानीमस्ततो वयम् । त्वया पुनः कुतो ज्ञातमिति शंसितुमर्हसि ॥ ३१९ ॥ 10 ___ व्याजहार कुमारोऽपि, भगवदर्शनान्मम । जातिसरणमुत्पन्नं, धीरिव ग्रन्थदर्शनात् ॥ ३२० ॥ अमुना स्वामिना सार्द्धमष्टौ जन्मान्तराण्यहम् । भृत्यो ग्रामान्तराणीव, पर्याटं स्वर्गमय॑योः ॥ ३२१ ॥ इतो भवात् तृतीयस्मिन्नतिक्रान्तभवे प्रभोः। पिताऽभवद् वज्रसेनो, विदेहभुवि तीर्थकृत् ।। ३२२ ॥ तदन्तिके प्रवजितः, स्वामी पश्चादहं पुनः । तजन्मस्मरणादेतदज्ञायि सकलं मया ॥ ३२३ ॥ तथा मे तातपादानां, सुबुद्धिश्रेष्ठिनोऽपि च । त्रयाणामपि स्वमानां, प्रत्यक्षमधुना फलम् ॥ ३२४ ॥ 15 श्यामो मेरुर्मया दृष्टः, पयोभिः क्षालितश्च यत् । तपःक्षामः स हि स्वामीक्षुरसेः पारणादभात् ॥ ३२५ ॥ युध्यमानोऽरिभिर्यस्तु, राज्ञा दृष्टः प्रभुहि सः । मत्पारणकसानिध्यात्, पराजिग्ये परीपहान् ॥ ३२६ ॥ सुबुद्धिश्रेष्ठिना यञ्च, दृष्टमादित्यमण्डलात् । गोसहस्रं च्युतं न्यस्तं, मयाऽथाऽर्कोऽधिकं बभौ ॥ ३२७ ॥ आदित्यो भगवानेष, गोसहस्रं तु केवलम् । तद् भ्रष्टं पारणेनाऽद्य, मयाऽयोजि बभौ च सः॥ ३२८ ॥ एतच्छ्रुत्वा च ते सर्वे, श्रेयांसं साधु साध्विति । भाषमाणाः प्रमुदिताः, स्थानं निजनिजं ययुः ॥३२९॥ 20 कृतपारणकः स्वामी, श्रेयांससदनात् ततः । जगामाऽन्यत्र नैकत्र, तिष्ठेच्छमस्थतीर्थकृत् ॥ ३३० ॥ भगवत्पारणस्थानातिक्रम कोऽपि मा व्यधात । इति रत्नमयं तत्र, श्रेयांसः पीठमादधे ॥३३१॥ त्रिसन्ध्यमपि तद् रत्नपीठं भक्तिभरानतः । श्रेयांसः पूजयामास, साक्षात् पादाविव प्रभोः ॥ ३३२ ॥ किमेतदिति लोकेन, पृष्टः सोमप्रभात्मजः । आदिकृन्मण्डलमिदमिति तं शंसति स तत् ॥३३३ ॥ यत्र यत्र प्रभुर्भिक्षामग्रहीत् तत्र तत्र च । पीठं लोकोऽकृताऽऽदित्यपीठं तच्च क्रमादभूत् ॥ ३३४ ॥ 25 __ स्वामी सम्प्राप सायाहे, निकुञ्जमिव कुञ्जरः । बहलीमण्डले बाहुबलेस्तक्षशिलापुरीम् ॥ ३३५ ॥ तस्याश्च पहिरुद्याने, तस्थौ प्रतिमया प्रभुः । गत्वा च बाहुबलये, तदायुक्तैर्त्यवेद्यत ॥ ३३६ ॥ अथाऽऽदिक्षत् पुरारक्षं, मापतिस्तत्क्षणादपि । विचित्रं हट्टशोभादि, नगरे क्रियतामिति ॥ ३३७ ॥ पदे पदेऽभवद् रम्भास्तम्भतोरणमालिका । लम्बमानमहालुम्बिचुम्बिताध्वन्यमौलिका ॥ ३३८ ॥ मञ्चाः प्रतिपथं चासन् , रत्नभाजनभासुराः । विमानानीव भगवदर्शनायातनाकिनाम् ॥ ३३९ ॥ 30 अनिलान्दोलितोद्दामपताकामालिकाच्छलात् । पूँः सहस्रभुजीभूय, ननर्तेव मुदा तदा ॥ ३४० ॥ नव्यकुङ्कुमपानीयच्छटाभिरभितोऽप्यभूत् । सद्यो रचितमङ्गल्याङ्गरागेव वसुन्धरा ॥ ३४१॥ भगवदर्शनोत्कण्ठारजनीजानिसङ्गमात् । पुरं तदानीमुनिद्रमभूत् कुमुदषण्डवत् ॥ ३४२ ॥ प्रातः खं पावयिष्यामि, लोकं च स्वामिदर्शनात् । इतीच्छतो बाहुबले, साऽभून्मासोपमा निशा ॥३४३॥ तस्यामीपद्विभातायां, विभावर्या जगद्विभुः । प्रतिमां पारयित्वाऽगात् , क्वचिदन्यत्र वायुवत् ॥ ३४४ ॥ 35
रक्षितपूर्वी । २ अपरिचित इव । ३ संसाररूपजलावर्तात् । ४ पाषाणवत् । ५बहलीदेशे । * भूः सह सं॥ चन्द्र।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org