________________
६५
तृतीयः सर्गः ]
त्रिपष्टिशलाकापुरुषचरितम् । आदिदेश च वैताढ्ये, गत्वा श्रेणिद्वये युवाम् । नगराणि परिष्ठाप्य, कुर्वाथां राज्यमक्षयम् ॥ १७१ ॥
नत्वाऽर्हन्तं तो विमानं, पुष्पकाख्यं विकृत्य च । आरुह्य च प्रचलितो, पन्नगम्यामिना समम् ॥१७२।। स्वामिसेवातरुफलभूतां तां सम्पदं नवाम् । गत्वा पित्रोः कच्छमहाकच्छयोस्तावशंसताम् ॥ १७३॥ ज्ञापयामासतुः स्वर्द्वि, गत्वाऽयोध्यापतेश्च तो । मानिनां मानसिद्धिर्हि, सफला स्थानदर्शिता ।। १७४ ।। तत्र स्वजनमादाय, सर्व परिजनं च तौ । विमानवरमारोह्य, प्रति वैताट्यमीयतुः ॥ १७५ ।।
प्रान्तयोलवणाम्भोधिवीचीनिचयचुम्बितम् । पूर्वापरदिशोरन्तर्मानदण्डमिव स्थितम् ।। १७६ ।। आघाटभूतं भरतदक्षिणोत्तरभागयोः । पञ्चाशतं योजनानि, दक्षिणोत्तरयोः पृथुम् ।। १७७ ॥ षड् योजनानि सक्रोशान्यवगाढं महीतले । उत्सेधं धारयन्तं च, पञ्चविंशतियोजनीम् ॥ १७८ ॥ प्रसारिताभ्यां वाहुभ्यामिव दृगद् हिमाद्रिणा । गङ्गासिन्धुस्रवन्तीभ्यां, समाश्लिष्टं समन्ततः ॥१७९।। भरतार्धश्रियो लीलाविश्रामसदने इव । खण्डप्रपाता-तमिस्राभिधाने दधतं गुहे ॥ १८० ॥ 10 सिद्धायतनकूटेन, शाश्वतप्रतिमाजुषा । विभ्राणमद्भुतां शोभा, सुमेरुमिव चूलया ॥ १८१ ॥ नानारत्नमयान्यच्चैलीलास्थानानि नाकिनाम । नवग्रेवेयकाणीव, नवकटानि विभ्रतम् ।। १८२ ॥ ऊर्ध्वं योजनविंशत्या, दक्षिणोत्तरपार्श्वयोः । दधानं व्यन्तरावासश्रेण्यौ निवसने इव ।। १८३ ॥ आमूलचूलिकं चारुकलधौतशिलामयम् । पृथिव्यां पादकटकमिवैकं विच्युतं दिवः ॥ १८४ ॥ मरुदन्दोलितोद्दामशाखिशाखाभुमुहुः । आह्वयन्तमिवाऽऽरात् ती, वैतादयगिरिमापतुः ॥ १८५ ॥ 15
[ दशभिः कुलकम् ] क्ष्मातलाद् दशयोजन्या, उपरिष्टान्नमिर्नृपः । तत्राद्रौ दक्षिणश्रेण्यां, चक्रे पञ्चाशतं पुरीः ॥ १८६ ॥ प्राकिन्नरनरगीतं, बहुकेतुपुरं ततः । पुण्डरीकं हरिकेतु, सेतुकेतुपुरं तथा ॥ १८७ ॥ सारिकेतुनगरं, श्रीबहुश्रीगृहं तथा । लोहार्गला-रिञ्जये च, स्वर्गलीलपुरं तथा ॥ १८८ ।। वज्रार्गलपुरं वज्रविमोकनगरं तथा । तथा महीसार-पुरये सुकृतमुख्यपि ॥ १८९ ॥ 20 चतुर्मुखी बहुमुखी, रता च विरताऽपि च । आखण्डलपुरं चाऽपि, विलासयोनिपत्तनम् १९० अपराजितं काञ्ची-दामाख्ये सुविनयं नभः । क्षेमङ्करंसह-चिहपुरं कुसुमपुर्यपि ॥ १९१॥ सञ्जयन्ती शक्रपुर, जयन्ती वैजयन्त्यपि । विजया क्षेमङ्करं च, चन्द्रभासपुरं तथा ॥१९२॥ रविभासपुरं सप्तभूतलावासमेव च । सुविचित्रं महानं च, चित्रकूटं त्रिकूटकम् ॥ १९३ ॥ वैश्रवणकूट-शर्शिपुरे रविपुरं तथा । विमुखी-चाहिन्यौ सुभुखी नित्योढ्योतिनी तथा ॥१९४॥25 श्रीरथनूपुरचक्रवालं तु नगरोत्तमम् । एषां पुराणां मध्यस्थमध्युवास स्वयं नमिः ॥ १९५ ॥ ___ तथैव चोत्तरश्रेण्यां, विनमिः पर्यसूत्रयत् । पष्टिं पुराणि सद्योऽपि, नागराजस्य शासनात् ॥ १९६॥ पुर्यर्जुनी वारुणी च, वैरिसंहारिणी तथा । कैलासवारुणी विद्युद्दीप्तं किलिंकिलं तथा ॥१९७॥ चारुचूडामणिश्चैव, चन्द्रभाभूषणं तथा । वंशवत् कुसुमचूलं, हंसगर्भ च मेधकम् ॥ १९८॥ शङ्करं लक्ष्मिहयं च, चामरं विमलं तथा । असुमत्कृतं च शिवमन्दिरं वसुमत्यपि ॥१९९॥ 30 सर्वसिद्धस्तुतं चैव, सर्वशत्रुनयं तथा । केतुमालाङ्कनगरमिन्द्रकान्ताभिधं ततः ॥ २० ॥ महानन्दनाशोकंच, वीतशोकं विशोककम् । सुग्वालोका-ऽलकतिलक-नभस्तिलकान्यपि २०१ मन्दिरं कुमुदकुन्दं, ततो गगनैवल्लभम् । युवतीतिलैंकसंज्ञमवनीतिलकं ततः ॥ २०२ ॥ सगन्धर्व मुक्तहारं, ततोऽनिमिषविष्टपम् । अग्निज्वाला गुरुज्वाला,श्रीनिकेतपुरं तथा ॥२०३॥ ततो जयश्रीनिवासं, रत्नकुलिशपत्तनम् । वसिष्टाश्रयं द्रविणजयं चाऽथ सभ,कम् ॥ २०४ ।। 35 भद्राशयपुरं तस्मात् , फेनशिंग्वरमप्यथ । गोक्षीरवरशिग्वराभिधानं तदनन्तरम् ॥ २०५ ।।
त्रिषधि, ९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org