________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व वैर्यक्षोभशिखरकं, गिरिशिखरकं ततः । धरणीवारणीसंज्ञं, सुदर्शनपुरं ततः ॥ २०६ ॥ दुर्ग दुर्धर-माहेन्द्रे, विजयं च सुगन्धिनी । सुरतनागरपुरं, ततो रत्नपुराभिधम् ॥ २०७॥ एषां प्रधानभूतं तु, पुरं गगनवल्लभम् । विनमिः स्वयमध्यष्ठाद् , धरणेन्द्रमधिष्टितः ॥ २०८ ॥
ते च विद्याधरश्रेण्यौ, शुशुभाते महर्द्धिके । ऊर्ध्वस्थव्यन्तरश्रेण्याविवाऽधःप्रतिविम्बिते ॥ २०९ ॥ 5 ग्रामाननेकशः कृत्वा, तौ शाखानगराणि च । स्थापयामासतुः स्थानौचित्याजनपदानपि ॥ २१० ।।
यस्माद् यस्माजनपदान्नीत्वा तत्राऽऽहिता नराः । तत्संज्ञयैव तत्रापि, ताभ्यां जनपदाः कृताः ।। २११॥ तेष्वथो नमि-विनमी, पुरेष्वधिसभं विभुम् । स्थापयामासतुर्नाभिनन्दनं मनसीव तौ ॥ २१२ ॥ ___ मा विद्यादुर्मदा विद्याधराः कार्षुः स्म दुर्नयम् । धरणेन्द्रस्ततस्तेषां, मर्यादामेवमादिशत् ॥ २१३ ॥
जिनानां जिनचैत्यानां, तथा चरमवर्मणाम् । प्रतिमाप्रतिपन्नानां, सर्वेषां चाऽनगारिणाम् ॥ २१४ ॥ 10 पराभवं लङ्घनं च, ये करिष्यन्ति दुर्मदाः। विद्यास्त्यक्ष्यन्ति तान् सद्यः, कृतालस्यानिव श्रियः २१५॥ [युग्मम्]
मात्मस्त्रीकं हनिष्यन्ति, ये नरं येऽपि च स्त्रियम् । रमयिष्यन्त्यनिच्छन्ती, विद्यास्त्यक्ष्यन्ति तान् क्षणात्।।२१६ उच्चैरुदीर्य मर्यादामेवमाचन्द्रकालिकीम् । अलीलिखदहिस्वामी, रत्नभित्तिप्रशस्तिषु ॥ २१७ ॥ विद्याधराधिराजत्वे. सप्रसादं निवेश्य तौ। विरचय्य व्यवस्थां च. धरणेन्दस्तिरोदधे ॥ २१८॥
गौरीणां नाम्ना गौरेया, मनूनां मनुपूर्वकाः। गान्धारीणां तु गान्धारा, मानवीनां तु मानवाः२१९ 15 कैशिकीनां तु विद्यानां, कैशिकीपूर्वका मताः। विद्यानां भूमितुण्डानां, कीर्तिता भूमितुण्डकाः २२०
विद्यानां मूलवीर्याणां, विश्रुता मूलवीर्यकाः । शङ्कुकानां शङ्कुकास्तु, पाण्डुकीनां तु पाण्डुकाः२२१ कालीनां कालिकेयास्तु,श्वपाकीनां श्वपाककाः। मातङ्गीनां तु मातङ्गाः,पार्वतीनां तु पार्वताः२२२ वंशालयानां विद्यानां, ख्याता वंशालया इति । विद्यानां पांसुमूलानां, प्रथिताः पांसुमूलकाः २२३ विद्यानां वृक्षमूलानां,विख्याता वृक्षमूलकाः। स्वस्व विद्याख्यया ख्याता, निकायाः षोडशाऽभवन्।।२२४॥ एवं विद्याधराणां तु, निकाया नमिभूभुजा । आदीयन्त विभज्याऽष्टावष्टौ विनमिना पुनः ॥ २२५ ॥ खके स्वके निकाये च, स्वकाय इव भक्तितः । स्थापयाञ्चक्रिरे ताभ्यां, विद्याधिपतिदेवताः ॥ २२६ ॥ तौ नित्यमृषभखामिमूर्तिपूजाकृतक्षणौ । धर्मानाबाधया भोगान् , बुभुजाते सुराविव ॥ २२७ ॥ द्वीपान्तजगतीजालकटकेषु कदापि तौ । रेमाते सह कान्ताभिः, शक्रेशानाविवाऽपरौ ॥ २२८ ॥ सुमेरुशैलोद्यानेषु, कदाचिन्नन्दनादिषु । सदानन्दौ विजहाते, स्वैरिणौ तौ समीरवत् ॥ २२९ ॥ नन्दीश्वरादितीर्थेषु, जग्मतुस्तौ कदाचन । शाश्वतप्रतिमार्चाय, श्राद्धश्रीणां फलं ह्यदः ॥ २३० ॥ तौ कदाचिद् विदेहादिक्षेत्रेषु श्रीमदर्हताम् । गत्वा समवसरणे, पपतुर्वाक्सुधारसम् ॥ २३१ ॥ चारणश्रमणेभ्यश्च, कदाचिद् धर्मदेशनाम् । तौ शुश्रुवतुरुत्की , गीतं युवमृगाविव ॥ २३२ ॥ सम्यक्त्ववन्तावक्षीणकोशौ विद्याधरीवृतौ । त्रिवर्गाबाधया राज्यं, यथावत् तौ प्रचक्रतुः ॥ २३३ ॥
ते तु कच्छमहाकच्छादयो राजन्यतापसाः । गङ्गाया दक्षिणे कूले, मृगा इव वनेचराः ॥ २३४ ॥ 30 वल्कलाच्छादनधराः, पादपा इव जङ्गमाः । आहारमुद्वान्तमिवाऽस्पृशन्तो गृहमेधिनाम् ॥ २३५ ॥
चतुर्थषष्ठादितपःपरिशोषितधातुकम् । धारयन्तः कृशतरं, रिताभस्त्रोपमं वपुः ॥ २३६ ॥ भुञ्जानाः पारणाहेऽपि, शीर्णपर्णफलादिकम् । हृदये भगवत्पादान् , ध्यायन्तोऽस्थुरनन्यगाः ॥ २३७ ॥
आयोनार्येषु मौनेन, विहरन् भगवानपि । संवत्सरं निराहारश्चिन्तयामासिवानिदम् ॥ २३८ ॥ प्रदीपा इव तैलेन, पादपा इव वारिणा । आहारेणैव वर्तन्ते, शरीराणि शरीरिणाम् ।। २३९ ॥ 35 द्विचत्वारिंशता भिक्षादोषैर्भृशमदूषितः । स तु वृत्त्या माधुकर्या, काले ग्राह्योऽनगारिणा ॥ २४० ॥
अद्यापि यदि वाऽऽहारमतिक्रान्तदिनेष्विव । न गृह्णाम्यभिग्रहाय, किन्तूत्तिष्ठे पुनर्यदि ॥ २४१ ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org