________________
तृतीयः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । अमी सहस्राश्चत्वार, इवाऽभोजनपीडिताः । तदा भङ्गं ग्रहीष्यन्ति, भाविनो मुनयोऽपरे ॥ २४२ ॥ स्वामी मनसिकृत्यैवं, भिक्षार्थं चलितस्ततः । पुरं गजपुरं प्राप, पुरमण्डलमण्डनम् ॥ २४३॥
तस्मिन् पुरे याहुबलिमूनोः सोमप्रभस्य तु । राज्ञः कुमारेण तदा, स्वप्ने श्रेयांसभूभुजा ॥२४४।। अदृश्यत स्वर्णगिरिः, परितः श्यामलो मया। अभिषिच्य पयस्कुम्भैर्विहितोऽधिकमुज्ज्वलः॥२४५॥[युग्मम्] सुबुद्धिश्रेष्ठिनाऽप्यक्षि, गोसहस्रं रवेश्युतम् । श्रेयांसेनाऽऽहितं तत्र, ततोऽर्कोऽप्यतिभासुरः ॥ २४६ ॥5 अदार्श सोमयशसा, राज्ञैको बहुभिः परैः । रुद्धः समन्ताच्छ्रेयांससाहाय्याजयमीयिवान् ॥ २४७॥ त्रयस्ते सदसि स्वमानन्योऽन्यस्य न्यबीविदन् । तन्निर्णयमजानन्तः, स्वं स्वं स्थानं पुनर्ययुः ॥ २४८ ॥ प्रादुर्भावयितुमिव, तदा तत्स्वमनिर्णयम् । भिक्षार्थं प्राविशत् स्वामी, नगरं हस्तिनापुरम् ॥ २४९ ॥ संवत्सरं निराहारोऽप्यायान् वृपभलीलया । ददृशे वृषभखामी, नागरैर्जातसम्मदैः ॥ २५० ॥ उत्थायोत्थाय धावित्वा, धावित्वा च ससम्भ्रमम् । पोरैर्देशान्तरायातबन्धुवत् स्वाम्यवेष्ट्यत ॥ २५१ ॥ 10 कोऽप्युवाचैहि भगवन् !, गृहाण्यनुगृहाण नः । वसन्तोत्सववद् देव !, चिरादसि निरीक्षितः ॥ २५२ ॥ । कोऽप्यवादीदिदं मजं, स्नानीयं वसनं जलम् । तेलं पिष्टातकश्चेति, स्नाहि स्वामिन् ! प्रसीद नः॥२५३॥ कोऽप्यचे स्वोपयोगेन, स्वामिन ! मम कृतार्थय । जात्यचन्दनकपूरकस्तूरीयक्षकदेमान् ॥ २५४॥
गटत्न!. रत्नालङ्करणानि नः । स्वाङ्गाधिरोपणात स्वामिन्नलङ्करु दयां कुरु ॥ २५५ एवं व्यज्ञपयत् कोऽपि, गृहे समुपविश्य मे । स्वामिन्नगानुकूलानि, दुकूलानि पवित्रय ॥ २५६ ॥ 15 कश्चिदप्यब्रवीदेवं, देव ! देवाङ्गनोपमाम् । प्रभो! गृहाण नः कन्यां, धन्याः स्मस्त्वत्समागमात् ॥२५७॥ कोऽप्यूचे पादचारेण, क्रीडयाऽपि कृतेन किम् ? । इममारोह शैलाभं, कुञ्जरं राजकुञ्जर ! ॥ २५८ ॥ कोऽप्यजल्पन्मम हयान् , गृहाणाऽर्कहयोपमान् । लिमातिथेयाग्रहणादयोग्यान विदधासि नः ? ॥२५९॥ कोऽप्युवाचाऽऽदत्स्व रथान् , सनाथान् जात्यवाजिभिः। किमेभिर्ननु कर्त्तव्यं, पादचारिणि भर्तरि ? ॥२६०॥ कोऽप्यूचेऽमृनि पक्कानि, सहकारफलानि नः । उपादत्स्व प्रभो ! माऽवमंस्थाः प्रणयिनं जनम् ॥ २६१ ॥ 20 कोऽप्यभाषिष्ट ताम्बूलबल्लीपत्राण्यमूनि मे । क्रमुकाण्यप्युपादत्स्व, प्रसीदेकान्तवत्सल ! ॥२६२ ॥ बभापे कश्चिदप्येवमपराद्धं नु किं मया ? । यदशृण्वन्निव स्वामिन्नत्तरं न प्रयच्छसि ? ॥ २६३ ॥ इत्यर्थ्यमानोऽकल्प्यत्वादगृह्णन किमपि प्रभुः । गेहं गेहमुपेयाय, ऋक्षमृक्षमिवोडुपः ॥ २६४ ॥
प्रातःकाले शकुन्तीनामिव कोलाहलं तदा । पोराणां परिशुश्राव, श्रेयांसः स्वाश्रयस्थितः ॥ २६५ ॥ किमेतदिति तेनाऽनुयुक्तो वेत्रधराग्रणीः । इति विज्ञपयामास, पुरोभूय कृताञ्जलिः ॥ २६६ ॥ 25 लुठद्भिः पादपीठाग्रे, किरीटस्पृष्टभूतलम् । इन्द्रेनरेन्द्ररिख यः, सेव्यते दृढभक्तिभिः ॥ २६७ ॥ जीवनोपायकर्माणि, लोकेष्वेकानुकम्पया । दर्शयाश्चक्रिरे येन, पदार्था इव भानुना ॥ २६८॥ विभज्य भरतादीनां, युप्माकं चापि भूरियम् । ददे येन स्वशेपेव, तदा दीक्षां जिघृक्षता ॥ २६९ ॥ यः स्वयं त्वाददे सर्वसावद्यपरिहारतः । कर्माष्टकमहापङ्कशोपग्रीष्मातपं तपः ।। २७० ॥ व्रतात् प्रभृति नाथोऽसो, निःसङ्गो ममतोज्झितः । निराहारो विहरते, पादाभ्यां पावयन् महीम् ॥२७१॥ 30 सूर्यातपान्नोद्विजते, न च्छायामनुमोदते । तुल्य एवोभयत्रापि, स्वाम्ययं सानुमानिव ॥ २७२ ॥ न विरज्यत्यसो शीतादशीते च न रज्यति । वज्रकाय इव स्वामी, यत्र तत्राऽवतिष्ठते ॥ २७३ ॥ युगमात्रं दत्तदृष्टिरमँगन् कीटिकामपि । पादचारं करोत्येष, संसारकरिकेसरी ॥ २७४ ॥ प्रत्यक्षीकारनिर्देश्या, जगत्रितयदेवता । इह भाग्यवशादायात्ययं ते प्रपितामहः ।। २७५ ॥ गवामिवाऽनुगोपालं, धावतां स्वामिनं ह्यमुम् । असौ सकलपौराणां, कलः कलकलोऽधुना ॥ २७६ ॥ 35 * न्यवीवदन् खं, आ॥ । गृहाणानु सं 2, २॥ । रमृदन् सं १, खं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org