________________
कलिकाल सर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं
[ प्रथमं पर्व
दृष्ट्वा स्वामिनमायान्तं युवराजोऽपि तत्क्षणम् । अधावत् पादचारेण, पत्तीनप्यतिलङ्घयन् ॥ २७७ ॥ छत्रोपानहमुत्सृज्य, युवराजेऽभिधाविनि । अच्छत्रोपानहा पर्पत्, तच्छायेवाऽन्वधावत ।। २७८ ॥ सम्भ्रमादुल्ललन् लोलकुण्डलो युवराड् बभौ । स्वामिनोऽग्रे पुनर्बाललीलामाकलयन्निव ।। २७९ ।। गृहाङ्गजुषो भर्चुलुठित्वा पादपङ्कजे । श्रेयांसोऽमार्जयत् केशै भ्रमर भ्रमकारिभिः ॥ २८० ॥ 5 स उत्थाय जगद्भर्तुर्विधाय त्रिः प्रदक्षिणाम् । ननाम पादौ हर्षाश्रुवारिभिः क्षालयन्निव ।। २८१ ।।
सऊद्धभूय पुरतः स्वामिनो मुखपङ्कजम् । ईक्षाञ्चक्रे मुदा चन्द्रं, चकोर इत्र पार्वणम् ।। २८२ ।। ईदृशं क मया दृष्टं, लिङ्गमित्यभिचिन्तयन् । विवेकशाखिनो बीजं, जातिस्मरणमाप सः ॥ २८३ ॥ विवेद चैवं यत् पूर्वविदेहे चक्रवभृत् । भगवान् वज्रनाभोऽयं, जातोऽहं चाऽस्य सारथिः ॥ २८४ ॥ तस्मिन्नेव भवे भर्तुर्वज्रसेनाभिधः पिता । ईदृशं तीर्थकुल्लिङ्ग, धारयन्नीक्षितो मया ॥ २८५ ॥ 10 स्वामिनो वज्रसेनस्य, पादान्ते समुपाददे । वज्रनाभः परिव्रज्यामहमप्यस्य पृष्ठतः ।। २८६ ॥
अर्हतो वज्रसेनस्य, मुखादश्रौषमित्यहम् । भरते वज्रनाभोऽसौ भावी प्रथमतीर्थकृत् ॥ २८७ ॥ स्वयम्प्रभादींश्च भवान्, पर्याटममुना सह । अधुना वर्त्तते स्वामी, ममैष प्रपितामहः ।। २८८ ॥ दिष्ट्या दृष्टो मया नाथः, समग्रजगतामपि । अनुग्रहीतुं मामेप, साक्षान्मोक्ष इवाऽऽगतः ।। २८९ ।। अत्रान्तरे कुमारस्य, प्राभृते केनचिन्मुदा । नवेक्षुरससम्पूर्णा, ढोकयाञ्चक्रिरे घटाः ॥ २९० ॥ ततो विज्ञातनिर्दोषभिक्षादानविधिः स तु । गृह्यतां कल्पनीयोऽयं, रस इत्यवदद् विभुम् ।। २९१ ।। प्रभुरप्यञ्जलीकृत्य, पाणिपात्रमधारयत् । उत्क्षिप्योत्क्षिप्य सोऽपीक्षुरसकुम्भानलोठयत् ।। २९२ ।। भूयानपि रसः पाणिपात्रे भगवतो ममौ । श्रेयांसस्य तु हृदये, ममुर्न हि मुदस्तदा ।। २९३ ।। स्त्यानो नु स्तम्भितो न्वासीद्, व्योम्नि लग्नशिखो रसः। अञ्जलौ स्वामिनोऽचिन्त्यप्रभावाः प्रभवः खलु ॥ २९४ ॥ ततो भगवता तेन रसेनाऽकारि पारणम् । सुरासुरनृणां नेत्रैः पुनस्तद्दर्शनामृतैः ।। २९५ ॥ दिविदुन्दुभयो नेदुः प्रतिनादोन्मदिष्णवः । श्रेयांसश्रेयसां ख्यातिकरा वैतालिका इव ।। २९६ ।। रत्नवृष्टिरभूच्छ्रेयांसौकसि त्रिदिवौकसाम् । सममानन्दसम्भूतजननेत्राभ्रुवृष्टिभिः ॥ २९७ ॥ दिवो देवाः पञ्चवर्णपुष्पवृष्टिं वितेनिरे । पृथ्वीं पूजयितुमिव, स्वामिपादपवित्रिताम् ।। २९८ ।। सर्वामरद्रुकुसुमनिःस्यन्दैरिव सञ्चितैः । चक्रुर्गन्धाम्बुभिर्दृष्टि, त्रिविष्टपसदस्तदा ।। २९९ ॥ विदधानो दिवं दीव्यद्विचित्राभ्रमयीमिव । चेलोत्क्षेपः सुरनरैश्चक्रे चामरसोदरः || ३०० || 25 राधशुक्ल तृतीयायां, दानमासीत् तदक्षयम् । पर्वाक्षयतृतीयेति, ततोऽद्यापि प्रवर्तते ।। ३०१ || श्रेयांसोपज्ञमवनौ, दानधर्मः प्रवृत्तवान् । स्वाम्युपज्ञमिवाऽशेषव्यवहारनयक्रमः ॥ ३०२ ॥ स्वामिपारणकाद् देवसम्पाताच्चाऽथ विस्मिताः । राजानो नागराश्वान्येऽप्येयुः श्रेयांसवेश्मनि ॥ ३०३ ॥ ते च कच्छमहाकच्छादयः क्षत्रियतापसाः । आजग्मुरुद्दाममुदः, स्वामिपारणवार्त्तया ॥ ३०४ ||
राजानो नागराचाऽन्ये जना जानपदा अपि । पुलकोत्फुल्लवपुषः, श्रेयांसमिदमूचिरे ॥ ३०५ ॥ भो भोः कुमार ! धन्योऽसि, नृणामसि शिरोमणिः । यदिक्षुरस आहारः, स्वामिना ग्राहितस्त्वया ॥ ३०६ ॥ प्रदीयमानमस्माभिः सर्वस्वमपि नाऽऽत्तवान् । नाऽमन्यत तृणायाऽपि, प्रसन्नोऽस्मासु न प्रभुः ।। ३०७ ॥ संवत्सरमटन् स्वामी, ग्रामाकरपुराटवीः । कस्याप्यादत्त नाऽऽतिथ्यं धिगस्मान् भक्तमानिनः ॥ ३०८ ॥ दूरेऽस्तु वस्तुग्रहणं, दूरे वेश्मसु विश्रमः । अद्य यावन्न वाचाऽपि खामी नः समभावयत् ॥ ३०९ ॥
15
६८
20
30
समुपात्तवान् सं १, खं ॥ १ श्रेयांस कल्याणानाम् । २ बन्दिनः । ३ वैशाख शुक्ल तृतीयायाम् । प्रथमं श्रेयांसेन प्रकटीकृतो दानधर्मः प्रवृत्तवान् । वान् । + मानवा खंता ॥
*
Jain Education International
४ श्रेयांसोप
५ स्वाम्युपशं प्रथमं ऋषभस्वामिना प्रकटीकृतोऽशेषव्यवहारनयक्रमः प्रवृत्त
For Private & Personal Use Only
www.jainelibrary.org